________________ पुंडरीय 655 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय साम्प्रतमुपसंजिघृक्षुराहइचेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता इति ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसण्णा (12 सूत्रम्)। इत्येते पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृत्वनियतिवादापक्षाऽऽश्रयिणश्चत्वारः पुरुषा नानाप्रकारा प्रज्ञा मतिर्येषां ते तथा, नानाभिन्नश्छन्दः-अभिप्रायो येषां ते तथा, नानाप्रकार शीलम अनुष्ठानम् येषां ते तथा, नानारूपा दृष्टिः-दर्शन येषां ते तथा, नानारूपा रुचिः-चेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भोधर्मानुष्ठानं येषां ले तथा, नानाप्रकारेण परस्परभिन्नेनाऽध्यवसायेन संयुक्ता धर्मार्थमुवताः, प्रहीण:-परित्युक्तः पूर्वसंयोगोमातृपितृकलत्रपुत्रसम्बन्धो यैस्ते तथा, तथा-आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो निर्दोषः पापलेश्यासंपृक्तस्तमार्य मार्गमसंप्राप्ता इति पूर्वोक्तया नीत्या ते चत्वारोऽपि नास्तिकाऽऽदयो (णो हव्वाए इति) परित्यक्तत्वान्मातापित्राऽऽदिसंबन्धस्य धनधान्यहिरण्याऽऽदिसशयस्य च नैहिकसुखभाजो भवन्ति / तथा-(णो पाराए त्ति) असंप्राप्तत्वादार्यस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, किं त्वन्तराल एवं गृहवासार्यमार्गयोर्मध्यवर्तिन एव कामभोगेषु विषण्णा अध्युपपन्ना दुष्पारपङ्कमग्ना करिणे इव विषीदन्तीति स्थितम् / उक्ताः परतीर्थिकाः। साम्प्रतं लोकोत्तर भिक्षावृत्तिं भिक्षुकं पञ्चमं पुरुषजात मधिकृत्याऽऽहसे बेमि पाईणं वा 6 संतेगतिया मणुस्सा भवंति / तं जहाआयरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च ण जणजाणवयाइं परिग्गहियाणि भवंति। तं जहा-अप्पयरावा भुजयरावा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे मिक्खायरियाए समुट्ठिता सतो वा वि एगे णायओ अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता असतो वा वि एगे णायओय अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता, जे ते सतो वा असतो वा णायओ य अणायओय उवगरणं च पिप्पजहाय भिक्खायरियाए सुमुद्विता / / यादृक्कामभोगेष्वसक्तः सन्नन्तरा नोऽवसीदति, पद्मवरपाण्डरीकोद्वरणाय च समर्थो भवति, तदेतदहं ब्रवीमीति / अस्य चार्थस्योपदर्शनाय प्रस्तावमारचयन्नाह-प्राचीनाऽऽदिकामन्यतरां दिशमुद्दिश्येक के चन मनुष्याः सन्ति भवन्ति / तद्यथा- आर्या आर्यदेशोत्पन्ना मगधाऽऽदिजनपदोद्भवाः, तथा-अनार्याः शकयवनाऽऽदिदेशोद्भवाः, तथा च उचैर्गोत्रोद्भवा इक्ष्वाकुहरिवंशाऽऽदिकुलोद्भवाः, तथा-नीचैर्गोत्रीद्ववाःवर्णापसदसंभूताः, तथा-कायवन्तः प्रांशवः, तथा-हस्वा वामनकाऽऽदयः, तथा-सुवर्णा दुर्वर्णाः सुरूपाः कुरुपा वा एक केचन परवशा भवन्ति, तेषां चार्याऽऽदीनाम्, णमिति वाक्यालङ्कारे, क्षेत्राणि शालिक्षेत्राऽऽदीनि वास्तूनि खातोच्छूिताऽऽदीनि तानि परिगृहीतानि स्वीकृतानि भवन्ति / तान्येव विशिनष्टिअल्पतराणि स्तोकतराणि या प्रभूततराणि वा भवन्ति / तथा-तेषामेव च जनजानपदाः परिगृहिता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः, तेषु चार्याऽऽदिविशेषणविशिष्टषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गत्वा, तथा प्रकारेषु वाकुलेष्वागभ्य जन्म लब्ध्वाऽभिभूय च विषयकषायाऽऽदीन् परीषहोपसनि वा सभ्यगुत्थानेनोत्थाय प्रव्रज्यां गृहीत्वैके केचन तथाविधसत्त्ववन्तो भिक्षाचर्यायां सम्यगुत्थिताः समुत्थिताः,तथा-सतो विद्यमानानपि वा एके केचन महासत्त्वोपेता ज्ञातीन् स्वजनान् अज्ञातीन् परिजनांस्तथोपकरण च कामभोगाङ्ग धनधान्यहिरण्याऽऽदिक विविध प्रकर्षण हित्वा त्यक्त्वा भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणं च विप्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुत्थिताः / पुव्वमेव तेहिं णायं भवइ / तं जहा-इह खलु पुरिसे अन्नमन्नं ममट्ठाए एवं विप्पडिवेदेति / तं जहा-खेत्तं मे वत्थू मे हिरणं मे सुवन्नं मे धणं मे धण्णं मे कंसं मे दूसं मे विपुलधणकणगरयण मणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेयं मे सद्दा मे रूवा मे गंधा मे रसा मे फासा मे, एते खलु मे कामभोगा अहमवि एतेसिं / से मेहावी पुव्वामेव अप्पणो एवं समभिजाणेज्जा / तं जहा-इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पञ्जेज्जा, अणिडे अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे णो सुहे से हंता भयंतारो ! कामभोगाइं मम अन्नयरं दुक्खं रोयातकं परियाइयह अणिटुं अकंतं अप्पियं असुभं अमणुन्नं अमणामं दुक्खं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीहामि वा परितप्पामि वा इमाओ मे अण्णयराओ दुक्खाओ रोयातकाओ पडिमोयह अणिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमणुनाओ अमणामाओ दुक्खाओ णो सुहाओ, एवामेव णो लद्धं पुव्वं भवइ। ये ते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः पूर्वमेव प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञात भवति / तद्यथा-(इहे त्यादि) इह जगति, खलुक्यालङ्कारे, अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय भविष्यतीति, एवमसौ प्रवज्यां प्रतिपन्नः प्रविव्रजिषुर्वा प्रवेदयति जानात्येवं परिच्छिनत्ति। तद्यथा-क्षेत्र शालिक्षेत्राऽऽदिकं वास्तु खातोच्छ्रिताऽऽदिक हिरण्यं धर्मलाभाऽऽदिकं सुवर्ण कनकं धनं गोमहिष्यादिकं धान्य शालगोधूभाऽऽदिक कांस्य कांस्यपात्राऽऽदिक तथा विपुलानि प्रभूत