________________ पुंडरीय 958 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय विग्रहाः॥१॥' तथा-कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलता प्रतिपद्यन्ते, तदेवं वय परिणामाऽऽपादितसन्मतिरेतद्भावयेत। तद्यथायदपीदं शरीरमुदारं शोभनावयवरूपोपेतं विशिष्टाऽऽहारोपचितम्, एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्य भविष्यतीत्येतदवगम्य शरीरानित्यतया संसारासारतां संख्याय अवगम्य परित्यक्तसमस्तगृहप्रपञ्चः निष्किञ्चनतामुपगम्य, सभिक्षुर्देहदीर्घसंयमयात्रार्थ भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति। तदेवं लोकद्वैविध्यं दर्शयितुकाम आह / तद्यथा-जीवाश्च प्राणधारणलक्षणास्तद्विपरीताश्च अजीवाः-धर्माधर्माऽऽकाशाऽऽदयः, तत्रतस्य भिक्षोरहिंसाप्रसिद्धयेजीवान् विभागेन दर्शयितुमाह-जीवा अप्युपयोगलक्षणा द्विधा। तद्यथा-वस्यन्तीति सा द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावराः पृथिवीकायाऽऽदयः / तेऽपि सूक्ष्मबादरपर्याप्तकापर्याप्तकाऽऽदिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा व्यापारः प्रवर्तते। साम्प्रतं तदुपमर्दकव्यापारकर्तन दर्शयन्नाहइह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारंभति, अन्नेण वि समारंभावेंति, अण्णं पि समारभंतं समणुजाणंति / इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा विसारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हंति, अन्नेण वि परिगिण्हावेंति, अन्नपि परिगिण्हतं समणुजाणंति / इह खलु गारत्था सारेभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा,एतेसिं चेव निस्साए बंभचेरवासं बांसेस्सामो, कस्स णं तं हेउं? जहा पुव्वं तहा अवरं जहा अवरं तहा पुव्वं, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव // इहास्मिन् संसारे, खलुक्यालङ्कारे, गृहम्-अगार तत्र तिष्ठन्तीति गृहस्थाः, ते च सहाऽऽरम्भेणजीवोपमर्दकरिणा वर्तन्त इति सारम्भाः. तथा सह परिग्रहेणद्विपदचतुष्पदधनधान्याऽऽदिना वर्तन्त इति सपरिग्रहाः, न केवलंत एवान्येऽपि सन्ति विद्यन्ते एके केचन श्रमणाः शाक्याऽऽदयः, ते च पचनपाचनाऽऽद्यनुमतेः सारम्भाः दास्यादिपरिग्रहाच सपरिग्रहाः, तथा ब्राहाणाश्चैवंविधा एव, एतेषां च सारम्भकत्वं स्पष्टतरं सूत्रेणैव दर्शयति-य इमे प्राग्व्यावर्णिताखसाः स्थावराश्च प्राणिनस्तास्वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापार स्वत एव कुर्वन्तीत्यर्थः, तथाऽन्याश्च समारम्भयन्ति, समारम्भं कुर्वतश्चान्यान् समनुजानन्ति / तदेवं प्राणतिपातं प्रदर्श्य भोगाङ्गभूतं परिग्रह दर्शयितुमाह (इह खलु इत्यादि) इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाच, ते च सारम्भपरिग्रहत्वात् किं कुर्वन्तीति दर्शयति-ये इमे प्रत्यक्षाःकामप्रधाना भोगाः कामभोगाः, काम्यन्त इति कामाः स्त्रीगात्रपरिष्वङ्गाऽऽदयो, भुज्यन्त इति भोगाः स्त्रकचन्दनवादित्राऽऽदयः, त एते सचित्ताः सचेतना अचेतना वा भवेयुः, तदुपादानभूता वाऽर्थाः, तांश्च सचित्तानचित्तान् वाऽर्थास्ते कामभोगार्थिनो गृहस्थाऽऽदयः स्वत एव परिगृह्णन्ति, अन्येन च परिग्राहयन्ति, अपरं च परिगृह्णन्तं समनुजानत इति। साम्प्रतमुपसंजिघृक्षुराह-(इह खलु इत्यादि) इह अस्मिन जगति सन्ति विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भाः सपरिग्रहा इत्येवं ज्ञात्वा स भिक्षुरेवमवधारयेद्, अहमेवाऽत्र खल्वनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थाऽऽदयः सारम्भाऽऽदिगुणायुक्ताः तदेतन्निश्रया तदाश्रयेण च ब्रह्मचर्यश्रामण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तो, धर्माऽऽधारदेहप्रतिपालनार्थमाहाराऽऽदिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिष्याम इत्यर्थः / ननु च यदि तन्निश्रया पुनरपि विहर्तव्य किमर्थ ते त्यज्यन्त इति जाताऽऽशङ्कः पृच्छतिकस्य हेतोः केन कारणेन? तदेतदगृहस्थश्रमणब्राह्यणत्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा पूर्वम् आदी सारम्भपरिग्रहत्वं तेषां तथा पश्चादपि सर्वकालमपि गृहस्थाः सारम्भाऽऽदिदोषदुष्टाः श्रमणाश्च केचन यथा पूर्व गृहस्थभावे सारम्भाः सपरिग्रहास्तथा अपरस्मिन्नपि प्रव्रज्याऽऽरम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाह-यथा अपरम् अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपि गृहस्थभावाऽऽदावपीति। यदि वा-कस्य हेतोस्तदगृहस्थाऽऽद्याश्रयणं क्रियते यतिनेत्याह-यथा पूर्व प्रव्रज्याऽऽरम्भकाले सर्वमेव भिक्षाऽऽदिकं गृहस्थाऽऽयत्तं तथा पश्चादपि,अतः कथं तु नागनवद्या वृत्तिर्भविष्यतीत्यतः साधुभिर्नाऽऽरम्भैः सारम्भाऽऽश्रयणं विधेयम्। यथा चैते गृहस्थाऽऽदयः सारम्भाः सपरिग्रहाश्च तथा प्रत्यक्षेणैवोपलभ्यन्त इति दर्शयितुमाह-(अंजू इति) व्यक्तमेतदेते गृहस्थाऽऽदयो, यदि वा अञ्जू इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहाऽऽरम्भाच सत्संयमानुष्ठानेन चानुपस्थिताः-सम्यगुत्थानमकृतवन्तो येऽपि कथशिद्धर्मकरणायोत्थितास्तेऽप्युद्दिष्टभोजित्वात्सावद्याऽनुष्ठानपरत्वाच गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपि तादृशा एव गृहस्थकल्पा एवेति। साम्प्रतमुपसंहरतिजे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा, दुहतो पावाई कुव्वंति इति संखाए दोहिं वि अंतेहिं अदिस्समाणो इति भिक्खू रीएज्जा / से वेमि पाईणं वा०६जाव एवं से परिण्णायकम्मे, एवं से ववेयकम्मे, एवं से वि अंतकारए भवतीति मक्खायं // 14|| य इमे गृहस्थाऽऽदयस्ते द्विधाऽपि साऽऽरम्भसपरिगृहत्वाभ्यामुभाभ्यामपि पापान्युपाददते, यदि वा-रागद्वेषाभ्यामुभाभ्यामपि, यदि वा-गृहस्थप्रवज्यापर्यायाभ्यामुभाभ्यां पापानि