________________ पुढवीकाइय 975 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय एककस्मिश्च वर्णाऽऽदौ तारतम्यभेदेनानेकेऽवान्तरभेदाः / तथाहिभमरको किलकजलाऽऽदिषु तरतमभावादित्यादिरूपतयाऽने के कृष्णभेदाः, एवं नीलाऽऽदिष्वप्यायोज्यम् / तथा गन्धरसस्पर्शष्व-पि तथा परस्पर वर्णानां संयोगतो घुसरकर्बुरत्वाऽऽदयोऽनेके सड़ख्याभेदाः, एवं गन्धाऽऽदीनामपि परस्परं गन्धाऽऽदिभिः समायो-गादतो भवन्ति, वर्णाऽऽद्यादेशैः सहस्राग्रशो भेदाः / (संखेज्जाई जाणिप्पमुहसयसहस्साई इति) संख्येयानि योनिप्रमुखाणि योनिद्वाराणि शतसहस्राणि / तथाहि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्श च संवृता योनिः पृथिवीकाचिकाना, सापुनस्त्रिधासचित्ता, अचित्ता, मिश्राच। पुनरेकैका त्रिधाशीता, उरुणा, शीतोष्णा।शीताऽऽदीनामपि प्रत्येक तारतम्यभेदादनेकभेदत्वं केवलमेव विशिष्टवर्णाऽऽदियुक्ताः संख्याऽतीता अपि स्वस्थाने व्यक्तिभेदेन योनयो जातिमधिकृत्यैकैव योनिर्गण्यते, ततः संरयेयानि सप्तपृथिवीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मबादरगतसर्वसंख्यया सप्त / (पजत्तगनिस्साए इत्यादि) पर्याप्तनिश्रया अप्तिका व्युत्क्रामन्ति उत्पद्यन्ते, कियन्त इत्याह-यत्रैकः पय तस्तत्र नियमात्तन्निश्रया असंख्येयाः संख्यातीता अपर्याप्तकाः / उपसंहारमाह-(सेत्तमित्यात्यादि) निगमनत्रयं सुगमम् / प्रज्ञा० १पद। ('पिंड' शब्देऽस्मिन्नेव भागे 620 पृष्ठे सचित्ताऽचित्तमिश्रपृथिवीपिण्डा उवताः ) / पृथिवीकायोद्देशःपुढवीए निक्खेवो, परूवणा लक्खणं परीमाणं / उवभोगो सत्थं वेयणाय वहणा निवित्तीय // 68 / / प्राग जीवोदशके जीवस्य प्ररूपणा किं न कृतेत्येतच नाशङ्कनीय, यतो जीवसामान्यस्य विशेषाऽऽधारत्वाद्विशेषस्य च पृथिव्यादिरूपत्वात्सामान्यजीवस्य चोपभोगाऽऽदेरसंभवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति। तब पृथिव्या नामाऽऽदिनिक्षेपो वक्तव्यः, प्ररूपणासूक्ष्मबादराऽऽदिभेदा, लक्षणंसाकारानाकारोपयोगकाययोगाऽऽदिक, परिमाणम्-संवर्तितलोकप्रतरासंख्येयभागमात्राऽऽदिकम्, उपभोगःशयनाऽऽसनचक्रमणाऽऽदिकः, शस्त्रं स्नेहाम्लक्षाराऽऽदि, वेदनास्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा, वधः कृतकारितानुमतिभिरुपमर्द्धनाऽऽदिकः, निवृत्तिः-अप्रमत्तस्यमनोवाक्कायगुप्त्याऽनुपमाऽऽदिकेति रागाराार्थः। व्यासार्थं तु नियुक्तिकृद्यथाक्रममाहनाम ठवणा पुढवी, दव्वपुढवीय भावपुढवी य। एसो खलु पुढवीए, निक्खेवो चउव्विहो होइ॥