________________ पुंडरीय 646 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय वानुपूर्येण दर्शयति-तद्यथेत्युपन्यासार्थः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्राऽऽर्या अर्धषड्विशतिजनपदोत्पन्नाः, तद्व्यतिरिक्तास्त्वनार्या एके केचन भवन्ति।तेचानार्यक्षेत्रोत्पन्ना अमी द्रष्टव्याः। तद्यथा"सगजवणसबरबब्बरकायमुरुडोडगोड्डुपक्कणिया। अरबागहूणरोमय, पारसखसखसिया चेव / / 1 / / डोंबिलयलउसबोक्स, भिल्लंधपुलिंदकोंबभमररुया। कोंचा य चीणचंचुयमालव दमिला कुलग्धा य॥२॥ केकयकिरायहयमुहखरमुह तह तुरगमेंढयमुहा य। हयकण्णा गयकण्णा, अण्णे य अणारिया बहवे / / 3 / / पावा य चंडदंडा, अणारिया णिग्धिणा णिरणुकंपा / धम्मो त्ति अक्खराई, जेण ण णजंति सुमिणेऽवि // 4 // " इत्यादि। तथोचैर्गोत्र-इक्ष्वाकुवंशाऽऽदिकं येषां तेतथाविधा एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः / तथा नीचैर्गोत्रं, सर्वजनावगीतं येषां ते तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचैर्गोत्रा या कायोमहाकायः प्रांशुत्वंतद्विद्यते येषां ते कायवन्तः, तथा ह्रस्ववन्तो वामनककुरजवडभाऽऽदय एके केचन तथाविधनामकर्मोदयवर्तिमः, तथा शोभनवर्णाः सुवर्णाः, प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णाः-कृष्णरुक्षाऽऽदिवर्णा एके केचन, तथा सुरूपाः सुविभक्तावयवचारुदेहाः, तथा दुष्टरूपादुरूपाः वीभ-त्सदेहाः, तेषां चौच्चैर्गोत्राऽऽदिविशेषणविशिष्टानां महान् कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति, स विशेष्यतेमहाहिमवन्मलयमन्दरमहेन्द्राणामिव सारः-सामर्थ्य विभवो वा यस्यसतथा इत्येवं राजवर्णको यावदुपशान्तडिम्बडमरं राज्य प्रसाधयंस्तिष्ठतीति। तत्र डिम्बःपरानीकशृगालिकः (डिम्बविशेषः "डिंब' शब्दे चतुर्थभागे 1735 पृष्ठे गतः) डमरंस्वराष्ट्रक्षोभः (डमरविचारः 'डमर' शब्दे चतुर्थभागे 1734 पृष्ठे कृतः) पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ इति। तस्य चैवंविधगुणसंपदुपेतस्य राज्ञ एवंविधा पर्षद्भवतीति। तद्यथा-उग्रास्तत्कुमाराश्चोग्रपुत्राः, एवं भोगभोगपुत्राऽऽदयोऽपि द्रष्टव्याः शेषं सुगम, यावत्सेनापतिपुत्रा इति। (णवरं लेच्छइत्ति) लिप्सुकः सच वणिगादिः, तथा प्रशास्तरो बुध्युपजीविनो मन्त्रिप्रभृतयः, तेषां च मध्ये कश्चिदेवैकः श्रद्धावान्, धर्मलिप्सुः भवति, काममित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा संप्रधारितवन्तः समालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय तत्र चान्यतरेण धर्मेणस्वसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्यतंराजानं स्वकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गत्वैवमूचुः / तद्यथा-एतद्यथाऽहं कथयिष्यामि एवमिति च वक्ष्यमाणनीत्या भवन्तो यूयं जानीत भयात्वातारो वा यथा येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति / एवं तीर्थकः स्वदर्शनानुरञ्जितोऽन्यस्याऽपि राजाऽऽदेः स्वाभिप्रायेणापदेशं ददाति / तत्राऽऽद्यः पुरुषजातस्तजीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे / सूत्र० २श्रु० 10 // (तं जहा-इत्याद्यवशिष्टं सूत्रम्- "तज्जीवतच्छरीरवाइ (ण)" शब्दे चतुर्थभागे 2173 पृष्ठे व्याख्यातम्) प्रथमपुरुषानन्तरं द्वितीयं पुरुषजातमधिकृत्याऽऽहअहावरे दोचे पुरिसजाए पंचमहन्भूतिए ति आहिज्जइ / इह खलु पाईणं वा ६जाव संतेगतिया मणुस्सा भवंति अणुपुटवेणं लोयं उववन्ना।