________________ पिंड 625 - अभिधानराजेन्द्रः - भाग 5 पिंड "संसट्टमससट्टा, उद्घडतह अप्पलेवडा चेव। उग्गहिया पग्गहिया, उज्झियधम्मा य सत्तमिया / / 1 / / ' पिं० (विस्तरं "पिंडेसणा' शब्देऽग्रे वक्ष्यामि) (पानैषणाश्च 'पाणेसणा' शब्देऽस्मिन्नेव भागे 846 पृष्ठे व्याख्याताः) (अवग्रहप्रतिमा वसतिविषयनियमविशेषाः, ते च द्वितीयभागे 724 पृष्ठे 'उग्गह' शब्दे व्याख्याताः) (विशेषं चात्र वसहि' शब्दे वक्ष्यामि)७। तथा-अष्टविधः पिण्ड:-अष्टौ प्रवचनमातरः, (ताश्च पवयणमाउआ' शब्देऽस्मिन्नेव भागे 785 पृष्ठे गताः) तथा नवविधः पिण्डः नव ब्रह्मचर्यगुप्तयः। तासांचेद स्वरूपम्"वसहि कह निसिजिंदिय, कुटुंतर पुव्वकीलिय पणीए। अइमायाहार विभूसणं च नव बंभगुत्तीओ॥१॥" (प्रशस्तनवविधभावपिण्डप्रतिपादिकगाथाविशेषं 'बंभचेरगुत्ति' शब्दे वक्ष्यामि ) तथा चेति समुचये, दशविधः पिण्डः दशप्रकारः श्रवणधर्मः / सचार्यम्"खंती य मद्दवऽजय, मुत्ती तव संजमे य बोद्धव्वे। सचं सोय आकिंचण च बंभं च जइधम्मो।।१॥" (प्रशस्तदशविधभावपिण्डप्रतिपादिकाया अस्या गाथाया अक्षरगमनिका 'धम्म' शब्दे चतुर्थभागे 2667 पृष्ठे गता) (विस्तरश्चाऽत्र 'समणधम्म' शब्दादवगन्तव्यः) प्रशस्तभावपिण्डस्योपसंहारमाह-(एसो इत्यादि) 'एष' दशप्रकारोऽपि भावपिण्डः कर्माष्टकमथनैः तीर्थकृद्धिर्भणितः, अनेन स्वमनीषिकाव्युदासमाह // 60 // 61 // 62 / / सम्प्रति अप्रशस्तं भावपिण्डं दशविधमपि क्रमेणाऽऽहअपसत्थो य असंजम, अन्नाणं अविरई य मिच्छत्तं / कोहायासवकाया, कम्मे गुत्ती अहम्मो य॥६३|| (अपसत्थो य इत्यादि) अप्रशस्तः पुनर्भावपिण्ड एकविधः असंयमः, विरत्यभावः, अत्राऽज्ञानमिथ्यात्वाऽऽदीनि सर्वाण्यप्यन्तर्भूतानि विवक्ष्यन्ते, ततो न कश्चिद्दोषः। (अप्रशस्तैकविधभावपिण्डः असंयमः, स च सप्तदशविधः 'असंजम' शब्दे प्रथम-भागे 823 पृष्ठे निरूपितः) 1 / द्विविधः अज्ञानाऽविरती, चशब्दो मिथ्यात्वशब्दानन्तरं योजनीयः, अत्र मिथ्यात्वकषायाऽऽदयः सर्वेऽप्यत्रैवान्तर्भूता विवक्षितास्ततो न द्विविधत्वव्याघातः, एवमुत्तरत्राप्यन्तर्भावभावना भावनीया, (अप्रशस्तद्विविधभावपिण्डान्तर्गतम् अज्ञानम् 1- 'अण्णाण' शब्दे प्रथमभागे 457 पृष्ठे सविस्तरं निरूपितम्।) (तन्मध्यगा दशविधाऽपि अविरतिः २'अविरइ' शब्दे तस्मिन्नेव भागे 808 पृष्ठे निरूपिता) / त्रिविधःमिथ्यात्वं, चशब्दादज्ञानविरती च। (मिथ्यात्वम् १-मिच्छत्त शब्दादवगन्तव्यम्।) (अज्ञाना २-ऽविरती ३स्वस्वस्थाने गते) 3 / चतुर्विधःचत्वारःक्रोधाऽऽदयः क्रोधमानमायालोभाः, (तत्र क्रोधस्वरूपम्- 'कोह' शब्दे तृतीयभागे 683 पृष्ठे गतम्) (तस्यानेकविधक्रोधस्याऽऽत्मप्रतिष्ठितत्वाऽऽदिभेदाः सदण्डकाः 'कसाय' शब्देऽस्मिन्नेव भागे 365 पृष्ठ उक्ताः) (मानमु२- 'माण' शब्दे विस्तरतो वक्ष्यामि) (माया ३-'माया' शब्दादवलोकनीया) (लोभः, तत्फलानि च 4 - 'लोभ' शब्दे वक्ष्यामि) 4 / पञ्चविधः-पञ्चाऽऽश्रवद्वाराणि