________________ पिंडणिज्जुत्ति 628 - अभिधानराजेन्द्रः - भाग 5 पिंडणिज्जुत्ति श्रुतस्कन्धः, तत्र च पञ्चममध्ययन पिण्डैषणानामकं, दशकालिकस्य / च नियुक्तिश्चतुर्दशपूर्वविदो भद्रबाहुस्वामिना कृता, तत्र पिण्डेषणाभिधपञ्चमाध्ययननियुक्तिरतिप्रभूतग्रन्थत्वात्पृथक् शारखान्तरमिव व्यवस्थापिता, तस्याश्च पिण्डनियुक्तिरिति नाम कृत, पिण्डैषणानियुक्तिः पिण्डनियुक्तिरिति मध्यमपदलोपिसमासाऽऽश्रयणाद्, अत एव चाऽsदावत्र नमस्कारोऽपि न कृतो, दशवैकालिकनियुक्त्यन्तर्गतत्वेन तत्र नमस्कारेणैवात्र विघ्रोपशमसम्भवात्, शेषा तु नियुक्तिर्दशवैकालिकनियुक्तिरिति स्थापिता। अस्याश्च पिण्डनियुक्तरादाविद्यमधिकारसङ्घहगाथापिंडे उग्गम उप्पायणेसणा (सं) जोयणा पमाणं च। इंगाल धूम कारण, अट्ठविहा पिंडनिज्जुत्ती / / 1 / / "पिडि संघाते' पिण्डनं पिण्डःसङ्घातो, बहूनामेकत्र समुदाय इत्यर्थः / समुदायश्च समुदायिभ्यः कथचिदभिन्न इति त एव बहवः पदार्था एकत्र समुदिताः पिण्डशब्देनोच्यन्ते, स च पिण्डो यद्यपि नामाऽऽदिभेदादनेकप्रकारो वक्ष्यते, तथाऽपीह संयमाऽऽदिरूपभावपिण्डोपकारको द्रव्यपिण्डो गृहीष्यते, सोऽपिच द्रव्यपिण्डो यद्यप्याहारशय्योपधिभेदात् त्रिप्रकारः, तथाऽप्यत्राऽऽहारशुद्धः प्रक्रान्तत्वादाहाररूप एवाधिकरिष्यते, ततस्तस्मिन्नाहाररूपे पिण्डे विषयभूते प्रथमत उद्गमो वक्तव्यः, तत्र उद्गम उत्पत्तिरित्यर्थः / उद्मशब्देन च इह उद्गमतादोषा अभिधीयन्ते, तथाविवक्षणात्। ततोऽयं वाक्यार्थः प्रथमत उद्गमगता आधाकर्मिकाऽऽदयो दोषा वक्तव्याः,(ते च 'उग्गम' शब्दे द्वितीयभागे 662 पृष्टे, 'आधा-कम्म' शब्दे च तस्मिन्नेव भागे 216 पृष्ठादारभ्य दर्शिताः) 1 / ततः-(उप्पायण त्ति) उत्पादनमुत्पादना, धात्रीत्वाऽऽदिभिः प्रकारैः पिण्डस्य संपादनमिति भावः। सा वक्तव्या1 किमुक्तं भवति-उद्गमदोषाऽभिधानानन्तरमुत्पादनादोषा धात्रीत्वाऽऽदयो वक्तव्याः, (ते उत्पादनादोषाः उप्पायणा शब्दे द्वितीयभागे 836 पृष्ठे गताः)शतत (एसण त्ति) एषणमेषणा, सा वक्तव्या, (एषणादोषाः एसणा' शब्दे तृतीयभागे 53 पृष्टे समुक्ताः )3 / एषणा त्रिधा / तद्यथा- गवेषणैषणा, ग्रहणैषणा, ग्रासैषणा च / तत्र 'गवेष अन्वेषणे, एषणा अभिलाषो गवेषणैषणा, एवं ग्रहणैषणाग्रासैषणेऽपि भावनीये, तत्र गवेषणैषणा उद्गमोत्पादनाविषयेति तद्ग्रहणेनैव गृहीता द्रष्टव्या। ग्रासैषणा त्वभ्यवहारविषया. ततः संयोजनाऽऽदिग्रहणेन सा गृहीष्यते, तस्मादिह पारिशेष्यादेषणाशब्देन ग्रहणैषणा गृहीता द्रष्टव्याः, ग्रहणैषणाग्रहणेन च ग्रहणैषणागता दोषा वेदितव्याः, तथाविवक्षणात्। ततोऽयं भावार्थ:-उत्पादनादोषभिधानानन्तरं ग्रहणैषणागता दोषाः शङ्कितम्रक्षिताऽऽदयोऽभिधातव्याः / ततः संयोजना वक्तव्या, तत्रसंयोजन संयोजना गृद्ध्या रसोत्कर्षसम्पादनाय सुकुमारिकाऽऽदीनां खण्डाऽऽदिभिः सह मीलनं,सा द्रव्यभावभेदाद् द्विधा / वक्ष्यति च-'दव्ये भावे संजोयणा य' इत्यादि। (संयोजनादोषाः- 'संजोयणा' शब्दादवगन्तव्याः) 