________________ पिंड 926 - अभिधानराजेन्द्रः - भाग 5 पिंड पिण्डो भवतीत्यर्थः / इयमत्र भावना- इंह यदा संयम एव केवलः प्राधान्येन विवक्ष्यते, न तु सती अपि ज्ञानदर्शने, संयमस्य तदविनाभावित्वेन तयोस्तत्रैवान्तर्भावविवक्षणात्, तदाये तस्य संयमस्याऽविभागपरिच्छेदाऽऽख्याः पर्यायास्ते समुदायेनैकत्र पिण्डीभूय व्यवतिष्ठन्ते, परस्परं तादात्म्यसम्बन्धेन सम्बद्धत्वात्, ततः संयमपर्यायसंहत्यपेक्षया पिण्ड इति संयम एकविधभावपिण्डत्वेनोच्यमानो न विरुध्यते, यदा तुतस्मिनेव संयमरूपेऽध्यवसाये पृथग-ज्ञानविवक्षा क्रियाविवक्षा च भवति, यथा वस्तुयाथात्म्यपरिच्छेदरूपोऽशो ज्ञानं प्राणातिपाता-ऽऽदिविरतिरूपः परिणामविशेषस्तु क्रियेति तदा ये ज्ञानस्याविभागपरिच्छेदरूपाः पर्यायास्ते परस्परंतादात्म्यसम्बन्धेनावस्थिता इति ज्ञानपिण्डः / ये तु क्रियाया अविभागपरिच्छेदरूपाः पर्यायास्ते क्रियापिण्डः, ततो द्विविधो भावपिण्डो ज्ञानक्रियाऽऽख्यः प्रतिपाद्यमानो न विरुध्यते, यदा तु तस्मिन्नेव संयमरूपेऽध्यक्साये पृथग् ज्ञानविवक्षा दर्शनविवक्षा चारित्रविवक्षा च, यथा वस्तुयाथात्म्यपरिच्छेदरूपोंऽशो ज्ञानं तस्मिन्नेव वस्तुनि परिच्छिद्यमाने जिनैरित्थमुक्तम्, अत इदं तथेतिप्रतिपत्तिनिबन्धन रुचिरूपः परिणामविशेषो दर्शन, प्राणातिपाताऽऽदिविरतिरूपस्तु परिणामविशेषश्चारित्रमिति, तदा ये ज्ञानस्याविभागपरिच्छेदरूपाः पर्यायास्ते समुदिता ज्ञानपिण्डो, ये तु दर्शनस्य ते दर्शनपिण्डः,ये तु चारित्रस्य ते चारित्रपिण्ड इति त्रिविधो ज्ञानदर्शनचारित्राऽऽख्यो भावपिण्ड उपपद्यते, यदा तु तपोरूपोऽपि परिणामो भवति भिन्नश्च चारित्राद्विवक्ष्यते तदा त्रयः पिण्डाः पूर्वोक्ताश्चतुर्थस्तु तपः पिण्ड इति चतुर्विधो भावपिण्डः,यदा तु पञ्च महाव्रता न्येव केवलानि विवक्ष्यन्ते ज्ञानदर्शनतपांसि पुनस्तत्रैवान्तर्भूतानि तदा ये प्राणातिपातविरतिपरिणामस्याविभागपरिच्छेदरूपाः पर्यायास्ते परस्परं समुदितत्वात प्राणातिपातविरतिपिण्डः, ये तु मृषावादविरतिपरिणामस्य ते मृषावादविरतिपिण्डः / एवं यावद्ये परिग्रहविरतिपरिणामस्य तेपरिग्रहविरतिपिण्ड इति पञ्चविधो भावपिण्ड उपपद्यते। एवं शेषेष्वपि पिण्डेषु पिण्डत्वभावना भावनीया। एवमप्रशस्तेष्वपि भावपिण्डेषु / तदेवं पिण्डनं पिण्ड इति भावविषयां व्युत्पत्तिमधिकृत्य संयमाऽऽदेः पिण्डत्वमुक्तम्। अथवाभावपिण्डविचारे पिण्डशब्दः कर्तृसाधानो विवक्ष्यते, यथ पिण्डयति कर्मणा सहाऽऽत्मानं मिश्रयतीति पिण्डो, भावश्चासौ पिण्डश्व भावपिण्डः। एतदेवाऽऽहकम्माण जेण भावेण अप्पगे चिणइ चिक्कणं पिंडं। सो होइ भावपिंडो, पिंडयए पिंडणं जम्हा / / 66 / / येन ‘भावेन' परिणामविशेषेण कर्मणां पिण्ड (चिक्कण त्ति) अन्योऽन्यानुवेधेन गाढसंश्लेषरूपमात्मनि चिनोति स भावो भवति भावपिण्डः / अत्र हेतुमाह- यस्मात्पिण्डनमिति पिण्ड्यते आत्मा स्वेन सह येन तत्पिण्डनं कर्म ज्ञानाऽऽवरणीयाऽऽदितत्पिण्ड्यति आत्मना सह सम्बद्ध करोति, स भावस्तस्मात्कारणात्स भावपिण्ड इत्युच्यते / अत्र चेत्थं प्रशस्ताप्रशस्तत्वभावनायेन भावेन शुभं कर्म आत्मन्युपचीयते स | प्रशस्तो भावपिण्डः, येन त्वशुभं सोऽप्रशस्त इति / तदेवमुक्तो भावपिण्डः / पिं० / ओघा पं०भा०। 