________________ पुढवीकाइय 676 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाहवण्णम्मिय एकेक्के, गंधम्मि रसम्मि तह य फासम्मि। नाणत्ती कायव्वा, विहाणए होइ एकिकं / / 78|| वर्णाऽऽदिके एकैकस्मिन्विधान भेदे सहस्राग्रशो नानात्वं विधयम. तथाहि-कृष्णो वर्ण इति सामान्य, तस्य च भमराङ्गारकोकिलावलकजलाऽऽदिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलाऽऽदिष्वप्यायोज्य, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः। तथा-वर्णाऽऽदीनां परस्परसंयोगाद्धूसरकेसरकर्बुराऽऽदिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णाऽऽदीनां प्रत्येक प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः। पुनरपि पर्याप्तकाऽऽदिभेदावेदमाहजे बायरे विहाणा,पज्जत्ता तत्तिया अपज्जत्ता। सुहुमा वि होंति दुविहा, पज्जत्ता चेव अपजत्ता॥७६। यानि बादरपृथिवीकाये विधानानि भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवाना, यत एकपर्याप्तकाऽऽश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किंतु पर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः। पर्याप्तिस्तु-"आहारसरीरिदिय-ऊसासवओमणोऽहिनिव्वत्ती। होति जतो दलियाओ, करणं पइ सा उ पजत्ती / / 1 / / " जन्तुः समुत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति तेन च करणविशेषेणाऽऽहारमवगृह्य पृथग खलरसाऽऽदिभावेन परिणति नयति स तादृक्करणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छ्रासाभिधानाश्चतस्रो भवन्ति, एताश्वान्तर्मुहूर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः / यथा सूक्ष्मबादराऽऽदयो भेदाः सिद्धयन्ति तथा प्रसिद्ध भेदेनोदाहरणेन दर्शयितुमाहरुक्खाणं गुच्छाणं, गुम्माण लयाण वल्लिवलयाणं / जह दीसइ नाणत्तं, पुढविकाए तहा जाण ||8|| यथा वनस्पतेर्वृक्षाऽऽदिभेदेन स्पष्ट नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तथा वृक्षाः-चूताऽऽदयो गुच्छा वृन्ताकीसल्लकीकप्पास्यादयः,गुल्मानिनवमालिकाकोरण्टकाऽऽदीनि, लताः-पुन्नागाशोकलताऽऽद्याः, वल्यस्त्रपुषीवालुडीकोशातक्याद्याः, वलयानिकेतकीकदल्यादीनि। पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाहओसहि तण सेवाले, पणगविहाणे य कंद मूले य। जह दीसइ नाणत्तं, पुढवीकाइए तहा जाण / / 1 / / यथा हिवनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपिद्रष्टव्यः / तत्र ओषध्यः शाल्याऽद्याः, तृणानि दर्भाऽऽदीनि, सेवालं जलोपरि मलरूपं, पनकः काष्ठाऽऽदावुल्लीविशेषः पञ्चवर्णः, कन्दः सूरणकन्दादिः, मूलमुशीराऽऽदीति। एतेच सूक्ष्मत्वान्नैकद्व्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तुपलभ्यन्ते तदर्शयितुमाहएकस्स दोण्ह तिण्ह व, संखेज्जाण व न पासिउं सक्का। दीसंति सरीराई, पुढविजियाणं असंखाणं / / 2 / / स्पष्टा / कथं पुनरिदमवगन्तव्यं, सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धरधिष्ठातरि प्रतीतिर्गवाश्वादाविव इत्येतथितुमाहएएहि सरीरेहिं, पच्चक्खं ते परूविया होति / सेसा आणागेज्झा, चक्खूफान जं इंति / / 3 / / एभिरसंख्येयतयोपलभ्यमानैः पृथिवीशर्कराऽऽदिभेदभिन्नैः शरीरैस्ते च शरीरिणः शरीरद्वारेण प्रत्यक्षं साक्षात्प्ररूपिताः ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयाऽर्थः। प्ररूपणाद्वारानन्तरं लक्षणद्वारमाहउवओगजोग अज्झव-साणे मतिसुय अचक्खुदंसे या अट्ठविहोदयलेसा, सन्नुस्सासे कसाया य।।४।। तत्र पृथिवीकायाऽऽदीनां स्त्यानाद्युदयाद्यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षण, तथा योगःकायाऽऽख्य एक एव, औदारिकतन्मिश्रकार्मणाऽऽत्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्याऽऽलम्बनायव्याप्रियते; तथाऽध्यवसायाः- सूक्ष्मा आत्मनः परिणामविशेषाः, ते च लक्षणम्, अव्यक्तचैतन्यपुराधमनःसमुद्भुतचिन्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्याः,तथा साकारोपयोगान्तः पातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिका बोद्धव्याः, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्याः, तथा ज्ञानाःऽवरणीयाऽऽद्यष्टविधकर्मोदयभाजस्तावद्वन्धभाजश्व, तथा लेश्याअरावसायविशेषरूपाः कृष्णनलिकापोततेजस्यश्चतस्रस्ताभिरनुगताः, तथा दशविधसंज्ञानुगताः, ताश्च आहाराऽऽदिकाः प्रागुक्ता एव,तथा सूक्ष्मोच्छासनिःश्वासानुगताः। उक्त च--"पुढविकाइया णं भंते ! जीवा आणवन्ति वा, पाणवन्ति वा, ऊससन्ति वा, णीससंति वा? गोयमा ! अविरहियं संतयं चेव आणवन्ति वा, पाणवन्ति वा. ऊससंति वा, नीससंतिवा।" कषाया अपि सूक्ष्माः क्रोधाऽऽदयः। एवमेतानि जीवलक्षणाऽऽद्युपयोगाऽऽदीनि कषायपर्यवसानानि पृथिवीकायिकेषु संभवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनुगतत्वात मनुष्यवत् सचित्ता पृथिवीति / ननु च तदिदमसिद्धम-सिद्धेन साध्यते, तथाहि-न ल्युपयोगाऽऽदीनि लक्षणानि पृथिवीकायेषु व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद, अव्यक्तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्यतिमिश्रमदिराऽतिपानपित्तोदयाऽकुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावता तस्याचिद्रूपता, एवमत्राप्यव्यक्तचेतनासंभवोऽभ्युयगन्तव्यः; ननु चात्रोछासाऽऽदिकमञ्यक्तचेतनालिङ्ग मस्ति,न चेह तथाविधं किञ्चिचेतनालिङ्गमस्ति नैतदेवम्, इहापि समानजातीयलतोद्भेदाssदिकमर्शो मांसाड्कुरवचेतनाचिह्नमस्त्येव, अव्यक्तचेतनाना हि सम्भावितकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्व चैतन्यं विशिष्टतुपुष्पफलप्रदत्वेन स्पष्ट साधयिष्यते च,ततो व्यक्तोपोगाऽऽदिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम्।