________________ पिंड 620 - अभिधानराजेन्द्रः - भाग 5 पिंड क्षाऽऽदिः काष्ठाऽऽदिष्वाकारविशेषो वा पिण्डत्वेन स्थाप्यमानः स्थापनापिण्डः / इयमत्र भावना-यदा काष्ठे लेप्ये उपले चित्रकर्मणि वा प्रभूतद्रव्यसंश्लेषरूपः पिण्डकारः साक्षाद्विद्यमान इवालिख्यते यद्वाअक्षाः कपर्दिका अड्गुलीयकाऽऽदयो वा एकत्र संश्लेष्य पिण्डत्वेन संस्थाप्यन्ते,यथैष पिण्डः स्थापित इति तदा तत्र पिण्डाऽऽकारस्योपलभ्यमानत्वात् सद्भावतः पिण्डस्थापना, यदा त्वेकरिमन्नक्षेवराटकेऽड्गुलीयके वा पिण्डत्वेन स्थापना-एष पिण्डो मया स्थापित इति, तदा तत्र पिण्डाऽऽकारस्यानुपलभ्यमानत्वात्, अक्षाऽऽदिगतपरमाणुसवातस्य चाविवक्षणादसद्भावतः पिण्डस्थापना, चित्रकर्मण्यपि यदा एकविन्द्वालिखनेन पिण्डस्थापना यथैष पिण्ड आलिखित इति विवक्षा तदा प्रभूतद्रव्यसंश्लेषाऽऽकारादर्शनादसद्भावपिण्डस्थापना, यदा पुनरेकबिन्द्रालिखनेऽपि एष मया गुडपिण्ड ओदनपिण्डः सक्तुपिण्डो वा आलिखित इति विवक्षा तदा सद्भावतः पिण्डस्थापना। ___ अमुमेव सद्भावासद्भावस्थापनाविभागं भाष्यकृदुपदर्शयतिइको उ असब्भावे, तिण्हं ठवणा उ होइ सब्भावे / चित्तेसु असब्भावे, दारुअलेप्पोवले सियरो // 7 // (भा०) एकोऽक्षो वराटकोऽड्गुलीयकाऽऽदिर्वा यदा पिण्डत्वेन स्थाप्यते। तदा सा पिण्डस्थापना असद्भावे' असद्भावविषया, असद्भाविकीत्यर्थः, तत्र पिण्डाऽऽकृतेरनुपलभ्यमानत्वात्, अक्षाऽऽदिगतपरमाणुसङ्घातस्य चाविवक्षणात्। यदा तु त्रयाणामक्षाणां वराटकानामगुलीयकाऽऽदीना वा परस्परमेकत्र संश्लेषकरणेन पिण्डत्वेन स्थापना तदा सा पिण्डस्थापना, सद्भावे सद्भाविकी, तत्र पिण्डाऽऽकृतरुपलभ्यमानत्वात्, त्रयाणां चेत्युपलक्षणं, तेन द्वयोरपिबहूनां चेत्यपिद्रष्टव्यम्। तथा 'चित्रेषु' चित्रकर्मसु यदैकबिन्द्वालिखनेन पिण्डस्थापना तदा साऽप्यसद्भावे, यदा तु चित्रकर्मस्वपि अनेकबिन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसंघाताऽऽत्मकपिण्डस्थापना तदा सा सद्भावस्थापना, पिण्डाऽऽकृतेस्तत्र दर्शनात्, तथा-दारुकलेप्योपलेषु पिण्डाऽऽकृतिसम्पादनेन या पिण्डस्य स्थापना स 'इतरः सद्भावस्थापनापिण्डः, तत्र पिण्डाऽऽकारस्य दर्शनात् / तदेवमुक्तः स्थापनापिण्डः। सम्प्रति द्रव्यपिण्डस्याऽवसरः। स च द्विधा-आगमतो, नो आगमतश्च ! तत्राऽऽगमतः पिण्डशब्दार्थस्य ज्ञाता चानुपयुक्तः, अनुपयोगो द्रव्यमिति वचनात् नोआगमतस्त्रिधा। / तद्यथा-ज्ञशरीरद्रव्यपिण्डः, भव्यशरीरद्रव्यपिण्डः, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यपिण्डन / तत्र पिण्डशब्दार्थज्ञस्य यत्तछरीरं सिद्धशिलातलाऽऽदिगतमपगतजीवितं तद् भूतपिण्डशब्दार्थपरिज्ञानकारणत्वात् ज्ञशरीरद्रव्यपिण्डः, यस्तु वालको नेदानीमवबुध्यते पिण्डशब्दार्थम्, अथ चावश्यमायत्यां तेनैव शरीरेण परिवर्द्धमानेन भोत्स्यते स भावपिण्डशब्दार्थपरिज्ञानकारणत्वाद् भव्यशरीरद्रव्यपिण्डः। ज्ञशरीरभव्यशरीव्यतिरिक्तं