________________ पुंडरीय 660- अभिधानराजेन्द्रः - भाग 5 पुंडरीय दिह्रण वा सुएण वा मएण वा णाएण वा विनाएण वा इमेण वा सुचरियतवनियमबंभचेरवासेण इमेण वा जाया माया वुत्तिएणं धम्मेणं इओ चुए पेच्चा देवे सिया कामभोगाण वसवत्ती सिद्धे वा अदुक्खमसुभे एत्थ वि सिया एत्थ वि णो सिया। स मूलोत्तरगुणव्यवस्थितौ भिक्षुर्नास्य क्रियासावद्या विद्यते इत्यक्रियः, संवृताऽऽत्मकतया सांपरायिककर्माबन्धक इत्यर्थः कुत एवंमतः रात: प्राणिनामलूषकोऽहिंसकोऽनुपमर्दक इत्यर्थः, तथा विद्यते क्रोधो यस्येत्यक्रोधः, एवममानोऽमायोऽलोभः कषायोपशमाच्चोपशान्तः शीतीभूत-- स्तदुपशमाच्च परिनिर्वृत इव परिनिर्वृतः। एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति-(नो आसंसमित्यादि) नो नैवाशंसां पुरस्कृत्यं ममानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीति एवंभूतामाशंसां न पुरस्कुर्यादिति। एतदेव दर्शयितुमाह-(इमेणमित्यादि) अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टे नाम षध्यादिना तथा पारलौकिकेन च श्रुतेनाकधम्मिल्लब्रह्मदत्ताऽऽदीनां विशिष्टतपश्चरणफलेन, तथा (मएण व त्ति) मननं ज्ञानं जातिस्मरणाऽऽदिना ज्ञानेन तथाऽऽचार्याऽऽदेः सकाशा-द्विज्ञानेनावगतेन ममापि विशिष्ट भविष्यतीत्येवं नाऽऽशंसां विदध्यात, तथाऽमुना सुचरित तपोनियमब्रहाचर्यवासेन तथाऽमुना वा यात्रामात्रावृत्तिना धर्मेणानुष्ठितेन इतोऽस्माद्भवाच्च्युतस्य प्रेत्य जन्मान्तरे स्यामहं देवः, सत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुः, अशेषकर्मवियुतो वा सिद्धः अदुःखोऽशुभाशुभकर्मप्रकृत्यपेक्षयेत्येव भूतोऽहं स्यामागामिकाल इत्येवमाशंसा न वि दध्यादिति। यदि वा-विशिष्टतपश्चरणाऽऽदिनाऽऽगामिनि काले ममाणिमा लघिमेत्यादिकाऽष्ट प्रकारा सिद्धिर्भविष्यतीत्यनया च सिद्ध्या सिद्धोऽहमदुःखोऽशुभो वा मध्यस्थ इत्येव रूपामाशंसा नकुर्यात्। तदकरणे च कारणमाह- (एत्थ वि इत्यादि) अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिन्नि मित्ताद् दुष्प्रणिधानसद्भावे सति कदाचिस्सिद्धिः स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धि स्यात / तथा चोक्तम्"जे जत्तिया उ हेऊ, भवस्स ते चेव तत्तिया मोक्खे।" इत्यादि। यदि वा-अत्राप्यणिमाऽऽद्यष्टगुणकारणे तपश्चरणाऽऽदी सिद्धिः स्यात् कदाचिच न स्यात, तद्विपर्ययोऽपि वा स्याद्. इत्येवं व्यवस्थिते प्रेक्षापूर्वकार्यकारिणां कथमाशंसां कर्तुं युज्यते, इति सिद्धिश्चाष्टप्रकारेयम्-(अणिमा 1, लघिमा 2, महिमा 3, प्रीतिः, 4, प्रकाम्यम् 5, ईशित्वम् 6, वशित्वम् 7. यत्र कामावसायित्वमिति 8 ! तदेवमैहिकार्थमामुष्मिकार्थ कीर्तिवर्णश्लोकाऽऽद्यर्थ च तपो न विधेयमिति स्थितम्। साम्प्रतमनुकूलप्रतिकूलेषु शब्दाऽऽदिषु विषयेषु रागद्वेषाभावं दर्शयितुमाहसे