तं जहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवइ महया०एवं चेव णिरवसेसं०जाव सेणावइपुत्ता, तेसिं च णं एगतिए सडा भवंति कामंतं समणा य माहणाय पहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो ! जहा मए एस धम्मे सुअक्खाए सुपन्नते भवति॥ अथशब्द आनन्तर्यार्थ , प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पञ्चभिः भूतैः पृथिव्यप्तेजोवाय्वाकाशाऽऽख्यैश्चरति पाञ्चभौतिकः / पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस्य स पञ्चभूतिको, मत्वर्थीयष्ठक्। सच सांख्यमतावलम्ब्याऽऽत्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूताऽऽत्मिकायाश्च प्रकृतेः सर्वत्र कर्तृत्वाभ्युपगमाद् द्रष्टव्यो; लोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्त नास्तित्वाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूताऽऽत्मवाद्यभिधीयते चेति / अत्र च प्रथमपुरुषगमेन "इह खलु पाईणं वा" इत्यादिको ग्रन्थः 'सुपण्णत्ते भवति'इत्येतत्पर्यवसानोऽवगन्तव्य इति / साम्प्रतं साङ्ख्यस्य लोकायतिकस्य चाभ्युपगमं दर्शयितुमाहइह खलु पंच महन्भूता, जेहिं नो विज्जइ किरियाति वा अकिरियाति वा सुकडेति वा दुकडेति वा कल्लाणेति वा पावए ति वा साहु त्ति वा असाहु त्ति वा सिद्धि त्ति वा असिद्धि त्ति वा णिरए त्ति वा अणिरए त्ति वा अवि अंतसो तणमायमवि॥ इहास्मिन् संसारे द्वितीयपुरुषवक्तव्यताऽधिकारे वा, खलु शब्दो वाक्यालंकारे। पृथिव्यादीनि पञ्चमहाभूतानि विद्यन्ते। महान्तिच तानि भूतानि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्वं, तानि च पञ्चैव अपरस्य षष्ठस्य क्रियाकर्तृत्वेनानभ्युपगमात्, यैर्हि पञ्चभिभूतैरभ्युपगम्यमानः नः अस्माकं क्रिया परिस्पन्दाऽऽत्मिका चेष्टारूपा क्रियते, अक्रिया वा निर्व्यापाररूपतया स्थितिरूपा क्रियते। तथाहितेषां दर्शनं सत्त्वरजस्तमोरूपा प्रकृतिर्भूताऽऽत्मभूताः सर्वा अर्थक्रियाः करोति। “पुरुषः केवलमुपभुङ्क्ते, बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयति'' इति वचनात्। बुद्धिश्च प्रकृतिरेव तद्विकारत्वात्। तस्याश्च प्रकृतेर्भूताऽऽत्मिकायाः सत्वरजस्तमसां चयापचयाभ्यां क्रियाक्रिये स्यातामिति कृत्वा भूतेभ्य एव क्रियाऽऽदीनि प्रवर्तन्ते, तद्व्यतिरेकेणापरस्याभावादिति भावः / तथा सुष्टु कृतं सुकृतमेतच सत्त्वगुणाऽऽधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतमेतदपि रजस्तमसोरुत्कटतया प्रवर्तते / एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वाऽऽदीनां गुणानामुत्कर्षानुत्कर्षतया यथा