________________ पिंड 627 - अभिधानराजेन्द्रः - भाग 5 पिंडणिज्जुत्ति एतदेवाऽऽहारस्य निर्वाणकारणज्ञानाऽऽदिकारणत्वं दृष्टान्तेन समर्थयतेजह कारणं तु तंतू,पडस्स तेसिं च हॉति पम्हाइं। नाणाइतिगस्सेवं, आहारो मोक्खनेमस्स // 70 / / यथा पटस्य तन्तवः कारणं, तेषामपि तन्तूनां कारणानि पक्ष्माणि भवन्ति, एवम्' अनेन प्रकारेण ज्ञानाऽऽदित्रिकस्य (मोक्खनेमस्स त्ति) नेमशब्दो देश्यः कार्याभिधाने रूढः, ततो मोक्षो नेमः कार्य यस्य तस्य कारणं भवत्याहारः / इह कश्चित् ज्ञानाऽऽदीना मोक्षकारणतामेव न प्रतिपद्यते, विचित्रत्वात्सत्त्वचित्तवृत्तेः। ततस्तं प्रति ज्ञानाऽऽदीनां मोक्षकारणतां दृष्टान्तेन भावयतिजह कारणमणुवहयं, कजं साहेइ अविकलं नियमा। मोक्खक्खमाणि एवं, नाणाईणि उ अविगलाइं॥७१।। यथा बीजाऽऽदिलक्षणं कारणमनुपहतम् अग्न्यादिभिरविध्वस्तम् 'अविकलं' परिपूर्णसामग्रीसम्पन्नं नियमादड्कुराऽऽदिलक्षण कार्य जनयति / एवम्' अनेनैव प्रकारेण ज्ञानाऽऽदीन्यप्यविकलानि परिपू नि, तुशब्दादनुपहतानि च नियमतः 'मोक्षक्षमाणि' मोक्षलक्षणकार्यसाधनानि भवन्ति। तथाहि-संसारापगमरूपो मोक्षः, संसारस्य च कारणं मिथ्यात्वाज्ञानायिरतयः, तत्प्रतिपक्षभूतानि च ज्ञानाऽऽदीनि, ततो मिथ्यात्वाऽऽदिजनितं कर्म नियमतो ज्ञानाऽऽद्यासेवायामपगच्छति, यथा हिमप्रपातजनितं शीतमनलाऽऽसेवायामिति, कारणानि मोक्षस्य ज्ञानाऽऽदीनि, तानि च परिपूर्णानि, तुशब्दादनुपहतानि च, अनुपहतत्वं च चारित्रस्योगमाऽऽदिदोषपरिशुद्धाऽऽहारग्रहणे सति, नान्यथा, ततोऽष्टभिः स्थानराहारोयतिभिर्दाह्य इत्येतदत्र वक्तव्यम् / अत आहारपिण्डेने - हाधिकारः। पिं० तदेवमुक्तपिण्डे, पं०व० ३द्वारा दर्श०। प्रव०ा पिण्डनीये, प्रश्न०५ आश्र० द्वार। (शय्यातरपिण्डः, राजपिण्डश्च स्व-स्वस्थाने) (पिण्डप्रतिसेवना ‘पडिसेवणा' शब्देऽस्मिन्नेव भागे 364 पृष्ठे उक्ता) शरीरे, षो० हविव०। कालिजे. (कलेजा) पिण्डो मांसेन विकृतिः। पं०व०रद्वार। गुडाऽऽदिपिण्डवत्पिण्डः। स्कन्धे, अनु०॥ पिंडकप्पिय पुं०(पिण्डकल्पिक) पिण्डविशुद्धिविशुद्धाऽऽहा-रग्रहणसामाचारीके, बृक्षा संप्रति पिण्डकल्पिकमाहअप्पत्ते अकहित्ता, अणहिगयपरिच्छणे य चउगुरुगा। दोहिं गुरुतवगुरुगा, कालगुरू दोहिं वी लहुगा / / 536 / / सूत्रं नाम प्रागासीत् आचारगत पिण्डैषणाऽध्ययनमिदानीं तु दशवैकालिकातं पिण्देषणाऽध्ययनं, तस्मिन्नप्राप्ने अपठिते यदि पिण्डस्याऽऽनयनाय तं प्रेषयति तदा तस्य प्रायश्चित्तं चत्यारो गुरुकाः, कालेनापि च गुरुकाः। अथ सूत्रं प्राप्तस्तथापि यदि तस्यार्थमकथयित्वा प्रेषयति