________________ पुंडरीय 953 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय शोभनमशोभनं वा यावदयमनरक इत्येवं सदसद्विवेकरहितत्त्वानायधारयन्त्येवमेव यथा कथञ्चित्ते विरूपरूपः कर्मसमारम्भर्नानाप्रकारैः सायद्यानुप्ताने द्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान्काममोगानुचावचान् समाचरन्ति भोजनायोपभोगार्थमित्येवमनास्तेि विरुद्ध मार्ग प्रतिपन्ना विप्रतिपन्ना न सम्यग्वादिनो भवन्ति / तथाहि"सर्वमीश्चरकर्तृकम' इत्यत्राभ्युपगमे किमसावीश्वरः स्वत एवापरान क्रियासु प्रवर्तयदुतापरेण प्रेरितः? तत्रयद्याद्यः पक्षस्तदा तद्वदन्येषामपि स्वत एच कियासु प्रवृत्तिभविष्यति किमन्तर्गडुनेश्वरपरिकल्पनेन? अथासायप्यपरप्रेरितः, सोऽप्यपरेण, सोऽप्यपरेणेत्येवभनवस्थालता नभामण्डलमालिनी प्रसर्पति / किं च-असावीश्वरो महापुरुषतया वीतरागतोपेतः रान्नेकान्नरकयोग्यासु क्रियासुप्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्थिति? अथ ते पूर्वशुभाशुभाचरितोदयादेव तथाविधासुतासु बियासु प्रवन्ति, स तु निमित्तमात्रम् / एतदपि न युक्तिराङ्गतम्। यतः मक्तनाशुभमवर्तनमपि तदायत्तमवातथा चोक्तम्-"अज्ञो जन्तुः०" इत्यादि। अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरमारेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन? तथा चोक्तम्- "शखौषधाऽऽदिसंबन्धाचैत्रस्य व्रणरोहणे / असंबद्धस्य कि स्थाणोः, कारणत्वं न कल्पते ? ||1 // " इत्यादि। यचक्तिम्- सर्व तनुभुतनकरणाऽऽदिक बुद्धिमत्कारणपूर्वक संस्थानविशेषत्वात देवकुलाऽऽदिवदित्येतदपि न युक्तिसङ्गतम, यत एतदपि साधन न भवदभिप्रेतमीश्वर साधयति, तेन सार्धं व्याप्त्यसिद्धेः, देवकुलाऽऽदिके दृष्टान्तेऽनीश्वरस्यैव कर्तृत्वनाभ्युपगमात। नच रास्थान दप्रवृत्तिमात्रण सर्वस्य बुद्धिमत्कारणपूर्वकत्वं सिद्ध्यति, अन्यथाऽ.. नपपनिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात्। अथाविनाभावमन्तरणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्यात्, एवं च सत्यतिप्रसङ्ग स्यात्। उक्तं च-"अन्यथा कुम्भकारेण, मृदबिकारस्य कस्यचित् / घटाऽऽद: करण सिद्धर्वल्मीकस्यापि तत्कृतिः / / 1 / / '' इत्यादि। नचेश्वरकर्तृत्वे जगद्वैचित्र्य सिध्यति.तस्यैकरूपत्वादित्युक्तप्रायमिति / आत्माद्वैतपक्षस्त्वत्यन्तमयुक्तिसङ्गतत्वान्नाऽऽश्रयणीयः। तथाहि-तत्र नप्रमाणं न प्रमेयं न प्रतिपाद्यं न प्रतिपादको न हेतुर्न दृष्टान्तो नतदाभासो भेदनाऽवगम्यते, सर्वस्यैव जगत एकत्वं स्यादात्मनोऽभिन्नत्वात्, तदभावे च कःकेन प्रतिपाद्यते? इत्यप्रणयनमेव शास्त्रस्याऽऽत्मनश्चैकत्वातत्कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यम् / तथा च सति- "नित्यं सत्त्वमसत्त्वं वा, हेतोरन्यानपेक्षणात / अपेक्षातो हि भावाना, कादाचित्कत्वसंभवः / / 1 / / '' इत्यादि / तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद्घटा प्राशति। तथाऽपि एले स्वदर्शनमाहमोहितास्तजातीयाद् दुःखात् शकुनिः पञ्जरादिय नातिमुच्यन्ते, विप्रतिपन्नाश्च तत्प्रतिपादिकाभिर्युक्तिभिस्तदेव स्वपक्ष प्रतियन्ति, श्रदधतीति पर्ववन्नेयम्। यावत् (णो हव्वाए णो पाराए अंतरा कामभोगेसु विरग्ण त्ति) इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति / सद्येवमाह- "यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत। आकाशमिव / पडून, नारंग पापेन लिप्यते।।