________________ पुंडरीय 162 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय योग विभजेदर्मफलानि च कीर्तयेद्- आविर्भावयेत्, तद्य धर्मकथनं परिहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु शिष्येषु अनुपस्थितेषु वा कौतुकाऽऽदिप्रवृत्तेषु शुश्रूषमाणेषु श्रोतु प्रवृत्तेषु स्वपरहिताय प्रवेदयेदावेदयेत्प्रकथयेदिति यावत्। श्रोतुमुपस्थितेषु यत्कथयेत्तदर्शयितुमाह(सति विरई इत्यादि) शान्तिरुपशमः क्रोधजयस्तत्प्रधाना प्राणातिपाताऽऽदिभ्यो विरतिः शान्तिविरतिः। यदि वा-शान्तिरशेषक्लेशोपशभरूपा तस्यैतदर्थ विरतिः शान्तिविरतिः तां कथयेत्तथा उपशमभिन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनित तथा निर्वृतिं निर्वाणमशेषद्वन्द्वोपरमरूप तथा (सोयविय ति) शोचं तदपि भावशीचं सर्वोपाधिविशुद्धता व्रतामालिन्यम् (अज्जवियं ति) आउँवसमायित्वं तथा मार्दवं मृदुभावं सर्वत्र प्रश्रयवत्त्वं, विनयनम्रतेति यावत् / तथा(लाघवियं ति) कर्मणां लाघवाऽऽपादनं कर्मगुरोर्वाऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननम्। सांप्रतमुपसंहारद्वारेण सर्वशुभानुष्ठानाना मूलकारणमाह- अतिपतनं अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासाऽवतिपातिकस्तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिना भूतानां यावत्सवानां धर्ममनुविविच्यानुविचिन्त्य वा कीर्तयेत्कथयेत्। इदमुक्तं भवतिसर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति। साम्प्रतं धर्मकीर्तनं यथा निरुपधि भवति तथा दर्शथितुमाहसे मिक्खू धम्म किट्टमाणे णो अन्नस्स हेउं धम्ममाइक्खेज्जा, णो पाणस्स हेउं धम्ममाइक्खेज्जा, णो वत्थस्स हेउं धम्ममाइक्खेजा, णो लेणस्स हेउं धम्ममाइक्खेज्जा, णो सयणस्स हेउं धम्ममाइक्खेज्जा,णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्थ कम्मनिज्जर? ए धम्ममाइक्खेज्जा / इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिंधम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्म सोच्चा णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धन्मे समुट्ठिया ते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुडे त्ति वेमि। स भिक्षुः परकृतपरनिष्ठिताऽऽहारभोजी यथा क्रियाकालानुष्टायी शुश्रूषत्सु धर्म कीर्तयेत्, नान्नस्य हेतोर्मगायमीश्वरो धर्मकथाप्रवणो विशिष्टमहारजातं दास्यतीति एतन्निमितं न धर्ममाचक्षीत। तथा पानवस्त्रलयनशयननिमित्तं न धर्ममाचक्षीत / अन्येषां वा विरूपरूपाणामुच्चावचानां कार्याणां कामभोगाना वा निमित्तं न धर्ममाचक्षीत, तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्वान्यत्र न धर्म कथयेत्, अपरप्रयोजननिरपेक्ष एवं धर्म कथयेदिति। धर्मकथाश्रवणफलदर्शनद्वारेणोपसंजिघृक्षुराह- (इह खलु तस्येत्यादि) इहाऽस्मिन् जगति, खलुः वाक्यालंका तस्य भिक्षोर्गुणवतोऽन्तिके समीपे पूर्वोक्तविशेषणविशिष्ट धर्म श्रुत्वा निशम्य अवगम्य सम्यगुत्थानेनोत्थाय वीराः कर्मविदारणसहिष्णवो ये चैवभूतास्ते एवं पूर्वोक्तविशेषणविशिष्टानुष्टानतया सर्वस्मिनपि मोक्षकारणे सम्यग्दर्शनाऽऽदिके उप सामीप्येन गताः सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्यः उपरताः सर्वोपरताः, तथा त एव सर्वोपशान्ता जितकषायतया शीतलीभूतास्तथा एव सर्वाऽऽत्मत-या सर्वसाम \न सदनुष्ठानेनोद्यमं कृतवन्तो ये चैवभूतास्तेऽशेषकर्मक्षयं कृत्वा परि समन्नान्निर्वृताः अशेषकर्मक्षय कृतवन्त इति ब्रवीमिति पूर्ववत्। साम्प्रतमध्ययनोपसंहारार्थमाहएवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिण्णाय कम्मे परिण्णाय संगे परिण्णाय गेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिले, तं जहा-समणेति वा माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुणीति वा कतीति वा विऊति वा भिक्खूति वा लूहेति वा तीरट्ठीति वा चरणकरणपारविउ त्ति बेमि / / 15 / / इति बितियसुयक्खंधस्स पों डरीयं नाम पढमज्झयणं सम्मत्तं। एवमिति पूर्वोक्तविशेषणकलापविशिष्टः स भिक्षुः पुनरपि सामान्यतो विशिष्यते धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थी धर्मार्थी, यथाऽवस्थित परमार्थतो धर्म सर्वोपाधिविशुद्ध जानातीति धर्मवित्तथा नियागः संयमो विमोक्षो वा कारणे कार्योपचारं कृत्वा तं प्रतिपन्नो नियागप्रतिपन्नः, स चैवंभूतः पञ्चमपुरुषजातस्तं चाऽऽश्रित्य यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्त, स च प्राप्तो वा स्यात्पद्मवरपोण्डरीकमनुग्राह्यं पुरुषविशेषं चक्रवादिकं तत्प्राप्तिश्च परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति, साक्षाद्यथावस्थितवस्तुस्वरूपपरिच्छित्तेः, अप्राप्तो वा स्यान्मतिश्रुतावधिमनः पर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः, स चैवंभूतः प्राग्व्यावर्णितगुणकलापोपेतो भिक्षुः परि समन्तात् हातं कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा, तथा परिज्ञातः सङ्गः संबन्धः सबाह्याभ्यन्तरो येन स तथा परिज्ञातो निःसारतया गृहवासो येन स तथोपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिस्तथा सह हितेन वर्तत इति सहितो ज्ञानाऽऽदिभिर्वा सहितः समन्वितः सदा सर्वकालं यतः संयतः प्राग्व्यावर्णितनियमकलापोपेतः, स एवं गुणकलापाऽन्वित एतद्वचनीयः। तद्यथा-श्राम्यतीति श्रमणः समना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः उपदेशो यस्य स माहनः, सब्रह्मचारी वा ब्राहाणः, क्षान्तः सक्षमोपेतो, दान्तइन्द्रियनोइन्द्रियदमनेन, तथा तिसृभिर्गुतिभिर्गुप्तः, तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा-मनुते जगतरित्रकालावस्थामिति मुनिः, तथा-कृतमस्यास्तीति कृती पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान् सद्विद्योपेतः, तथा-भिक्षुर्निरवद्याऽऽहारतया भिक्षणशीलः, तथा अन्तप्रान्ताऽऽहारत्वेन