________________ पिंड 922 - अमिधानराजेन्द्रः - भाग 5 पिंड नन्तरं मिश्रकपिण्डो व्याख्यायते इति द्योतयति / 'मिश्रकः' सजातीयविजातीयद्रव्यमिश्रणाऽऽत्मकः पिण्डः, एतेषामेव नवाना पिण्डानां द्वयादिसंयोगाऽऽत्मको ज्ञातव्यः। तद्यथा-पृथिवीकायोऽप्कायश्चेति द्विकसंयोगे प्रथमो भङ्गः, पृथिवीकायस्तेजस्काय इति द्वितीयः, एवं द्विकसंयोगे षट्त्रिंशद्भङ्गा भावनीयाः। तथा त्रिकसंयोगे पृथिवीकायोऽप्कायस्तेजस्काय इति प्रथमो भङ्गः, पृथिवीकायोऽप्कायो वायुकाय इति द्वितीयः / एवं त्रिकसंयोगे चतुरशीतिर्भङ्गा। तथा-चतुष्कसंयोगे पृथिवीकायोऽप्कायस्तेजस्कायो वायुकाय इति प्रथमोः भङ्गः पृथिवीकायोऽप्कायस्तेजस्कायो वनस्पतिकाय इति द्वितीयः, एवं चतुष्कसंयोगे षड्डिश शतं भङ्गानां भावनीयम् / पञ्चकसंयोगेऽपि षड्विंश शतम् / षट्कसंयोगे चतुरशीतिः, सप्तकसंयोगे षट्त्रिंशत,अष्टकसंयोगे नव, नवकसंयोगे एकः; सर्वसङ्ख्या भङ्गानां पञ्चशतानि व्यधिकानि / एतेषां च भङ्गानामानयनार्थमियं करणगाथा"उभयमुहं रासिदुर्ग, हिडिल्लाणंतरेण भय पढमं / लद्धह रासिविभत्ते, तस्सुवरि गुणित्तु संजोगा // 1 / / ' अस्याक्षगमनिका-इह नवानां पदाना व्यादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते / स्थापना चेयम् / अत्रैकस्योपरि नवकः, तत एककसंयोगे नव भङ्गाद्रष्टव्याः, नच तत्र करण गाथाया व्यापारः,द्वयादिसंयोगभङ्गाऽऽनयनायैव तस्याः प्रवृत्तत्वात्, ततोऽधस्तने राशौ पर्यन्तवर्तिन एककस्यानन्तरेण द्विकलक्षणेनोपरितनराशौ प्रथममई नवकरूपं भजेत् तस्य भागहार कुर्यात्, ततो लब्धाः साश्चित्वारः, तेन च सार्धचतुष्कणाधोराशिनोपरितने प्रथमेऽङ्के विभक्ते लब्धेन तस्य द्विकलक्षणस्याङ्कस्योपरितनमइमष्टकलक्षणं गुणयेत् ताडयेत्, जाताः षट्त्रिंशत्, इत्थं च गुणयित्वा 'संयोगाः' संयोगभङ्गाः वाच्याः, यथा द्विकसंयोगे भङ्गाः षट्त्रिंशदिति, ततो भूयोऽपि त्रिकसंयोगभङ्गाऽऽनयनायं प्रथमपादरहिता करणगाथा व्यापार्यते, अधस्तने राशौ स्थितेन द्विकादनन्तरेण त्रिकेणोपरितनराशिव्यवस्थितं त्रिकोपरितनसप्तकरूपाडापेक्षया आद्यं षट्त्रिंशद्रूपमत भजेत्,ततो लब्धा द्वादश, तैश्चाधोराशिनोपरितनेऽ विभक्ते लब्धैरित्रकलक्षणस्याङ्कस्योपरितनं सप्तकलक्षणमङ्कं गुणयेत, गुणिते च सति जाताश्चतुरशीतिः, एतावन्तस्विकसंयोगेष्वपि भङ्गा आनेतव्याः; यावन्नवकसंयोगे एको भङ्गः। तथा चाऽऽह-(जाव चरिमोत्ति) तावद्विकसंयोगाऽऽदिको मिश्रपिण्डो ज्ञातव्यो यावच्चरमो नवकनिष्पन्न एकसङ्ख्यो मिश्रपिण्डः, स च लेपमधिकृत्योपदीते, इहाक्षस्य धुरि मक्षिताया रजोरूपः पृथिवीकायो लगति, नदीमुत्तरतोऽप्कायः, लोहमया वपनघर्षणे तेजस्कायः, यत्र तेजस्तत्र वायुरिति वायुकायोऽपि, वनस्पतिकायो धूरेव, द्वित्रिचतुरिन्द्रियाः सम्पातिमाः सम्भवन्ति, महिष्यादिचर्ममयनाडिकाऽऽदेश्वघृष्यमाणस्यावयवरूपः पञ्चेन्द्रियपिण्डः, इत्थंभूतेन चाक्षस्य खञ्जनेन लेपः क्रियते, इत्यसादुपयोगी, इतिशब्दो मिश्रपिण्डसमाप्त्यर्थः एतावानेव द्रव्यपिण्डो मिश्रः