६६।। स्पष्टा / नामस्थापने क्षुण्णत्वादनादृत्याऽऽहदव्वं सरीरभविओ, भावेण य होइ पुढविजीवो उ। जो पुढविनामगोयं, कम्मं वेएइ सो जीवो / / 70 / / तत्र द्रव्यपृथिवी आगमतो, नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नो आगमतस्तु पृथिवीपदार्थज्ञस्य शरीरंजीवोपेततथा पृथिवीपदार्थज्ञत्वेन भव्योबालाऽऽदिः, ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीवःएकभविको बराऽऽयुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामाऽऽदिकर्मोदीपर्ण वेदयति / गत निक्षेपद्वारम् / साम्प्रत प्ररूपणाद्वारम्दुविहा य पुढविजीवा,सुहुमा तह बायरा य लोयम्मि। सुहुमा य सव्वलोए,दो चेव य बायरविहाणा / / 71 / / पृथिवीजीवा द्विविधाः-सूक्ष्मा बादराश्च / सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनाभकर्मोदयात् बादराः कर्मोदयजनिते एवैषां सूक्ष्मवादरत्वे न त्वापेक्षिके बदरामलकयोरिव / तत्र सूक्ष्माः समुद्कपर्याप्तप्रक्षिप्तगन्धावयववत्सर्वलोकव्यापिनः / __ बादरास्तु मूलभेदाद् द्विविधा इत्याहदुविहा बायरपुढवी, समासओ सण्हपुढवि खरपुढवी। सण्हा य पंचवण्णा, अवरा छत्तीसइविहाणा / / 72 / / 'समासतः संक्षेपाद् द्विविधा बादरपृथिवीश्लक्ष्णबादरपृथिवी खरबादरपृथिवी च, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्पञ्चधा, इह च गुणभेदादगुणभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्त्वन्येऽपि षट्त्रिंशद्विशेषभेदाः सम्भवन्तीति। तानाहपुढवी य सक्करा वा-लुगा य उवले सिला य लोणूसे / अय तंव तउय सीसग, रुप्प सुवन्ने य वेरे य // 73 // हरियाले हिंगुलए, मणोसिला सीसगंऽजण पवाले। अब्भपडलऽभवालुय, वायरकाए मणिविहाणा / / 74|| गोमेज्जए य रुयए, अंके फलिहे य लोहियक्खे य। मरगय मसारगल्ले, भुयमायेग इंदनीले य / / 7 / / चंदप्पभ वेरुलिए, जलकंते चेव सूरकंते य। एए खरपुढवीए, नामं छत्तीसयं होति / / 76 / / अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः; द्वितीयगाथया त्वष्टौ हरितालाऽऽदयः, तृतीयगाथया दश गोमेधकाऽऽदयः, तुर्यगाथया चल्वारः चन्द्रकान्ताऽऽदयः। अत्रच पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एतास्पष्टा इति कृत्वा न विवृताः। एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वर्णाऽऽदिभेदेन पृथिवीभेदान् दर्शयितुमाहवण्णरसगंधफासे, जोणिप्पमुहा हवंति संखेज्जा। णेगाइ सहस्साइं, होंति विहाणम्मि एकिक्के 77 / / तत्र वर्णाः शुक्ताकाऽऽदयः पञ्च, रसास्तिक्ताऽऽदयः पच, गन्धौ सुरभिदुरभी, स्पाः मृदुकर्कशाऽऽदयःअष्टौ, तत्र वर्णाऽऽदिके एकेकस्मिन्योनिप्रमुखा योनिप्रभृतयः संख्येया भेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सह-ग्राण्येकैकस्मिन्वपर्णाऽऽदिक विधाने भेदे भवन्ति, योनितो गुणतन भेदानामिति एतच सप्तयोनिलक्षणप्रमाणत्वात् पृथिव्या एवं भावनीयमिति / उक्तं च प्रज्ञापनायाम्-"तत्थ णं' (15) इत्यादि। (तच्चाऽस्मिन्नेव भागे 674 पृष्ठे दर्शितम्) इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति।