________________ पुंडरीय 950 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय संभवमायोजनीयम् / तथेप्सितार्थनिष्टानं सिद्धिर्विपर्ययस्त्वसिद्धिनिर्वाण वा-सिद्धिः, असिद्धिः-संसारः संसारिणा तथा नरकः पापकर्मणां यातनास्थानमनरकस्तिर्यडमनुष्यामराणामेतत्सर्व सत्त्वाऽऽदिगुणाधिठिता भूताऽऽत्मिका प्रकृतिर्विधत्ते। लोकयताभिप्रायेणापीहेव तथाविधसुखदुःखावस्थाने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्य तद्भूतैरेव प्रधानरूपाऽऽपन्नैः क्रियते। तथा चोक्तम्- ''सत्त्वं लघु प्रकाशकभिष्टमुपष्टम्भकं बलं च रजः / गुरु चरणकमेव तमः, प्रदीपवचार्थतो वृत्तिः / / 1 / / '' इत्यादि / तदेवं सांख्याभिप्रायेणाऽऽत्मनस्तृणकुब्जीकरणेऽप्यसामथ्यल्लिोकायतिकाभिप्रायेण त्वात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः। तानि च समुदायरूपाऽऽपन्नानि नानास्वभाव कार्य कुर्वन्ति। तं च पिहुद्देसेणं पुढो भूतसमवायं जाणेजा। तं जहा-पुढवी एगे महन्भूते, आऊ दुचे महन्भूते, तेऊ तच्चे महन्भूते, वाऊ चउत्थे महन्भूते, आगासे पंचमे महब्भूते इचेते पंच महब्भूया अणिम्मिया अणिम्माविया अकडा णो कित्तिमा णो कडगा अणाइया अणिहणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा पुण एगे एवमाहु-सतो णत्थि विणासो, असतो णत्थि संभवो / / तं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात्। तद्यथा-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथाऽऽपो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं तथा वायुहतिकम्पलक्षणः, तथाऽवगाहदानलक्षण सर्वद्रव्याऽऽधारभूतमाकाशमित्येवं पृथम्भूतो यः पदोद्देशस्तेन कायाऽऽकारतया यस्तेषां समवायः स एकत्वेऽपिलक्ष्यते, इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, संख्या युपादीयमाना संख्याऽन्तरं निवर्तयतीति कृत्वा न न्यूनानि नाप्यधिकानि; विश्वव्यापितया महान्ति, त्रिकालभवनाएंतानि तदेवमेतान्येव पश महाभूतानि। 'प्रकृतेर्महान् ततोऽहङ्कारस्तस्माच्च गणः षोडशकः। तस्मादपि षोडशकात्, पसभ्यः पञ्च भूतानि / / 1 / / इत्येवंक्रमेण व्यवस्थितान्यपरेण कालेश्वराऽऽदिना केनचिदनिर्मितान्यनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचितानि क्रियन्ते, अभ्रेन्द्रधनुरादिवद्विरसापरिणामेन निष्पन्नत्वात, तथा न घटवत्कृत्रिमाणि, कर्तृकरणव्यापारसाध्यानि न भवन्तीत्यर्थः। तथा परव्यापाराभावतया (नो) नैव कृतकानि अपेक्षितपरव्यापारः स्वभावनिष्पत्तौ भावः कृतक इति व्यपदिश्यते, तानि च विस्रसापरिणामेन निष्पन्नत्वात् कृतकव्यपदेशभाजि न भवन्ति, तथाऽनाद्यनिधनानि, अवन्ध्यान्यवश्यकार्यकर्तृणि, तथा न विद्यते पुरोहितः कार्ये प्रति प्रवर्त्तयिता येषां तान्यपुरोहितानि, स्वतन्त्राणि स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा,''न कदाचिदनीदृशं जगत्' इति वचनात् / तदेवं भूतानि पञ्च महाभूतान्यात्मषष्ठानि पुनरके एवमाहुः / आत्मा चाऽकिञ्चित्करः सांख्यानां, लोकायतिकानां पुनः कायाऽऽकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि