________________ पुंडरीय 644 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय ते निरुपमरूपाऽऽदिगुणोपेताः (अर्हतां सर्वा वक्तव्यता 'तित्थयर' शब्दे चतुर्थभागे 2247 पृष्ठादारभ्यावलोकनीया) तथा-चक्रवर्तिनः षट्खण्डभरतेश्वराः (चक्रवर्तिना सर्वस्वम् 'चक्कवट्टि (ण)' शब्देतृतीयभागे 1066 पृष्टादारभ्य द्रष्टव्यम्) तथा चारणश्रमणा बहुविधाऽऽश्चर्यभूतलनिकलापोपेता महातपस्विनः (चारणानां भेदाः तद्वक्तव्यता च ‘चारण' शब्दे तृतीयभागे 1173 पृष्ठे गता) तथा विद्याधरा वैताट्यपुराधिपतयः (विद्याधरवक्तव्यता 'विजाहर' शब्दादव गन्तव्या) तथा दशारा हरिवंशकुलोद्भवाः (दशार्हाणां सर्वम् ‘दसार' शब्दे चतुर्थभागे 2485 पृष्ठे गतम्) अस्य चोपलक्षणार्थत्वादन्येऽपीक्ष्वाक्कादयः परिगृह्यन्ते, एतदेव दर्शयति-ये चान्ये महर्धिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति / तुशब्दस्यानुक्तसमुच्चयार्थत्वात्, ये चान्ये विद्याकलाकलापोपेतास्ते पौण्डरीका इति। साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकत्वं प्रतिपादयन्नाहभवणवइबाणमंतरजोतिसवेमाणियाण देवाणं / जे तेसिं पवरा खलु, ते होंती पोंडरीया उ1१५०॥ भवणेत्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायाना मध्ये ये प्रवराः-प्रधाना इन्द्रेन्द्रसामानिकाऽऽदयस्ते प्रधाना इतिकृत्वा पौण्डरीकाभिधाना भवन्ति। साम्प्रतमचित्तद्रव्याणां यत्प्रधानं तस्य पौण्डरीकरवप्रति पादमायाऽऽहकंसाणं दूसाणं, मणिमोत्तियसिलप्पवालमादीणं। जे अ अचित्ता पवरा, ते होंती पोंडरीया उ॥१५१।। कांस्याना मध्ये जयघण्टाऽऽदीनि दूष्याणां चीनांशुकाऽऽदीनि, मणीनामिन्द्रनीलवैडूर्य पद्मरागाऽऽदीनि, रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलाऽऽदयः शिलास्तीर्थकृज्जन्माभिषेकसिंहासनाऽऽधाराः, तथा प्रवालानां यानि वर्णाऽऽदिगुणोपेतानि, आदिग्रहणाज्जात्यचामीकरं तद्विकाराश्वाऽऽभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्याऽऽदीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति। मिश्रद्रव्यपौण्डरीकं तु तीर्थकृच्चक्रवर्त्यादय एव प्रधानकटककेयूराऽऽद्यलङ्कारालड्कृता इति। द्रव्यपौण्डरीक्रानन्तर क्षेत्रपौण्डरीकाभिधित्सयाऽऽहजाई खेत्ताई खलु, सुहाणुमावाइँ होति लोगम्मि। देवकुरुमादियाई, ताई खेत्ताई पवराई / / 152 / / यानि कानिचिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति। साम्प्रतं कालपौण्डरीकप्रतिपादनायाऽऽहजीवा भवद्वितीए, कायठितीए य होंति जे पवरा / ते होंति पोंडरीया, अवसेसा कंडरीया उ॥१५३।। 