________________ पुंडरीय 656 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय कुर्वत इत्येवं संख्याय परिज्ञाय द्वयोरप्यन्तयोरारम्भपरिग्रहयो रागद्वेषयोधा अदृश्यमानः अनुपलभ्यमानो, यदि वा-रागद्वेषयोविन्तौअभावी तयोरादिश्यमानोरागद्वेषाभाववृत्तित्वेनापदिश्यमानः सन्नित्येभूतो भिक्षणशीलोऽनवद्याऽऽहारभोजी सत्संयमानुष्ठाने रीयेत प्रवर्तेत, एतदुक्तं भवति-ये इमे ज्ञातिसंयोगा यश्चायं धनधान्याऽऽदिकः परिग्रहो यचेद हस्तपादाऽऽद्यवयवयुक्तं शरीरं यच्चतदायुर्वलवर्णाऽऽदिकंतत्सर्वमशाश्वतमनित्यं स्वप्नन्द्रजालसदृशमसारं, गृहस्थश्रमणब्राह्मणाश्च सारम्भाः सपरिग्रहाश्च, एतत्सर्वपरिज्ञाय सत्संयमानुष्ठाने भिक्षू रीयेतेति स्थतम। स पुनरप्यहमधिकृतमेवार्थ विशेषिततरं सोपपत्तिकं ब्रवीमीतितन्त्र प्रज्ञापकापेक्षया प्राच्यादिकाया दिशोऽन्यतरस्याः समायातः स भिक्षुयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन् एवमनसरोक्तेन प्रकारेण ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिजातकर्मा भवति / पुनरप्येवमिति परिज्ञातकर्मत्वाद्व्यापेतकर्मा भवति-अपूर्वरयाबन्धको भवतीत्यर्थः / पुनरेवमित्यबन्धकयोगनिरोधोपायतः पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति, एतच तीर्थकरगणधराऽऽदिभितिज्ञेयैराख्यातमिति। कथ पुनः प्राणातिपातविरतिव्रताऽऽदिव्यवस्थितस्य कर्मापगमो भवतीत्युक्तम् ? यतस्तत्प्रवृत्तस्याऽऽत्मौपम्येन प्राणिनां पीडोत्पद्यते, तया च कर्मबन्ध इत्येव सर्व मनस्याधायाऽऽहतत्थ खलु भगवता छज्जीवनिकायहेऊ पण्णत्ता, तंज-हापुढवीकाए०जाव तसकाये, से जहाणामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउट्टिजमाणस्स वा हम्ममाणस्स वा तज्जिजमाणस्स वा ताडिज्जमाणस्स वा परियाविजमाणस्स वा किलाविज्जमाणस्स वा उद्दविजमाणस्स वा० जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि, इचेवं जाण सव्वे जीवा सव्वे भूता सव्वे पाणा सव्वे सत्ता दंडेण वाजाव कवालेण वा आउट्टिजमाणा वा हम्ममाणा वा तजिज्जमाणा वा ताडिज्जमाणा वा परियाविज्जमाणा वा किलाविज्जमाणा वा उद्दविज्जमाणा वाजाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, एवं नच्चा सव्वे पाणा० जाव सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेतव्वा ण परितावेयव्वा ण उद्दवेयव्वा; से वेमि जे य अतीता जे य पडुप्पन्ना जे य आगमिस्सा अरिहंता भगवंता सव्वे ते एवमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेति-सव्वे पाणा० जाव सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेतव्वा ण परितावेयव्वा ण उद्दवेयव्वा, एस धम्मे धुवे णीतिए सासए समिच्च लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणातिवायातो० जाव विरते पग्गहातो णो दंतपक्खालणेणं दंते पक्खालेजा णो अंजणं णो वमणं णो धूवणे जो तं परिआविएज्जा। तत्रेति कर्मबन्धप्रस्तावे, खलुवक्यिालंकारे, भगवता उत्पन्नज्ञानेन तीर्थकृता