________________ पुंडरीय 961 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय शुद्धिमधिल्याऽऽह- (से भिक्खू इत्यादि) से भिक्षुर्यत्पुनरेवं भूतमाहारजात जानीयात् (अस्सि पडियाए त्ति) एतत्प्रतिज्ञयाऽऽहारदानप्रालेज्ञया, यदि वाऽस्मिन् पर्याय साधुपर्याय व्यवस्थितमेकं साधु साधर्मिक समुद्दिश्य कश्चिच्छावकः प्रकृतिभद्रको वा साध्वाहारदानार्थ पाणिनः प्रत्यक्तेन्द्रियान् भूतानि त्रिकालभावीनि जीवानायुष्कधरणलक्षणान्सत्त्वान्सदा सत्त्वोपेतान्समारभ्य तदुपमर्दकमारम्भ विधाय समुद्दिश्य तत्पीडां सम्यगुद्दिश्य, क्रीतं क्रयेण द्रव्यविनिमयेन (पामिच्च ति) उद्यतकमाच्छेद्यमित्यन्यस्मादाच्छिद्य, अनिसृष्टमिति परेणानुसंकलितमभ्याहतमिति साध्वभिमुख ग्रामाऽऽदेरानीतमाहृत्योपेत्य साध्वर्थं कृतमुद्देशिकमित्येवंभूतमाहारजातं साधवे दत्तं स्यात, तच्चा कामेन तेन परिगृहीत स्यात्, तदेवं दोषदुष्ट च ज्ञात्वा स्वयं न भुञ्जीत, नाप्यपरेण भोजयेत, न च भुञ्जानमपरं समनुजानीयादित्येवं दुष्टाऽऽहारदोषान्निवत्तो भिक्ष भवतीत्यर्थः / से मिक्खू अह पुण एवं जाणेज्जा। * तं जहा-विज्जति तेसिं परक्कमे जस्सट्ठा ते चेइयं सिया, तं जहा-अप्पणो से पुत्ताणं धूयाणं ण्हाणं धातीणं णातीणं राईणं दासाणं कम्मकराणं कम्मकरीणं आदेसाए पुढो पहेणाए सामासाए पातरासाए सन्निहिसंचए किञ्जति इहमेगेसि माणवाणं भोयणाए / तत्थ भिक्खू परकडं परणिद्वितमुग्गमुप्पायणेसणासुद्धं सत्थाईयं सत्थपरिणामियं अविहिंसियं एसियं वेसियं सामुदाणियं पत्तमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजायामायावत्तियं विलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा, अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले। अथपुनरेव जानीयादित्यादि। तद्यथा-विद्यते तेषां गृहस्थानामेवम्भूतो वक्ष्यमाणाः पराक्रमः सामर्थ्यमाहारनिर्वर्तनं प्रत्यारम्भस्तेन च यदाहारजात निर्वर्तितं यस्य चार्थाय यत्कृते तच्चेतितमिति दत्तं निष्पादित स्याद्भवेत्। यत्कृते व निष्पादितं तत्स्वनामग्राह-माह। तद्यथा- आत्मनः स्वनिमित्तमेवाऽऽहारादिपाकनिर्वर्तनं कृतमिति, तथा पुत्राऽऽद्यर्थ यावदादेशायाऽऽदिश्यते यस्मिन्नागते संभ्रमेण परिजनस्तदाशनदानाऽऽदिव्यापारे स आदेशः प्राघूर्णकस्तदर्थवा पृथक् प्रहेणार्थ विशिष्टाऽऽहारनिर्वर्तन क्रियते तथा श्यामा रात्रिस्तस्यामशनमाशः श्यामाऽऽशस्तदर्थ , प्रातरशनं प्रातराशः, प्रत्यूषस्येव भोजनं तदर्थ सन्निधिः संनिचयो | विशिष्टाऽऽहारसंग्रहस्य संचयः क्रियते 1 अनेन चैतत्प्रतिपादितं भवतिबालवृद्धग्लानाऽऽदिनिमित्तं प्रत्यूषाऽऽदिसमयेष्वपि भिक्षाऽटनं क्रियते, तस्य चायमभिहितः संभवः, स च संनिधिसंचय इहैकेषां मानवाना भोजनार्थ भवति, तत्र भिक्षुरुद्यतविहारी परकृतपरनि-ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेत्, अत्र च परकृतपरनिष्ठिते चत्वारो भङ्गाः / तद्यथा- तस्य कृतं तस्यैव च निष्ठितं, तस्य कृतमन्यस्य निष्ठिसम, अन्यस्य कृतं तस्यैव निष्ठितम्, अन्यस्य कृतमन्यस्य निष्ठितमित्ययं * इह पुस्तकान्तरे