तदा चत्वारो लघुकाः, नवरमेकेन कालेन लघवः। अथ कथितोऽर्थः परं नाधाप्यधिगतः, अथवाऽधिगतः परमद्यापि न तं सम्यक् श्रद्दधाति, तमनधिगतार्थमश्रद्दधानं वा प्रेषयतश्चत्वारो लघुकाः, तपसैकेनलधवः / अथाऽधिगतार्थमप्यपरीक्ष्य प्रेषयति तदा चत्वारो लघुकाः, द्वाभ्यां लघवः / तद्यथा तपसा कालेन च यत एवं प्रायश्चित्तमतः-- पढिए य कहिएँ अहिगएँ, परिहरती पिंडकप्पितो एसो। तिविहं तीहि विसुद्धं, परिहर नवगेण भेदेण / / 54011 पिण्डैषणाध्ययने पठिते तस्यार्थे कथिते तेन चाधिगते. उपलक्षणमेतत्, सम्यक् अद्धिते च, यस्त्रिविधमुद्गमशुद्धमुत्पादनाशुद्धमेषणाशुद्धं, त्रिभिर्मनोवाक्कायैर्विशुद्धं यः परिहारविषयेण नवकेन भेदेन परिहरति / तद्यथा-मनसा न गृह्णाति, नाप्यन्यैहयति, न च गृह्णन्तमनुजानीते। एवं च वाकायेनापि प्रत्येक त्रिकमवसातव्यम्। एष पिण्डकल्पिकः। अत्र पिण्डनियुक्तिः x सर्वा वक्तव्या / बृ० 10301 प्रक०। (अबार्थे 'पिंडणिज्जुत्ति' शब्दोऽवलोकनीयः) (उद्गमाऽऽदिदोषाणां प्रायश्चित्तमन्यत्रान्यत्र) पूर्व सूत्रतोऽर्थतश्चाधीतपिण्डकल्प आसीत्, इहेदानी पुनर्दशवकालिकान्तर्गताया पिण्डैषणायामपि सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते सोऽपि भवति। व्य०३उ०। पिंडग पु०(पिण्डक) पिण्डकरूपे कर्दमे, यः पादयोः पिण्डरूपतयालगति / ओघo पिंडगुड पुं०(पिण्डगुड) कठिनगुंडे, अद्रयगुडे, प्रव०४द्वार। पं०व०। पिंडधर न०(पिण्डगृह) चिक्खल्लपिण्डैन्निष्पादिते गृहे, व्य० ४उ०। पिंडणा स्त्री०(पिण्डना) सेवाऽऽदीनां खण्डपाकाऽऽदेश्च परस्पर संयोगे, (२गाथा) पिं० पिंडणिगर पु०(पिण्डनिकर) दापितभक्ते, पिण्डदाने च। नि०यू० उ०। __ पितृपिण्डे, मृतकभक्ते, आचा० २श्रु० १चू०१अ०२उ०। पिंडणिज्जुत्ति स्त्री०(पिण्डनियुक्ति) पिण्डषणाभिधपञ्चमाध्ययननिर्युक्तौ, पिं०। सा चैवम्"जयति जिनवर्द्धमानः, परहितनिरतो विधूतकर्मरजाः। मुक्तिपथचरणपोषकनिरवद्याऽऽहारविधिदेशी // 1 // नत्वा गुरुपदकमलं, गुरुपदेशेन पिण्डनियुक्तिम्। विवृणोमि समासेन, स्पष्टं शिष्यावबोधाय // 2 // " आह-निर्युक्तयो न स्वतन्त्रशास्त्ररूपाः, किंतुतत्तत्सूत्रपरतन्त्राः, तथा तदव्युत्पत्त्याश्रयणात्। तथाहि-सूत्रोपात्ता अर्थाः स्वरूपेण सम्बद्धा अपि शिष्यान् प्रतिनियुज्यन्ते निश्चितं सम्बद्धा उपदिश्य व्याख्यायन्ते यकाभिस्ता नियुक्तयः, भवताऽपि च प्रत्यज्ञायि पिण्डनियुक्तिमहं विवृणोमि, तदेषा पिण्डनियुक्तिः कस्य सूत्रस्य प्रतिबद्धेति? उच्यतेइह दशाध्ययनपरिणामश्चूलिकायुगलभूषितो दशवैकालिको नाम ___ + दशकालिकपञ्चमाध्ययननियुक्तिः।