500 सम्प्रत्यमीषा पिण्डानां मध्ये येनात्रा धिकारस्तमभिधित्सुराहदव्वे अचित्तेणं, भावम्मि पसत्थएणिहं पगयं / उच्चारियत्थसरिसा, सीसमइविकोवणट्ठाए॥६७।। 'इह' अस्यां पिण्डनियुक्तौः'द्रव्ये' द्रव्यपिण्डविषये 'अचित्तेन' अचित्तद्रव्यपिण्डेन 'भावे' भावपिण्डविषये पुनः 'प्रशस्तेन’ प्रशस्तभावपिण्डेन प्रकृतं प्रयोजनं, यद्येवंतर्हि शेषाः किमर्थमभिहिताः? अत आह-(उचारिए त्यादि) शेषानामाऽऽदयः पिण्डाः पुनरुच्चारितार्थसदृशाः उच्चरितः-प्रतिपादितः योऽर्थः पिण्डशब्देनान्वर्थयुक्तेन तत्सदृशाः-तेन तुल्याः, तेषामपि पिण्डा इत्येवमुच्चार्यमाणत्वात्, ततः शिष्याणां मतेः विकोपन-प्रकोपनं झटिति तत्तदर्थव्यापकतया प्रसरीभवनं तदर्थमुक्ताः / इयमत्र भावनाजगति नामाऽऽदयोऽपि पिण्डा उच्यन्ते, तत्रापि पूर्वोक्तप्रकारेण पिण्डशब्दप्रवृत्तिदर्शनात्, केवलमिह तेषां मध्येऽचित्तद्रव्यपिण्डेन प्रशस्तेन च भावपिण्डेनाधिकारः, न शेषैरप्रस्तुतत्वादिति, अस्यार्थस्य वैविक्त्येन प्रतिपादनार्थं शेषनामाऽऽदिपिण्डोपन्यास इति / आह-मुमुक्षूणां सकलकर्मशृङ्खलाबन्धविमोक्षाय प्रशस्तेन भावपिण्डेन प्रयोजनं भवतु, अचित्तेन तु द्रव्यपिण्डेन किं प्रयोजनम् ? उच्यते-भावपिण्डोपचयस्य तदुपष्टम्भकत्वात्। एतदेवाऽऽहआहार उवहि सेज्जा, पसत्थपिंडस्सुवग्गहं कुणइ। आहारे अहिगारो, अट्ठहिँ ठाणेहिँ सो सुद्धो॥६८|| इहाचित्तद्रव्यपिण्डरित्रधा। तद्यथा-आहाररूपः, उपधिरूपः, शय्यारूपश्च / एष च त्रिविधोऽपि प्रशस्तस्य ज्ञानसंयमाऽऽदिरूपस्य भावपिण्डस्य उपग्रहम्' उपष्टम्भं करोति, ततस्त्रिविधेनाप्येतेन यतीनां प्रयोजनं, केवलमिह ग्रन्थे अधिकारः' प्रयोजनम्, आहारे आहारपिण्डे, स चाष्टभिः स्थानः उद्गमाऽऽदिभिः परिशुद्धो यथा यतीनां गवेषणीयो भवति तथाऽभिधास्यते। किं कारणमत्र विशेषत आहारपिण्डेन प्रयोजनम्? अत आहनिव्वाणं खलु कनं, नाणाइतिग च कारणं तस्स। निव्वाणकारणाणं, च कारणं होइ आहारो॥६६।। इह मुमुक्षूणां 'कार्य' कर्तव्यं निर्वाणमेव, न शेष, खलुशब्दोऽवधारणार्थः, शेषस्य सर्वस्याऽपि तुच्छत्वात्। 'तस्य' निर्वाणस्य कारण ज्ञानाऽऽदित्रिक ज्ञानदर्शनचारित्ररूपम्- "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः'। (तत्त्वा०अ० १सू०६) इति / वचनप्रामाण्यात्, ततस्तदवश्यमुपादेयम्, उपायसेवामन्तरेणोपेयप्राप्तयसम्भवात्, तेषां ज्ञानाऽऽदीनां निर्वाणकारणानां कारणमष्टभिः स्थानैः परिशुद्ध आहारः, आहारमन्तरेण धर्मकायस्थितेरसम्भवात, उद्माऽऽदिदोषदुष्टस्य च चारित्रभ्रंशकारित्वात्।