षड्जीवनिकाया हेतुत्वेनोपन्यस्ताः, तद्यथा- पृथिवीकायो यावत्रसकायोऽपीति, तेषां च पीड्य मानाना यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिदैन दृष्टान्तेन दर्शयितुमाह- तद्यथा नाम मम असातं दुःखं वक्ष्यमाणः प्रकारेरुत्पद्यते तथाऽन्येषामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना लेलुता लोप्टेन कपालेन कपरण आकोट्यमानस्य संकोच्यमानस्य हन्यमानस्य कशाऽऽदिभिस्तर्जमानस्याडगुल्याऽऽदिभिस्ताड्यमानस्य कुड्याऽऽदावभिघाताऽऽदिनापरितप्यमानस्याग्न्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा अपद्राव्यमाणरय मार्यमाणस्य यावलोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्यवं जानीहि। तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः कथशिन्दमाश्रित्य व्याख्येयाः, तत्रैतेषां दण्डाऽऽदिना कुट्थमानानां यावल्लोमोत्खननमात्रमपि दुःखं प्रति संवेदयतामेतच्च हिंसाकरं दुःखं भय चोत्पन्नं ते सर्वे प्राणिनः प्रतिसवेदयन्तिसाक्षादनुभवन्तीति, एवमात्मोपमया पीयमानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या नाऽऽज्ञापयितव्याः बलात्कारेण व्यापारे नप्रयोक्तव्याः, तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः / सोऽहं ब्रवीमि, एतन्न स्वमनीपिकतया किं तु सर्वतीर्थकराऽऽज्ञयेति दर्शयति-(जे अतीए इत्यादि) ये केचन तीर्थकृत ऋषभाऽऽदयोऽतीता ये च विदेहेषु वर्तमानाः सीमन्धराऽऽदयो ये चाऽऽगामिन्यामुत्सर्पिण्यां भविष्यन्ति पद्मनाभाऽऽदयोऽर्हन्तोऽमरासुरनरेश्वराणां पूजार्हा भगवन्त ऐश्वर्याऽऽदिगुणकलापोपेताः सर्वेऽप्येवं ते व्यक्तवाचा आख्यान्ति प्रतिपादयन्ति / एवं सदेवमनुजायां पर्षदि भाषन्ते, स्वत एव, न यथा बौद्धाना बोधिसत्त्वप्रभावात् कुड्याऽऽदिदेशनत इत्येवं प्रकर्षण ज्ञापयन्ति हेतूदाहरणाऽऽदिभिः, एवं प्ररूपयन्ति नामाऽऽदिभिर्यथा सर्वे प्राणा न हन्तव्या इत्यादि, एष धर्मः प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो ध्रुवोऽवश्यंभावी नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं चाभिसमेत्य केवलज्ञानेनावलोक्य लोक चतुर्दशरज्ज्वात्मकं खेदहस्तीर्थकृद्भिः प्रवेदितः कथित इत्येव सर्व ज्ञात्वा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताद्यावत्परिग्रहादिति / एतदेव दर्शयितुमाह- (णो दंत इत्यादि) इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्रापरिग्रहो निष्किञ्चनः सन साधु! दन्तप्रक्षालनेन कदम्बाऽऽदिकाष्ठेन दन्तान् प्रक्षालयेत्, तथा नो अञ्जनं सौवीराऽऽदिक विभूषार्थमक्ष्णोर्दद्यात्, तथा नो वमनविरेचनाऽऽदिकाः क्रियाः कुर्यात्, तथा नो शरीरस्य स्वीयवस्वाणां वा धूपनं कुर्यान्नापि कासाऽऽद्यपनयनार्थ तं धूमं योगवर्तिनिष्पादितमापिवेदिति। साम्प्रत मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराहसे मिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनिव्वुडे णो आसंसं पुरतो करेज्जा इमेण मे