आत्मव्यपदेश भजन्त इति। तदेवं सांख्याभिप्रायेण सतो विद्यमानस्य प्रधानाऽऽदेनास्ति विनाशोऽत्यन्ता भावरूपो नाप्यसतः शशविषाणाऽऽदेः सम्भव समुत्पत्तिरस्ति, कारण कार्यस्य विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः. सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात्। तथा चोक्तम्-"नासतो जायते भावो, नाभावो जायते सतः।" इत्यादि / तथा असतः खरविषाणाऽऽदेरकरणादुपादानकारणस्य च मृत्पिण्डाऽऽदेर्घटार्थिनोपादानाऽऽदित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्यवादः। एतावताव जीवकाए, एतावताव अस्थिकाए, एतावताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि। तदेवमेतावानेव तावदिति सांख्या लोकायतिको वा माध्यस्थ्यमवलम्बमान एवमेवाऽऽह / तद्यथा-अस्माक्तिभिर्विचार्यमाणस्तावदेतावानेव जीवकायो, यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वाऽऽदिगुणोपचयापचयाभ्यां सर्वकार्यकतृण्यात्मा चाकिञ्चित्करत्वादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत एतावानेव भूतमात्र एवजीवकायः, तथा एतावानेव भूतास्तित्वमात्र एवास्तिकायो नापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति / तथा एतावानेव सर्वलोको यदुत पञ्च महाभूतानि प्रधानरूपाऽऽपन्नानि, आत्मा चाकर्ता निर्गुणः सांख्यस्य, लोकायतिकस्य तुपञ्चभूतात्मक एव लोकः, तदतिरिक्तस्याऽपरस्य पदार्थस्याभावादिति। तथा एतदेव पञ्चभूतास्तित्वं मुखं कारण लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते। तथाहि-सांख्यस्य प्रधानाऽऽत्मभ्यां सृष्टिरुपजायते / लोकायतिकस्य तुभूतान्येवान्तशस्तृणमात्रमपि कार्ये कुर्वन्ति, तदतिरिक्तस्यापरस्याभावादिति भावः / स चैवम्-वाद्येकत्राऽऽत्मनोऽकिश्चित्करत्वादन्यत्र चाऽऽत्मनोऽसत्त्वादसदनुष्ठानैरप्यात्मा पापै कर्मभिर्न बध्यत इति मन्यते। तद् दर्शयितुमाहसे किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि किणित्ताघायइत्ता एत्थं पिजाणाहिं णस्थिऽत्थ दोसो, ते णो एवं विप्पडिवेदेति। तं जहा- किरियाइवा० जावऽणिरएइवा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए, एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा तं पत्तियमाणा०जाव इति, ते णो हव्वाएणो पाराए, अंतण कामभोगुसु विसण्णा, दोच्चे पुरिसजाए पंचमहन्भूतिए त्ति आहिए|१०|| (से किण ति) स इति यः कश्चित्पुरुषः क्रयार्थी क्रीणन किञ्चित् क्रयेण गृहस्तथाऽपरं क्रापयस्तथा प्राणिनो मन् हिंसन् तथा परैर्घातयन् व्यापादयन् तथा पचनपाचनाऽऽदिकां क्रियां कुर्वस्तथाऽपरैश्च पाचयन, अस्य चोपलक्षणार्थत्वात् (अनुमोदयन्) कीगतः क्राययतो घतो घातयतः पचतः पाचयतश्वापरांस्तथाऽप्यन्तशः पुरुषमपि पञ्चेन्द्रिय विक्रीय घातयित्वा अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्र एवं जानीहि अवगच्छ,किं पुनरेकेन्द्रियवनस्पतिधात इत्यपिशब्दार्थः / ततश्चैवंवादिनः सांख्या बार्हस्पत्यावा (नो) नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति जानन्ति। तद्यथा-क्रि