१।।" इत्याद्यसमञ्जसभाषितया त्यक्त्वा पर्वसंयोगम-प्राप्तो विवक्षित स्थानमन्तराल एव कामभोगषु मूर्छितो विषण्ण इत्यवगन्तव्यमिति। सांप्रत चतुर्थपुरुषजातमधिकृत्दाऽऽहअहावरे चउत्थे पुरिसजाए णियतिवाइए ति आहिज्जइ. इह खलु पाईणं वा तहेव०६जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सडीभवइ, कामंतं समणाय माहणाय संपहारसुगमणाएoजाव मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ / / अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायते प्रतिपाद्यते / स चैवमाह-नात्र कश्चित्कालेश्वराऽऽदिकः कारणं, नापिपुरुषकारः, समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धरतो नियतिरेव कारणम् / उक्तं च- "प्राप्तव्यो नियतिबलाऽऽश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा ! भूतानां महति कृतऽपि हिप्रयत्ने, नाभाव्यं भवति न भाविनाऽस्ति नाश: ||1||" इत्यादि। नियतिवादी रवमतमाह - इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ, एगे पुरिसे णो किरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे णो किरियमाइक्खइ, दो वि ते पुरिसा तुल्ला एगट्ठा, कारणमावन्ना // इहाऽस्मिन जगति, खलुशब्दा वाक्यालंकार।द्वी पुरुषा भवतः। तत्रक: क्रियामाख्याति / क्रिया हि देशाद्देशान्तरावाप्तिलक्षणा पुरुषस्य भवतीति / न कालेश्वराऽऽदिना चोदितस्य भवत्यपि तु नियतिप्रेरितस्य, एवमक्रियाऽपि / यदितावत स्वतन्त्रौ क्रियावादमक्रियावाद च समाश्रिती तौ द्वावपि नियत्यधीनत्वात्तुल्यौ, यदि पुनस्तो स्वतन्त्रौ भवतस्ततः क्रियाऽक्रियाभेदान्न तुल्यो स्यातामित्यत एकाविककारणाऽऽपन्नत्वादिति, नियतिवशेनैव तौ नियतिवादमनियतिवाद चाऽऽश्रिताविति भावः / उपलक्षणार्थत्वाचास्यान्योऽपि यः कश्चित्कालेश्वराऽऽदिपक्षान्तमाश्रयति सोऽपि नियतिचादित एव द्रष्टव्य इति। साम्प्रत नियतिवादी परमताद्विभावयिषयाऽऽहबाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जं दुक्खइ वा सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा, एवं विप्पडिवेदेति कारणमापन्ने / / बालोऽज्ञः पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशेषणार्थः / तदेव दर्शयति- एवमिति वक्ष्यमाणनीत्या विप्रतिवेदयति जानीते कारणमापन्नःसुखदुःखयोः सुकृत दुष्कृतयार्वा स्वकृत एव पुरुषकारः कालेश्वराऽऽदिवा कारण मित्येवमभ्युपपन्नो नान्यत् नित्यादिक कारणगरतीति तदेवाऽऽह / तद्यथा- योऽहमस्मि दुःखामि शारीर मानस दुःखमनुभवामि, तथा शांचामीष्टानिष्टवियोगसंप्रयोगकृतं, शोकमनुभवामि, तथा (तिप्पामित्ति, शारीरबल क्षरामि तथा (पीडामि त्ति)