________________ पुंडरीय 654 - अमिधानराजेन्द्रः - भाग 5 पुंडरीय सबाह्याभ्यन्तरया पीडया पीडामनुभवामि, तथा (परितप्पामि त्ति) परितापमनुभवामि, तथा (जूरामि त्ति) अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्तौ विसूरयामीत्यर्थः / तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष , परपीडया कृतवानस्मीत्यर्थः / तथा परोऽपि यदुःखशोकाऽऽदिकमनुभवति मयि वाऽऽयादयति, तत् स्वयमेव कृतमिति / तदेव दर्शयति-(परो वेत्यादि) तथा परोऽपि यन्मांदुःखयति शोचयतीत्यादि प्राग्वन्नेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोऽज्ञो वा बाल एवं विप्रतिवेदयति जानीते स्वकारणं वा परकारणं या सर्व दुःखाऽऽदिपुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन्न इति। तदेवं नियतिवादी पुरुषकारकारणवादिनो बालत्वमापाद्य स्वमतमाहमेहावी पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि, परो वाजं दुक्खइवा०जाव परितप्पइ वा, णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से वेमि पाईणं वा ६,जे तसथावरा पाणा ते एवं संघायमागच्छंति, ते एवं विपरियासमावजंति, ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंति, ते एवं संगतियंति उवेहाए, णो एवं विप्पडिवेदेति / तं जहाकिरियाति वाजाव णिरए ति वा अणिरएति वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाइंसमारमंति भोयणाए। मेधा मर्यादा, प्रज्ञा वा, तद्वान् मेधावी नियतिवादपक्षाश्चयी, एवं विप्रतिवेदयति जानीते, कारणमापन्न इति नियतिरेव कारणं सुखदुःखाऽऽद्यनुभवस्य, तद्यथा-सोऽहमम्मि दुःखयामि शोचयामि, तथा (तिप्पामि त्ति) क्षरामि (पीडामि ति) पीडामनुभवामि (परितप्पामि | त्ति)परितापमनुभवामि नाहमेवमकार्षदुःखम्, अपितु नियतित एवैतन्मय्यागतं, न पुरुषकाराऽऽदिकृतं , यतो न हि कस्यविदात्माऽनिष्टो येनानिष्टा दुःखोत्पादाऽऽदिकाः क्रियाः समारभते, नियत्यैवासावनिच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, कारणमापन्न इति परेऽप्येवमेव योजनीयम्। एवंसति नियतिवादी मेधावीति सोल्लुण्ठमेतत्, स किल नियतीवादी दृष्ट पुरुषकारं परित्यज्यादृष्टनियतिवादाऽऽश्रयेण महाविवेकीत्येवमुल्लण्ठ्यते, स्वकारणं परकारणं च दुःखाऽऽदिकमनुभवन्नियतिकृतमेतदेवं विप्रतिवेदयतिजानाति नाऽऽत्मकृतं नियतिकारणमापन्नं, नियतिकारणं चात्रैकस्यासदनुष्ठानरतस्यापि न दुःखमुत्पद्यते, परस्य तु सदनुष्ठायिनाऽपि तद्भवति इत्यतो नियतिरेव कर्वीति / तदेवं नियतिवादे स्थिते परमपि यत्किञ्चित्तत्सर्व नियत्यधीनमिति दर्शयितुमाह-(से वेमीत्यादि) सोऽहं नियतिवादी युक्तितो निश्चित्य | ब्रवीमीति प्रतिपादयामि, ये केचन प्राच्यादिषु दिक्षु त्रस्यन्तीति त्रसा द्वीन्द्रियाऽऽदयः स्थावराश्च पृथिव्यादयः प्राणाः प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकाऽऽदिशररिसंबन्धमागच्छन्ति, नान्येन केनचि- / त्क्रर्माऽऽदिना शरीरं ग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थाऽऽदिकं विविधपर्यायं नियतित एवानुभवन्ति, तथा नियतित एव विवेकं शरीरात्पृथग्भावमनुभवन्ति।तथा नियतित एव विविधं विधानम्अवस्थाविशेषं कुब्जकाणखञ्जवामनकजरामरणरोगशोकाऽऽदिकं वीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा एवं पूर्वोक्तया नीत्या संगतिं यान्तिनियतिमापन्ना नानाविधविधानभाजो भवन्ति / त एव वा नियतिवादिनः (संगइयं ति) नियतिमाश्रित्य तदुत्प्रेक्षया नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो (नो) नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति जानन्ति / तद्यथा-क्रियासदनुष्ठानरूपा, अक्रिया तुसदनुष्ठानरूपा इत्यादि यावदेवं ते नियतिवादिनस्तदुपरि सर्व दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमारम्भैर्विरूपरूपान् कामभोगान् भोजनाय उपभोगार्थ समारभन्त इति। एवमेव ते अणारिया विप्पडिवनातं सहहमाणा० जाव इति ते णो हव्वाए णो पाराए अंतरा कामभोगेस विसण्णा; चउत्थे पुरिसजाए णियइवाइएत्ति आहिए। तदेवमेव पूर्वोक्तया नीत्या तेऽनार्या विरूपं नियतिमार्ग प्रतिपन्नाः विप्रतिपन्नाः, अनार्यत्वं पुनस्तेषां नियुक्तिकस्यैव नियतिवादस्य समाश्रयणात् / तथाहि-असौ नियतिः किं स्वत एव नियतिस्वभावा उतान्यया नियत्या नियम्यते? किञ्चिातः? तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथास्वभावत्वं किं न कल्प्यते? किं बहुदोषया नियत्या समाश्रितया? अथाऽन्यया नियत्या तथा नियम्यते, साऽप्यन्यया साऽप्यन्ययेत्येवमनवस्था। तथा नियतेः स्वभावत्वान्नियतस्वभावया अनया भवितव्यं, न नानास्वभावयेति, एकत्वाच नियतेस्तत्कार्येणाप्येकाऽऽकारेणैव भवितव्यम्, तथा च सति जगद्वैचित्र्याऽभावः, न चैतद्दृष्टमिष्टं वा। तदेवं युक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते। यदप्युक्तम्-द्वावपि तौ पुरुषौ क्रियाऽक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितम्, यतस्तयोरेकः क्रियावादी, अपरस्त्वक्रियावादीति, कथमनयोस्तुल्यत्वम्, अथैकया नियत्या तथा नियतत्वात्तुल्यता अनयोः, एतच्च निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणत्वात् / अप्रमाणत्वं च प्राग्लेशतः प्रदर्शितमेव। यदप्युक्तम्- "यद्दुःखाऽऽदिकमहमनुभवामि तन्नाहम कार्षम्' इत्यादि। तदपि बालवचनप्रायम्।यतो जन्मान्तरकृत शुभमशुभंवा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरत्वादसुमताम्।तथा चोक्तम्"यदिह क्रियते कर्म, तत्परत्रोपभुज्यते। मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते॥१॥" तथा"यदुपात्तमन्यजन्मनि, शुभमशुभं वा स्वकर्मपरिणत्या। तच्छक्यमन्यथा नो, कर्तुं देवासुरैरपि हि // 2 // " तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुक्तिफं नियतिवाद श्रद्धवानास्तमेव च प्रतीयन्ते इत्यादि तावन्नेयं यावदन्तरा कामभोगेषु विपण्णा इति चतुर्थः पुरुषजातः समाप्तः /