भिक्खू सद्देहिं अमुच्छिए रूदेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुच्छिए विरए कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादंसणसल्लाओ इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू / जे इमे तसथावरा पाणा भवंति ते णो सयं समारंभई, णो अण्णे हिं समारंभाति, अन्नं समारभंतं न समणुजाणंति, इति से महतो आयाणाओ उवसंते उवहिए पडिविरते से भिक्खू / जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हंति, णो अन्नेणं परिगिण्हावेंति, अन्नं परिगिण्हतं पि ण समणुजाणंति, इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू। स भिक्षुः राऽऽशंसारहितो वेणुवीणाऽऽदिषु शब्देवमूञ्छितोऽगृद्धोऽनध्युपपन्नः, तथा-रासभाऽऽदिशब्देषु कर्कशेषु अद्विष्टः, एवं रूपरसगन्धस्पर्शेष्वपि / वाच्यमिति / पुनरपि सामान्येन क्रोधाऽऽद्युपशम दर्शयितुमाह-(विरए कोहाओ इत्यादि) क्रोधमानमायालोभेभ्यो विराम इत्यादि सुगमम, यावदिति। (से महया आयाणा उवराते उवट्टिए पडि विरए से भिक्खु त्ति) स भिक्षुर्भवति यो महतः कर्मो पादानादुपशान्तः सत्संयमे वोपस्थितः सर्वपापेभ्यश्च विरतः प्रतिविस्त इति / एतदेव च महतः कर्मोपादनाद्विरमणं साक्षाद्दर्शयितुमाह- (जे इमे इत्यादि) ये केचन साः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि (नो) नैव स्वयं सत्साधवः समारभन्ते प्राण्युपमर्दकमारम्भं नारम्भन्त इति यावत् तथा नान्यः समारम्भयन्ते, नचान्यान समारम्भमाणान् समनुजानत इत्येत महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति / सांप्रतं सामान्यतः सापरायिककर्मोपादानकामभोगनिवृत्तिमधिकृत्याऽह-(ज इमे इत्यादि) ये केचनामी काम्यन्त इति कामा भुज्यन्त इति भोगास्तेच सचित्ता अचित्ता वा भवेयुस्ताश्च न स्वतो गृह्णीयान्नाप्यनेन ग्राहयेत्, नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति / साम्प्रतं सामान्यतः साम्परायिककर्मोपादाननिषेधमधि कृत्याऽऽहजंपि य इमं संपराइयं कम्मं कज्जइ, णो तं सयं करेति, णो अण्णेणं कारवेंति, अन्नं पिकरेंतं ण समणुजाणइ इति, से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते / से भिक्खू जाणेज्जा असणं वा पाणं वा खाइमं वा साइमं वा अस्सिं पडियाए एगं साहम्मियं समुहिस्स पाणाई भूताई जीवाइं सत्ताई समारंभ समुद्दिस्स कीतं पामिचं अच्छिज्जं अणिसटुं अमिहडं आहट्ट देसियं तं चेतियं सिया तं णो सयं भुंजइ, गो अण्णेणं भुजाति, अन्नं पि भुंजंतंण समणुजाणइ इति, से महतो अयाणाओ उवसंते उवट्ठिए पडिविरते। (जंपिय इत्यादि) यदपीदंसंपर्येतितासुतासुगतिष्वनेन कर्मणेति सापरायिक, तच्चतत्पद्वेषनिहवमात्सर्यान्तरायाशातनोपघातबध्यते, तत्कर्मतत्चारण वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयत इति। सांप्रतं भिक्षावि