________________ पिंड 624 - अभिधानराजेन्द्रः - भाग 5 पिंड ण्डः, "नामनामवतोरभेदोपचारात्।" यदा-नाम्ना पिण्डो नामपिण्ड इति व्युत्पत्तेः पुरुषाऽऽदिकमेव भण्यते, तस्य च हस्तपादाऽऽदिभिरवयवैर्युक्तस्याऽपि खड्गाऽऽदिभिर्विभागः कर्तुं शक्यते इत्यस्ति योगे सति विभागः / यद्वा-पूर्व गर्भे मांसपेशीरूपस्य सतो हस्ताऽऽदिभिर- | वयवैर्वियोगः पश्चात्क्रमेण तैः सह संयोग इति विभागे सति योगः ततः | पिण्डरूपता, तथा स्थापनापिण्डेऽक्षत्रिकाऽऽदिरूपे पूर्व विभागे सति संयोगः, संयोगे वा सति विभाग इति पिण्डरूपता, द्रव्यपिण्डेऽपि गुडौदनाऽऽदिके विभागपूर्वकः संयोगः संयोगपूर्वको वा विभागः सुप्रतीत इति पारमार्थिकपिण्डरूपता, भावपिण्डेऽपि भावभाववतोः कथञ्चिदभेदात्साध्वादिरेव मूर्तो विग्रहवान् गृह्यते. तत्र संयोगविभागौ नामपिण्ड इव तात्त्विकाविति पारमार्थिकी पिण्डरूपता, क्षेत्रकालयोस्तूक्तनीत्या न संयोगविभागाविति न तत्र पिण्डशब्दप्रवृत्तिः, तस्मान्नामाऽऽदिपिण्ड एव तत्तत्क्षेत्रनिवासाऽऽदिकं पर्यायमुद्भूतरूपं विवक्षित्वा क्षेत्रपिण्डकालपिण्डशब्दाभ्यां व्यपदिश्यते / तथा चाऽऽह- 'दोसु' जहियं तु इत्यादि / 'द्वयोः क्षेत्रकालयोः 'यत्र' वसत्यादौ यदा वा प्रथमपौरुष्यादौ यः पिण्डो नामाऽऽदिरूपो व्यावर्ण्यत, यद्वा-यत्र गृहे महानसाऽऽदौ वा पिण्डो गुडपिण्डाऽऽदिर्मोदकाऽऽदिपिण्डो वा क्रियते, यदा वा प्रथमप्रहराऽऽदौ निष्पाद्यते स व्यावय॑मानो नामाऽऽदिपिण्डः क्रियमाणो वा गुडौदनाऽऽदिपिण्डस्तत्क्षेत्रकालापेक्षया क्षेत्रपिण्डः कालपिण्डश्च व्यपदिश्यते, यथाऽमुकवसत्यादिक्षेत्रपिण्डः प्रथमपौरुषीपिण्ड इत्यादि। उक्तौ क्षेत्रकालपिण्डौ। सम्प्रति भावपिण्डमभिधित्सुराहदुविहो उ भावपिंडो, पसत्थओ चेव अप्पसत्थो य। एएसिं दोण्हं पि य, पत्तेय परूवणं बोच्छं / / 56| 'द्विविधः द्विप्रकारः भावपिण्डः, तद्यथा-प्रशस्तः, अप्रशस्तश्च। तत एतयोर्द्वयोरपि प्रत्येकं प्ररूपणां प्ररूप्यते, द्वावपि भावपिण्डौ यया गाथापद्धत्या सा प्ररूपणा, तां वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिएगविहाइ दसविहो, पसत्थओ चेव अप्पसत्थो य। संजम विजाचरणे, नाणाऽऽदितिगं च तिविहो उ॥६०॥ नाणं दंसण तव संजमो य वय पंच छच जाणेजा। पिंडेसण पाणेसण, उग्गहपडिमा य पिंडम्मि // 61|| पवयणमाया नव बंभगुत्तिओ तह य समणधम्मो य। एस पसत्थो पिंडो, भणिओ कम्मट्ठमहणेहिं // 6 // प्रशस्तः, अप्रशस्तश्च भावपिण्डः प्रत्येकं दशविधः दशप्रकारः किं रूपः? इत्याह 'एकविधाऽऽदिकः' एकविधो द्विविधस्त्रिविधश्चतुर्विधो | यावद्दशविध इति, तत्र प्रथमत उद्देशक्रमप्रामाण्यानुसरणात्प्रशस्तं भावपिण्ड दविधमप्यभिदधाति-(संजमेत्यादि) तत्रैकविधः प्रशस्तो भाव पिण्डः संयमः, इह संयमो ज्ञानदर्शने विना न भवति, पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्ध इति वचनप्रामाण्यात्, ततो ज्ञानदर्शने संयम एवान्तर्भूत विवक्षिते इति संयम एवैकः प्रशस्तभावपिण्डत्वेन प्रतिपाद्यमानो न विरुध्यते / (प्रशस्तैकविधभावपिण्डः, तत्स्वरूपम् ‘संजम' शब्दे वक्ष्यामि) 1 / द्विविधः पिण्डः - विद्या 1, चरणम् / विद्याज्ञानं 1 (प्रशस्तद्विविधभावपिण्डः ‘णाण' शब्दे चतुर्थभागे 1636 पृष्ठे गतः) तच्चआभिनिबोधिकश्रुतावधिमनःपर्यवकेवलज्ञानभेदात् पञ्चविधम् / (तत्र आभिनिबोधिकज्ञानम् 'आभिणिबोहिय' शब्दे द्वितीयभागे 252 पृष्ठे गतम्) (श्रुतज्ञानम् 'सुय' शब्दे वक्ष्यामि)(अवधिज्ञानम् 'ओहिणाण' शब्दे तृतीयभागे 156 पृष्ठे प्रतिपादितम्) (मनःपर्यवज्ञानम् 'मणपज्जवणाण' शब्दे वक्ष्यामि) केवलज्ञानसर्वस्वम् 'केवलणाण' शब्देतृतीयभागे 642 पृष्ठे विस्तरतोगतम्) चरणं क्रिया 2, (सा च विस्तरतः 'किरिया' शब्दे तृतीयभागे 531 पृष्ठे निरूपिता) अत्र सम्यग्दर्शनं ज्ञान एवान्तर्भूत विवक्षितमिति न पृथग्गणितं, विवक्षा हि वक्त्रधीना, वक्ता च कदाचि सक्षेपेणाभिधित्सुस्तांतां प्रत्यासत्तिमधिकृत्य तत्तदन्तर्भावनाभिधत्ते, कदाचित्पुनर्विशेषपरिज्ञानोत्पादनाय विस्तरेणाभिधित्सुः सर्व वैविक्त्येन पृथक् प्रतिपादयति, ततः कदाचित् ज्ञानाऽऽदित्रिक संयम इति प्रतिपाद्यते, कदाचित् ज्ञानक्रिये इति, कदाचित्पुनः परिपूर्णमपि साक्षाद्यथा ज्ञानाऽऽदित्रिकमिति न कश्चिद्दोषः। त्रिविधः पिण्डः पुनः'ज्ञानाऽऽदित्रिकम् ज्ञान-दर्शन-चारित्राणि / (प्रश-स्तत्रिविधभावपिण्डः-ज्ञानम् 1- 'णाण' शब्दे चतुर्थभागे 1936 पृष्ठे प्ररूपितम्) तट्नेदाश्च स्वस्वशब्दादवगन्तव्याः / (दर्शनम्र-सभेदम 'दंसण' शब्दे चतुर्थभागे 2425 पृष्ठेऽवलोकनीयम्) (चारित्रम् 3- 'चारित्त' शब्दे तृतीयभागे 1175 पृष्ठे गतम्) (विस्तरश्चात्र- 'चरित' शब्दे तस्मिन्नेव भागे 1141 पृष्ठे निरूपितः)३ / चतुर्विधः पिण्डः-ज्ञान १-दर्शन २तपः३-संयमाः ४,(प्रशस्तचतुर्विधभावपिण्डमध्ये ज्ञानम् १-स्वस्थाने। दर्शनम् २,'दंसण' शब्दे।तपः तद्रेदश्च 3 'तव' शब्दे चतुर्थभागे 2166 पृष्ठे सविस्तरं गतः३) ('संयम' 4 स्वस्थाने वक्ष्यामि) 4 / पञ्चविधःपञ्चव्रतानि, प्राणातिपात १-मृषावादा २ऽदत्तादान ३-मैथुन ४-परिग्रहनिवृत्तिलक्षणानि 5 / अत्राऽपि ज्ञानदर्शने अन्तर्भूत विवक्षिते इति न पृथग्गणिते, रात्रिभोजनविरमणमप्येतेषु पञ्चसुयथायोगमन्तर्भूतं विवक्षितं ततो न पञ्चविधत्वव्याघातः / एवमुत्तरत्राऽपि यथायोगमन्तर्भावभावना भावनीया। (प्रशस्तपञ्चविधभावपिण्डान्तर्गता प्राणातिपातनिवृत्तिः १'पाणाइवायवेरमण' शब्देऽस्मिन्नेव भागे 846 पृष्ठेगता) (मृषावादनिवृत्तिः 2 'मुसावायवेरमण' शब्दादवगन्तव्या) (अदत्तादाननिवृत्तिः 3 अदत्तादाणवेरमण' शब्दे प्रथमभागे 540 पृष्ठे गता) (मैथुननिवृत्तिम् 4 'मेहुणवेरमण' शब्दे वक्ष्यामि) (परिग्रहनिवृत्तिः 5 परिणहवेरमण' शब्देऽस्मिन्नेय भागे 570 पृष्ठ गता) 5 / षड्डिधो भावपिण्ड:-षड्व्रतानि, तत्र पञ्च व्रतानि पूर्वोक्तान्येव प्राणातिपातविरमणाऽऽदीनि, षष्ठ तु रात्रिभोजनविरमणलक्षणम् (प्रशस्तषद्धिधभावपिण्डान्तर्गताः प्राणातिपाताऽऽदयः परिग्रहविरमणान्ताः स्वस्वस्थानेव्याख्याताः)(रात्रिभोजनविरमणम् 'राइभोयणवेरमण' शब्देवक्ष्यामि)६ तथा सप्त विधेपिण्डेसप्त पिण्डषणाः, सप्त पानेषणाः, सप्त अवग्रहप्रतिमाः। तत्र पिण्डाणाः पानपणाश्च सप्त संभृष्टाऽऽदयः।ताश्चेमाः