4 / ततःप्रमाणं केवलसङ्ख्यालक्षणं वक्तव्यं, (प्रमाणम् 'आहार' शब्दे द्वितीयभागे 521 पृष्ट गतम्) 5 / चकारः समुच्चये, सच भिन्नक्रमत्वात्कारणशब्दानन्तरं द्रष्टव्यः। ततः (इंगालधूम त्ति) अनारदोषो धूमदोषश्व यथा भवति तथा वक्तव्यं, (अङ्गारदोषः 'आहार' शब्दे द्वितीयभागे 522 पृष्ठे गतः) (विशेषः-'अंगार' शब्दे प्रथमभागे 42 पृष्ठे गतः) 6 (धूमदोषः 'धूम' शब्दे चतुर्थभागे पृष्ठ 2768 सामान्यत उक्तः) (विशेषम् 'सधूम' शब्दे वक्ष्यामि) 7 / तदनन्तर (कारण त्ति) यैः कारणैराहारो यतिभिरादीयते, यैस्तुन, तानि कारणानि च वक्तव्यानि, (आहाराऽनयनाऽऽनयनकारणानि 'वेयणा' शब्दे वक्ष्यामि) 8 / सूत्रे च विभक्तिलोप आर्षत्वात्, तदेवम् ‘अष्टधा' अष्टप्रकारा अष्टभिराधिकारैः सम्बद्धेति भावार्थपिण्डनियुक्तिः पिण्डैषणानियुक्तिः / स्यादेतद्, एतेऽष्टावप्याधिकाराः किं कुतश्चित्सम्बन्धविशेषादायाता, उत यथाकथञ्चिक्तद्वव्याः?, उच्यते-सम्बन्धविशेषादायाताः / तथाहिपिण्डैषणाऽध्ययननियुक्तिर्वक्तुमुपक्रान्ता, पिण्डैषणाऽध्ययनस्य चत्वार्यनुयोगद्वाराणि / तद्यथा-उपक्रमो, निक्षेपः, अनुगमो, नयाश्च / तत्र नामनिष्पन्ने निक्षेपे पिण्डेषणाऽध्ययनमिति नाम, ततः पिण्ड इति अध्ययनमिति च व्याख्येयं, तत्राध्ययनमिति प्रागेव द्रुमपुष्पिकाऽध्ययने व्याख्यातम, इह तु पिण्ड इति व्याख्येयं, तत एव गवेषणा च एषणा च गवेषणैषणा, ग्रहणैषणा, ग्रासैषणा च। गवेषणैषणाऽऽदयश्च उद्गमाऽऽदिविविषयास्ततस्ते वक्तव्याः। पिं०| संप्रत्यस्या एषणायाः सकलदोषसंकलनमाहसोलस उग्गमदोसा,सोलस उप्पायणाय दोसा उ। दस एसणाय दोसा, संजोयणमाइ पंचेव // 666 / / सुगमा। सर्वसंख्यया सप्तचत्वारिंशत् एषणादोषाः एतान् विशोधयन् पिण्डं विशोधयति, पिण्डविशुद्धौ च चारित्रशुद्धिः, चारित्रशुद्धौ मुक्तिसंप्राप्तिः। उक्तंच"एए विसोहयतो, पिंड सोहेइ संसओ नत्थि। एए अविसोहिते, चरित्तभेयं वियाणाहि॥१॥ समणत्तणस्स सारो, भिक्खायरिया जिणेहिं पण्णत्ता। एत्थ परितप्पमाणं, तंजाणसुमंदसंवेग॥२॥ णाणचरणरस मूलं, भिक्खायरिया जिणेहिँ पण्णत्ता। एत्थ उ उज्जममाणं, तं जाणसु तिव्वसवेग॥३॥ पिंड असोहयतो, अचरित्ती एत्थ संसओ नत्थि। चारितम्मि असंते, निरत्थया होइ दिक्खा उ॥४॥ चारित्तम्मि असंतम्मि, निव्वाणं न उ गच्छइ। निव्वाणम्मि असंतम्मि, सव्वादिक्खा निरस्थगा॥५।।" तस्मादुद्गमाऽऽदिदोषपरिशुद्धः पिण्ड एषयितव्य इति। एसो आहारविही, जह भणिओ सव्वभावदंसीहिं। धम्मावस्सयजोगा, जेण न हायंति तं कुज्जा॥६७०।। एष आहारविधिः पिण्डविधिर्यथा येन प्रकारेण भणितस्तीर्थकराऽऽदिभिस्तथा कालानुरूपस्वमतिविभवेन मया व्याख्यात इति वाक्यविशेषः / पश्चार्द्धनापवादमाह- (धम्मेत्यादि) धर्माऽऽवश्यकयोगाः श्रुतधर्मचारित्रधर्मप्रतिक्रमणाऽऽदिव्यापाराः येन न हीयन्ते न हानि व्रजन्ति, तत्कुर्यात, तथा-तथापवादं सेवेतेति भावः, साऽधुना हि यथायथमुत्सर्गापवादस्थितेन भवितव्यं, या चापवादमासेवमानस्याऽशऽस्य विराधना साऽपि निर्जराफला।