भ्यान पाठभेदो दृश्यते। चतुर्थो भगः सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्चान्यस्य निष्ठितत्वात्तत्राधाकर्मा इंशिकाऽऽदय उद्गमदोषाः षोडश तथोत्पादनादोषा धात्रीद्यादिकाः षोडशैव, तथैषणादोषाः शङ्किताऽऽदयो दश एवमेभिर्द्धिवत्वारिंशतोषरहितत्वाच्छुद्धम् / तथा शस्त्रमग्न्यादिकं ते नातीतं प्रासुकीकृतं शखपरिणामितमिति शस्त्रेण स्वकायपरकायाऽऽदिना निर्जीवीकृतं वर्णगन्धरसाऽऽदिभिश्च परिणमित, हिंसां प्राप्त हिसितं विरूपं हिसितं विहिसितन सम्यक् निर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादयिहिंसित निर्जीवमित्यर्थः / तदप्येपितमन्वेषितं भिक्षाचर्याविधिना प्राप्ते, वैषिकमिति केवलसाधुवेषावाप्त न पुनर्जात्याद्याजीवनतो निमिताऽऽदिना वोत्पादित, तदपि सामुदानिकं समुदानं भिक्षा समूहस्तत्र भवं सामुदानिकम, एतदुक्तं भवति- मधुकरवृत्त्याऽवाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः / तथा-प्रज्ञस्येदं प्राज्ञंगीतार्थेनोपात्तमशनम्आहारजातं, तदपि वेदनावैयावृत्त्यादिके कारणे सति, तत्राऽपि प्रमाणयुक्त नातिमात्रम्। प्रमाण चेदम्- "अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भाए। वाउपवियारणहा, छत्भागं ऊणयं कुजा / / 1 // " इति। एतदपि न वर्णवलाऽऽद्यर्थ किन्तु यावन्मात्रेणाऽऽहारेण देहः क्रियासु प्रवर्तते। तत्र दृष्टान्तद्वयमाह-तद्यथा-अक्षस्योपाञ्जनम् अभ्यङ्गोव्रणस्य चलेपनं प्रलेपस्तदुपमया आहारमाहरेत्। तथा चोक्तम्-"अब्भगेण व संगई, य तरइ विगई विणा उ जो साहू / सो रागदोसरहिओ, मत्ताएँ विहिइ त सेवे।।१।।" एतदेव दर्शयतिसंयमयात्राया मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्त्तते सा तथा तयासंयमयात्रामात्रया वृत्तिर्यस्य तत्तथा, तदपि विप्रवेशपन्नगभूतेनाऽऽत्मनाऽहारमाहेरत्। एतदुक्तं भवति-यथाऽहिर्विल प्रविशन्तूर्ण प्रविशत्येवं साधुनाऽप्याहारस्तत्स्वादमनास्वादयता शीघ्र प्रवेसयितव्य इति / यदि वासर्पणेवाऽऽहारो लब्ध्वा स्वादमभ्यवहार्यत इति / तदेवं चाऽऽहारजातं दर्शयितुमाह - अन्न भक्तमन्नकाले सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरः पश्चात्कर्म परिहृतं भवति यथोक्तभिक्षाऽटनेन, ग्रहणकालावाप्त भैक्षं परिभोगकाले भुञ्जीत, तथा पानकं पानकाले.. नातितृषितो भुञ्जीत, नाप्यतिबुभुक्षितः पानकं पिबेदिति, तथा वरवं वस्त्रकाले गृहीयादुपभोग वा कुर्यात्. तथा लयनं गुहाऽऽदिकमाश्रयस्तस्यवर्षास्ववश्यभुपादानमन्यदा त्वनियमस्तथा शय्यतेऽस्मिन्निति शयन संस्तारकः, स च शयनकाले, तत्राप्यगीतार्थानां प्रहरद्वयं निद्राविमोक्षो गीतार्थानां प्रहरमेकमिति। से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए, संति विरतिं उवसमं निव्वाणं सोयवियं अञ्जवियं मद्दवियं लाघवियं अणतिवातियं सव्वे सिं पाणाणं सवेसिं भूताणंजाव सत्ताणं अणुवाइं किट्टिए धम्म। स भिक्षु राहारो पधिशयन स्वाध्यायध्यानाऽऽदीनां मात्रा जानातीति तद्विधिज्ञः सन् अन्यतरां दिशमनुदिश वा प्रतिपन्न: समाश्रितो धर्ममाख्यापयेत् प्रतिपादयेत्, यद्येन विधेयं तद्यथा