'जीवाः' प्राणिनो भवस्थित्या कायस्थित्या च ये ‘प्रवराः प्रधानास्ते पौण्डरीका भवन्ति, शेषास्त्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोषपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं शुभानुभावत्वात, कायस्थित्यां तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे त्रिपल्योपमायुष्केषूत्पादमनुभूय ततो देवेषूत्पद्यन्त इति कृत्वा ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका इति। कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रति पादनायाऽऽहगणणाए रज्जू खलु, संठाणं चेव होंति चउरंसं / एयाइं पोंडरीगाइँ होति सेसाई इयराइं / / 154 / / गणनया-सङ्ख्यया पौण्डरीक चिन्त्यमानं दशप्रकारस्य गणितस्य मध्ये 'रज्जु' रज्जुगणितं प्रधानत्वात्पौण्डरीक, दशप्रकारं तु गणितमिदम् - "परिकम्म 1, रज्जु 2, रासी ३,ववहारे 4, तह कलासवण्णे 5. य। पुग्गल 6. जावं तावं 7, घणे य 8 धणवग्ग 6 वग्गे य 10 // 1 // " (अस्या गाथाया व्याख्या गणिय' शब्दे तृतीयभागे 824 पृष्ठे गता) संस्थानाना षण्णा मध्ये समचतुरस्र संस्थानं प्रवरत्वात्पौण्डरीकमित्येवमेते द्वे अपि पौण्डरीके, शेषाणि तु परिकर्माऽऽदीनि गणितानि न्यग्रोधपरिमण्डलाऽऽदीनि च संस्थानानि 'इतराणि कण्डरीकान्यप्रवराणि भवन्तीति यावत्। साम्प्रतं भावपौण्डरीकप्रतिपादनाभिधित्सयाऽऽहओदइए उवसमिए, खइए य तहा खओवसमिए अ ! परिणामसन्निवाए, जे पवरा ते विते चेव / / 15 / / औदयिके भावे तथौपशमिके क्षायिके क्षायोपशमिके पारिणामिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषां वा मध्ये ये 'प्रवराः' प्रधानाः 'तेऽपि औदयिकाऽऽदयो भावाः ‘त एव' पौण्डरीका एवावगन्तव्याः, तथौदयिके भावे तीर्थकराः(४ भागे 'तित्थयर' शब्दे गताः) अनुत्तरोपपातिकसुराः, तथाऽन्येऽपि सितशतपत्राऽऽदयः पौण्डरीकाः, औपशमिके समस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षायोपशमिके विपुलमतिश्चतुर्दशपूर्ववित्परमावधयो व्यस्ताः समस्ता वा, पारिणामिके भावे भव्याः, सान्निपातिके भावे द्विकाऽऽदिसंयोगाः सिद्धाऽऽदिषु स्वबुद्ध्या पौण्डरीकत्वेन योजनीयाः, शेषास्तु कण्डरीका इति। साम्प्रतमन्यथा भावपौण्डरीकप्रतिपादनायाऽऽहअहवाविनाणदंसणचरित्तविणए तहेव अज्झप्पे। जे पवरा होंति मुणी, ते पवरा पुंडरीया उ / / 156 / / अथवाऽपि भावपौण्डरीकमिदम्। तद्यथा-सम्यग्ज्ञाने तथा सम्यग्दर्शने सम्यकचारित्रे ज्ञानाऽऽदिके विनये तथा अध्यात्मनि' च धर्मध्यानाssदिके ये 'प्रवराः' श्रेष्ठा मुनयो भवन्ति, ते पौण्डरीकत्वेनावगन्तव्यास्ततोऽन्ये कण्डरीका इति। (ज्ञानदर्शनाऽऽदीनां महत्त्वं स्वस्वस्थाने) तदेवं सम्भविनमष्टधा पौण्डरीकस्य निक्षेपं प्रदाधुनेह येनाधिकारस्तमाविर्भावयन्नाहएत्थं पुण अहिगारो, वणस्सतीकायपुंडरीएणं / भावम्मि असमणेणं, अज्झयणे पुंडरीअम्मि।।१५७।। 'अत्र' पुनदृष्टान्तप्रस्तावे अधिकारो व्यापारः सचित्ततिर्यग्यो निकैकेन्द्रियवनस्पतिकायद्रव्य पाण्डरीके ण जल