तु द्रव्यपिण्डं नियुक्तिकृदाहतिविहो उदव्वपिंडो, सञ्चित्तो मीसओ अचित्तोय। एकेकस्स य एत्तो, नव नव भेआ उ पत्तेयं / / 8 / / ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यपिण्डस्विधा / तद्यथा- सचित्तो, मिश्रोऽचित्तश्च / लत्र मिश्रः सचित्ताचित्तरूपः, इह पृथिवीकायाऽऽदिकः पिण्डत्वेनाभिधास्यते, स च पूर्व सचितो भवति, ततः स्वकायशरत्राऽऽदिभिः प्रासुकीक्रियमाणः कियन्तं कालं मिश्रो भवति, तत ऊर्ध्वमचित्तः, तत एतदर्थख्यापनार्थ सचित्तमिश्राचित्ताः क्रमेणोक्ताः, 'इतो' भेदत्रयाभिधानादनन्तरम् ‘एकैकस्य सचित्ताऽऽदेर्भेदस्य प्रत्येकं नव नव भेदा वाच्या भवन्ति। तानेव नवनवभेदानाहपुढवी आउक्काओ, तेऊ वाऊ वणस्सई चेव / बेइदियं तेइंदिय, चउरो पंचेंदिया चेव / / 6 / / इह पिण्डशब्दः पूर्वगाथातोऽनुवर्तमानः प्रत्येकं सम्बध्यते / तद्यथापृथिवीकायपिण्डोऽप्कायपिण्डस्तेजस्कायपिण्डो वायुकायपिण्डो वनस्पतिकायपिण्डों द्वीन्द्रियपिण्डस्त्रीन्द्रियपिण्डश्चतुरिन्द्रियपिण्डः पञ्चेन्द्रियपिण्डश्च। सम्प्रत्यमीषामेव नवानां भेदानां सचित्तत्वाऽऽदिकं विभावयिषुः प्रथमतः पृथिवीकाय भावयतिपुढवीकाओ तिविहो, सचित्तो मीसओ य अचित्तो। सचित्तो पुण दुविहो, निच्छय ववहारओ चेव / / 10 / / पृथिवीकायरित्रविधः / तद्यथा-सचित्तो, मिश्रः, अचित्तश्च / सचित्तः पुनर्द्विधा / तद्यथा-निश्चयतो, व्यवहारतश्च / एतदेव निश्चयव्यवहाराभ्यां सचित्तस्य द्वैविध्यं प्रतिपादयतिनिच्छयओ सचित्तो, पुढविमहापव्वयाण बहुमज्झे। अचित्तमीसवओ, सेसो ववहारसच्चित्तो।।११।। निश्चयतः सचित्तः पृथिवीकायो धर्माऽऽदीनां पृथिवीनां मेर्वादीनां महापर्वतानाम्, उपलक्षणमेतत्, तेन टङ्काऽऽदीनां च बहुमध्यभागे वेदितव्यः, तत्राचित्तताया मिश्रतायाश्च हेतूना शीताऽऽदीनामसम्भवात्, शेषः पुनः अचित्तमिश्रवों वक्ष्यमाणस्थानसम्भविमिश्राचित्तव्यतिरिक्तो निराबाधाऽऽरण्यभूम्यादिषु व्यवहारतः सचित्तो वेदितव्यः / उक्तः सचित्तपृथिवीकायः। सम्प्रति तमेव मिश्रमाहखीरदुमहेट्ठपंथे, कट्ठोले इंधणे य मीसो उ। पोरिसि एग दुग तिगं, बहु इंधण मज्झ धोवे य / / 12 / / (खीरदुमहे? त्ति) क्षीरद्रुमा वटाश्वत्थाऽऽदयस्तेषामधस्तात् तल्लेपः पृथिवीकायः स मिश्रः / तत्र हि क्षीरद्रुमाणां माधुर्येण शस्त्रत्याभावात् कियान्सचित्तःशीताऽऽदिशस्वसम्पर्कसम्भवाच कियानचित्त इति मिश्रता, तथा पथिग्रामान्नगराद्वा बहिर्यः पृथिवीकायः वर्ततेसोऽपि मिश्रो, यतस्तत्र गन्त्रीचक्राऽऽदिभिर्य उत्खातः पृथिवीकायः स कियासचित्तः कियांश्च शीतावाताऽऽदिभिरचित्तीकृत इति मिश्रः, (कट्टोले त्ति) कृष्टो हलविदारितः सोऽपि प्रथमतो हलेन विदार्यमाणः सचित्तः, ततः शीतवाताऽऽदिभिः कियानचित्तीक्रियते इति मिश्रः, तथाऽऽो जलमिश्रितः। तथाहिमेघस्यापि जलं सचित्तपृथिवीकायस्योपरि निपतत् कियन्तं पृथिवी