प्राणातिपातमृषावादाब्दत्ताऽऽदानमैथुनपरिगहरूपाणि / (तत्र प्राणातिपातः 1- 'पाणाइवाय' शब्देऽस्मिन्नेव भागे 853 पृष्ठे रूपितः) (मृषावादम् 2- 'मुसावाय' शब्दे वक्ष्यामि) (अदत्ताऽऽदानम् 3- 'अदत्तादाण' शब्दे प्रथमभागे 527 पृष्ठे गतम्) (मैथुनम् 4- 'मेहुण' शब्दे वक्ष्यामि) (परिग्रहः 5 परिग्गह' शब्देऽस्मिन्नेव भागे 552 पृष्ठे गतः) 5 / षविधः-(काय त्ति) कायवधाः पृथिवीकायिकाऽऽदिविनाशाः,(तेच 'छक्कायवह' शब्दे तृतीयभागे 1343 पृष्ठे निरूपिताः) 6 / साविधः कर्मणि कर्मविषयो द्रष्टव्यः / इह कर्माशब्देन कर्मबन्धनिबन्धनभूता अध्यवसाया गृह्यन्ते, भावपिण्डाधिका-रात्, तत आयुर्वर्जशेषसप्तकर्मबन्धनिबन्धनभूताः काषायिका अकाषायिका वा परिणामविशेषा जातिभेदापेक्षया सप्तभेदाः / सप्तविधोऽप्रशस्तो भावपिण्डः / (अध्यवसायशब्दार्थः 'अज्झ-वसाय' शब्दे प्रथमभागे 232 पृष्ठे गतः) (तेच अध्यवसायाः 'अणुभागबंधट्टाण' शब्दे प्रथमभागे 366 पृष्ठे विस्तरतो निरूपिताः) (सप्तविधकर्मज्ञानाय तृतीयभागे 243 पृष्टगतः 'कम्म' शब्दो द्रष्टव्यः) 7 / अष्टविधोऽपि भावपिण्डःकर्मविषयः / तत्रापीय भावनाकाष्टकबन्धनिबन्धनभूताः काषायिकाः परि-णामविशेषा जातिभेदापेक्षाऽष्टभेदाः, अष्टविधोऽप्रशस्तो भावपिण्डः / (अष्टविध कर्म 'कम्म' शब्दे तृतीयभागे 258 पृष्ठे विस्तरतः प्रतिपादितम् )8 / (अगुत्तीओ ति) नव ब्रह्मचर्यगुप्तिप्रतिपक्षभूता नव ब्रहाचर्यागुप्तयः, (ताश्च बंभचेरअगुत्ति शब्दे वक्ष्यामि) 6 तथा अधर्मःदशविधधर्मप्रतिपक्षभूतः (स चा-धर्मः 'अध (ह)म्म'शब्दे प्रथमभागे 566 पृष्ठे गतः) दशविधोऽप्रशस्तो भावपिण्डः 10 / सम्प्रति प्रशस्ताप्रशस्तयोर्भावपिण्डयोर्लक्षणमाहबज्झइ य जेण कम्मं, सो सव्वो होइ अप्पसत्थो उ। मुच्चइ य जेण सो पुण, पसत्थओ नवरि विन्नेओ॥६॥ इह येन भावपिण्डेनेकविधाऽऽदिकेन प्रवर्त्तमानेन 'कर्मा' ज्ञानावरणीयाऽऽदि बध्यते, चशब्दोऽनुक्तसमुच्चयार्थः / स च दीर्घस्थितिक दीर्घसंसारानुबन्धि विपाककटुकं च येन बध्यते इति समुच्चिनोति, स सर्वोऽप्यप्रशस्तो भावपिण्डो ज्ञातव्यः / येन पुनरेकविधाऽऽदिना प्रवर्तमानेन कर्मणः सकाशात् शनैः शनैः सर्वाऽऽत्मना वा मुच्यते, स प्रशस्तो भावपिण्डो विज्ञेयः / आह-पिण्डो नाम बहूनामेकत्र मीलनमुच्यते, पिण्डनं पिण्ड इतिव्युत्पत्तेः, भावाश्च संयमाऽऽदयो यदा प्रवर्त्तन्ते तदैकसङ्ख्या एव,एकस्मिन् समये एकस्यैवाध्यवसायस्य भावात, ततः कथं पिण्डत्वम्? इति, अत्रोत्तरमाहदसणनाणचरित्ता-ण पज्जवाजे उजत्तिया वादि। सो सो होइ तयक्खो,पञ्जवपेयालणा पिंडो // 65 / / इह चारित्रग्रहणेन तपःप्रभृत्यपि गृह्यते. तस्याऽपि विरतिपरिणामरूपतया चारित्रभेदत्वात्, ततो दर्शनज्ञानचारित्राणां प्रत्येकं ये ये 'पर्यवाः' पर्यायाः अविभागपरिच्छेदरूपायदा यदा यावन्तो' यत्परिमाणावर्तन्ते स स तदा तदा तत्तदाख्योदर्शनाऽऽख्यो ज्ञानाऽऽख्यश्चारित्राऽऽख्यः 'पर्यवपेयालनापिण्ड,' पर्यायप्रमाणकरणेन पिण्ड, पर्यायसंहतिविवक्षया