________________ पिंड 921 - अभिधानराजेन्द्रः - भाग 5 पिंड कायं विराधयति ततो जलाऽऽपृथिवीकायो मिश्र उपपद्यते, सोऽप्यन्तर्मुहूतदिनन्तरमचित्तीभवति, परस्परशस्त्रत्वेन द्वयोरपि पृथिव्यकाययोरचित्तीभवनसम्भवात्। यदा त्वतिप्रभूतं मेघजलं निपतति तदा तजलं यावन्नाद्यापि स्थितिं बध्नाति तावत् मिश्रः पृथिवीकायः, स्थितिबन्धे तुकृते सति सचित्तोऽपि सम्भाव्यते, तथा इन्धने गोमयाऽऽदौ मिश्रः / तथाहि-गोमयाऽऽदिकमिन्धनं सचित्तपृथिवीकायस्य शरत्रं, शरत्रेण च परिपीड्यमानो यावन्नाद्यापि सर्वथा परिणमति तावन्मिश्रः / अत्रैवेन्धनविषये कालमानमाह-(पोरिसीत्यादि) बहिन्धनमध्यगत एकां पौरुषी वावन्मिश्री, मध्यमेन्धनसंपृक्तरतु पौरुषीद्विकम, अल्पेन्धनसम्पृक्तस्तुपौरुषोत्रिक, तत ऊर्द्धमचित्त इति। तदेवमुक्तो मिश्रः पृथिवीकायः। साम्प्रतमचित्तमाहसीउण्हखारखत्ते, अग्गीलोणूसअंबिलेनेहे। वुकंतजोणिएणं, पओयणं तेणिमं होइ॥१३॥ इह सर्वत्र सप्तमी तृतीयाऽर्थे , प्राकृतलक्षणवशात / तथा चाऽऽह पाणेनिः प्राकृतलक्षणे- 'व्यत्ययोऽप्यासाम् / ' इत्यत्र सूत्रे सप्तमी तृतीयार्थे / यथा-'तिसु तेसु अलंकिया पुहवी' इति / ततोऽयमर्थःशीतोष्णक्षारक्षत्रेण, तत्र शीतं प्रतीतम्, उष्णः सूर्याऽऽदिपरितापः, क्षारः यवक्षाराऽऽदिः, क्षत्रं करीषविशेषः। एतैः, तथा (अग्गीलो-णूसअबिलेनेहे इति) अग्निःवैश्वानरः, लवणं प्रतीतम, ऊषः ऊषराऽऽदिक्षेत्रोद्भवो लवणिमसम्मिश्रो रजोविशेषः, आम्लं काञ्जिक, स्नेहः तैलाऽऽदिः। एतश्चाचित्तः पृथिवीकायो भवति. इह शीताग्न्यम्लक्षारक्षत्ररनेहाः परकायशस्त्राणि, ऊषः स्वकायशस्त्रम्, उष्णश्चेह सूर्यपरितापरूपः स्वभावोष्णः, तथाविधपृथिवीकायपरितापरूपो वा गृह्यते। नाग्निपरितापरूपस्तस्याग्निग्रहणेनैव गृहीतत्वात्, ततः सोऽपि, स्वकायशस्त्रोपादानेन परकायशस्त्रोपादानेन चान्यान्यानि स्वकायपरकायशस्त्राण्युपलक्ष्यन्ते, यथा कटुकरसोमधुरसस्य स्वकायशस्वमित्यादि, एतेन पृथिवीकायस्याचित्ततया भवनं चतुर्दा प्रतिपादितं द्रष्टव्यम् / तद्यथाद्रव्यतः, क्षेत्रतः, कालतो, भावतश्च / तत्र स्वकायेन परकायेण वा यदचितीकरणं तद् द्रव्यतः, यदा तु क्षाराऽऽदिक्षेत्रोत्पन्नस्य मधुराऽऽदिक्षेत्रोत्पन्नस्य चतुल्यवर्णस्य भूम्यादेः पृथिवीकायस्य परस्परं सम्पर्केणाचित्तताभवनं तदा तत् क्षेत्रतः, क्षेत्रस्य प्राधान्येन विवक्षणात्। यद्वा-मा भूदपरक्षेत्रोद्भवेन पृथिवीकायान्तरेण सह मीलनं, किन्त्वयन्यत्र क्षेत्रे योजन शतात्परतो यदा नीयते तदा सर्वोऽपि पृथिवीकायः सर्वस्मादपि क्षेत्राद्योजनशतादूर्द्धमानीतो भिन्नाऽऽहारत्वेन शीताऽऽदिसम्पक्केतश्वाऽऽवश्यमचित्तीभवति, इत्थं च क्षेत्राऽऽदिक्रमेणाचित्ती-भवनमप्कायाऽऽदीनामपि भावनीयं, यावद्वनस्पतिकायिकानां, तथा च हरीतक्यादयो योजनशतादूर्द्धमानीताऽचित्तीभूतत्वादौषधाऽऽद्यर्थं साधुभिः प्रतिगृह्यन्ते इति / कालतस्त्वचित्तता स्वभावतः स्वायुःक्षयेण सा च परमार्थतोऽतिशयज्ञानेनैव सम्यकपरिज्ञायते, नछाद्यस्थिकज्ञानेनेति नव्यवहारपथमवतरति। अतएव