सम्भवतीति। सम्प्रत्यस्यैव मिश्रपिण्डस्य कानिचिदुदाहरणान्धुपदर्शयति सोवीरा गोरसासव, वेसण भेसज्ज नेह साग फले। पोग्गल लोण गुलोयण, णेगा पिंडा उ संजोगे // 54|| 'सौवीर' काञ्जिकं, तचाप्कायतेजस्कायवनस्पतिकायाऽऽदिपिण्डरूपम् / तथाहि-तत्राप्कायस्तण्डुलधावनं, तेजस्कायोऽवश्रावणं, वनस्पतिकायस्तण्डुलावयवा यत्सम्पर्चतस्तण्डुलोदकं गड्डुलमुपजायते, लवणावयवाश्च केचन तत्र लवणसम्मिश्रतण्डुलोदकाऽऽदिभिः सह पतन्ति, ततस्तत्र पृथिवीकायोऽपि सम्भवतीति, एवमन्यत्रापि भावना स्वधिया कर्त्तव्या। तथा 'गोरसं' तक्राऽऽदि, तच्चाप्कायत्रसकायसम्मिश्रं भवति, तथा 'आसवः' मद्यं, तच्चाप्कायतेजस्कायवनस्पतिकायाऽsदिपिण्डरूपं, 'वेसनं' जीरकलवणाऽऽदि, तच वनस्पतिपृथिवीकायाऽऽदिपिण्डरूप, 'भेषज' यवागूप्रभृति, तच्चाप्कायतेजस्कायवनस्पतिकायपिण्डरूपं, स्नेहः घृतवशाऽऽदि, तच्च तेजस्कायत्रसकायाऽऽदिपिण्डरूपं, 'शाकः वत्थुलभर्जिकाऽऽदिरूपः, स च वनस्पतिकायपृथिवीकायत्रसकायाऽऽदिपिण्डरूपः, ‘फलम् आमलकाऽऽदि, तच्चेह पक्क ग्राह्यं, ततस्तदपीत्थमेव भावनीयम्। (पोग्गलं) मांसं, तदपीह पक्वं गृह्यते, ततस्तदपि शाकवद्भावनीयं, 'लवणं' प्रतीतं. तच्चाप्कायपृथिवीकायरूपं, 'गुडौदनी' प्रतीतौ, तावपि फलवद्भावनीयौ। एवमन्येऽप्यनेके यथासम्भवं संयोगे पिण्डा भावनीयाः केवलं तं तं संयोग परिभाय्य यो यत्र द्विकसंयोगाऽऽदावन्तर्भवति स तत्र स्वय मेवान्तर्भावनीयः। तदेवमुक्तः सप्रपञ्च द्रव्यपिण्डः। पिंग लेपपिण्डसूचनायाऽऽहअह होइ लेवपिंडो, संजोगेणं णवण्ह पिंडाणं / नायव्वो निप्फन्ने, परूवणा तस्स कायव्वा // 62|| अथ भवति लेपपिण्डः संयोगेन नवानां पिण्डानां निष्पन्नो ज्ञातव्यः / कथं? चक्का गिड्डिया, तत्थ अक्खेत्ते पुढविकायस्स रओ लगति, आउकाया नदी जे उत्तरणे लग्गति, तेउक्काओ तत्थ लोहं घास इति, वाऊतत्थेव,यत्राऽग्निस्तत्र वायुना भवितव्य, वणस्सइअक्खो वितिओ उसंपातिमा पाणा पडति,पंचिंदियाण विचम्ममयस्स त्ति। एवं संयोगेन निप्फन्नो लेवो / इदानीं तस्य प्ररूपणा कर्त्तव्या / / 62|| ओघ०। (सा च प्ररूपणा विस्तरतः 'लेवपिंड' शब्दादेवगन्तव्या) सम्प्रति क्षेत्रकालपिण्डावभिधित्सुराहतिन्नि उ पएससमया, ठाणट्ठिइउ दविए तया एसा। चउपंचमपिंडाणं,जत्थ जया तप्परूवणया / / 5 / / इह क्षेत्रकालपिण्डौ- "नामंठवणा पिंडे,दव्वे खेत्ते य काले भावे य।" इति गाथानिर्देशक्रमापेक्षया चतुर्थपञ्चमपिण्डौ, क्षेत्रम् आकाशम् कालः समयविवर्तरूपः, तत्र त्रयः प्रदेशाः क्षेत्रप्रस्तावादाकाशप्रदेशाः, तथा त्रयः समयाः कालस्य निर्विभागा भागाः तुशब्दो विशेषणार्थः, स च परस्परमनुगता इति विशेषयति / 'चतुष्पञ्चमपिण्डयोः क्षेत्रकालपिण्डयोः स्वरूपम् / इयमत्र भावनात्रयः परस्परमनुगता आकाशप्रदेशास्त्रयः परस्परमनुगताः समया यथा-क्रम क्षेत्रपिण्डः कालपिण्ड इति वेदितव्याः, त्रिग्रहणं चोपलक्षणं, तेन द्विचतुरादयोऽपि द्रष्टव्याः। तदेवं क्षेत्रकालपिण्डौ निरुपचरितौ प्रतिपाद्य सम्प्रति तावेव सोपचारावभिधत्ते-(ठाण-ट्टिइउ दविए