च तृषाऽतिपीडितानामपि साधूना स्वभावतः स्वायुः क्षयेणाचित्तीभूतमपि तडागोदकं पानाय वर्द्धमानस्वामी भगवान नानुज्ञातवान्, इत्थंभूतस्याचित्तीभवनस्य छद्मस्थानां दुर्लक्ष्यत्वेन मा भृत् सर्वत्रापि तडागोदके सचित्तेऽपि पाश्चात्यसाधूनां प्रवृत्तिप्रसङ्ग इतिकृत्वा, भावतोऽचित्तीभवनं पूर्ववर्णाऽऽदिपरित्यागतोऽपरवर्णाऽs - दितया भवनम् / तदेवमुक्तोऽचित्तोऽपि पृथिवीकायः। एतेन चाचित्तेन साधूनां प्रयोजनम्। तथा चाऽऽह-(वुकंत इत्यादि) व्युत्क्रान्ता अपगला योनिः उत्पत्तिस्थानं यत्र तेन विध्वस्तयो निना प्रासु के न, इदं वक्ष्यमाणस्वरूपं प्रयोजन साधूनां भवति। तदेवोपदर्शयतिअवरद्धिगविसबंधे, लवणेन व सुरभिउवलएणं वा। अचित्तस्स उगहणं, पओयणं तेणिमं वऽन्नं // 14|| अपराधनम् अपराद्ध पीडाजनकता, तदस्यास्तीति अपराद्धिको लूतास्फोटः, सप्पाऽऽदिदंशो वा। विष प्रतीत तच दद्रूप्रभृतिषु चारित सम्भवति, तयोरुपशमनाय बन्ध इव बन्धः प्रलेपस्तस्मिन् कर्तव्येऽचित्तपृथिवीकायस्य गौरमृत्तिकाकेदारतरिकाऽऽदिरूपस्य ग्रहणं प्रयोजनम् / यद्वा-लवणेन प्रतीतेन (अचित्तस्स त्ति) विभक्तिपरिणामेनेह तृतीयान्तं सम्बध्यते, अचित्तेनालवणभक्तभोजनाऽऽदौ प्रयोजनम्, अथवा सुरभ्युपलेन गन्धपाषाणेनगन्धरोहकाऽऽख्येन प्रयोजनं, तेन हि पामाप्रसूतवातघाताऽऽदिः क्रियते, वाशब्दो विकल्पार्थः, अथवा-तेन पृथिवीकायेनेदमन्यत्प्रयोजनम्। तदेवाऽऽहठाणनिसियणतुयट्टण-उच्चाराईण चेव उस्सग्गो। घुट्टगडगलगलेवो, एमाइ पओयणं बहुहा / / 15 / / इह साधुभिः सवित्तमिश्रपरिहारद्वारेणाचित्ते भूतलप्रदेशे यत् स्थान कायोत्सर्गो विधीयते, यच्च निषीदनम् उपवेशनं, यच्च त्वगपवर्तन स्वापः, यश्च उच्चाराऽऽदीनां पुरीषप्रसवणश्लेष्मनिष्ठयूतानामुत्सर्गः, तथा यो घुट्टको लेपितपात्रमहणताकारकः पाषाणो, ये च डगलकाः पुरीषोत्सर्गानन्तरमपानप्रोञ्छनकपाषाणाऽऽदिखण्डरूपाः, यश्च लेपो भोगपुरपाषाणाऽऽदिनिष्पन्नस्तौम्बकपात्राभ्यन्तरे दीयते, एवमादि 'बहुधा बहुप्रकारम् अचित्तेन पृथिवीकायेन प्रयोजनम् / उक्तः सचित्ताऽऽदिभेदभिन्नः पृथिवीकायपिण्ड / पिं०। (अप्कायस्य पिण्ड सचित्तम् 'आउकाय' शब्दे द्वितीयभागे 22 पृष्ठेऽवोचम्) (अचित्तेनाप्कायेन बहुप्रकारो द्रष्टव्यः) चीवरधावन संयतानां वर्षाकालादर्वाग कल्पते, नशेषकालं, शेषकाले त्वनेकदोषसंभवात्। (तेच दोषाः 'धावण' शब्दे चतुर्थभागे 2751 पृष्ठे गताः) (तेजस्कायः 'तेउक्काइय' शब्दे चतुर्थभागे 2343 पृष्ठे गतः) ('वाउक्काय' शब्दे वक्ष्यामि वायुकायपिण्डम्) (द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियशब्देषु तत्तपिण्डाः) तदेवं सचित्ताऽऽदिभेदभिन्नस्त्रिप्रकारोऽपि द्रव्यपिण्डः प्रत्येक पृथिवीकायाऽऽदिभेदान्नवविध उक्तः / संप्रति एतेषामेव नवानां पृथिवीकायाऽऽदीनां व्यादिमिश्रणती मिश्रं द्रव्यपिण्डमभिधित्सुराहअहमीसओ य पिंडो, एएसिं चिय नवण्ह पिंडाणं / दुगसंजोगाईओ, नायव्वो जाव चरमो त्ति // 53 / / अथेत्यानन्तर्यद्योतने, केवलपृथिवीकायाऽऽदिपिण्डाभिधाना