________________ पिंड 916 - अभिधानराजेन्द्रः - भाग 5 पिंड ण तावत्पिण्ड इति नाम प्रवर्तत एव.न काचित्तत्र व्याहतिरित्यपिशब्दार्थः, समयप्रसिद्ध्या 'पिण्डाख्या' पिण्ड इति नाम, स पिण्डाऽऽख्यायान् नामपिण्डः समयकृत इत्युच्यते, तत्र नामनामयतोरभेदोपचारादेवं निर्देश, उपचाराभावे त्वयमर्थः-तत्र वस्तुनि तत्पिण्ड इति नाम समयकृतमिति। एतदेव दर्शयति-(जह सुत्तं पिडपडियाई) यथेप्युपदर्शने पिण्डेति पिण्डपातग्रहणं, तत एवं गाथायां निर्देशो द्रष्टव्यः- "पिंडवायपडियाए,' इत्यादि / आदि-शब्दात् 'पविढे समाणे" (41) इत्यादिसूत्रपरिग्रहः / (तच 'पाणग' शब्देऽस्मिन्नेव भागे 826 पृष्ठे प्रागेव दर्शितम्) इयमत्र भावना-अत्र सूत्रे प्रभूतकठिनद्रव्यपरस्परसंश्लेषाभावेऽपि पानीये पिण्ड इति नामान्वर्थरहितं समयप्रसिद्ध्या प्रयुज्यते, अत इदं समयजमभिधीयते इति। सम्प्रति उभयजं पिण्ड इति नाम दर्शयतिजस्स पुण पिंडवायट्ठया पविट्ठस्स होइ संपत्ति। गुडओयणपिंडेहिं, तं तदुभयपिंडमाहंसु // 3 / / (भा०) यस्य पुनः कस्यचित् पिण्डपातार्थतया पिण्डपात आहारलाभस्तदर्थतया साधोहपतिगृहं प्रविष्टस्य सतो भवति आ सम्प्राप्तिः, (गुडओदणपिंडेहिं ति) 'व्यत्ययोऽप्यासाम्॥" इति प्राकृतलक्षणवशात्षष्ट्यर्थे तृतीया / ततोऽयमर्थः- गुडौदनपिण्डयोः गुडपिण्डस्य, ओदनपिण्डस्य चेत्यर्थः / गुडौदनग्रहणमुपलक्षणं, तेन सक्तुपिण्डाऽऽदेश्च या सम्प्राप्तिस्तं गुडपिण्डाऽऽदिकं तदुभयपिण्ड गुणनिष्पन्नसमयप्रसिद्धपिण्डशब्दवाच्यमुक्तवन्तस्तीर्थकरगणधराः, इहापि नामनामवतोरभेदोपचारात् एवं गाथायां निर्देशः, उपचाराभावे त्वयं भावार्थः-तद्विषयं पिण्ड इति नाम उभयजम्, अन्वर्थयुक्तत्वात्समयप्रसिद्धत्वाचेति। ___ सम्प्रत्युभयातिरिक्त सामान्यतो नाम प्रतिपादयतिउभयाइरित्तमहवा, अन्नं पिहु अत्थि लोइयं नाम / अत्ताभिप्पायकयं, जह सीहगदेवदत्ताई||४| (मा०) अथवेति नाम प्रकारान्तरताद्योतकः, 'उभयातिरिक्तं' गौणसमयजविभिन्नम, अन्यदप्यस्ति 'लौकिकं लोके प्रसिद्धमात्माभिप्रायकृतं नाम, अनुभयजमिति भावार्थः / तदेवोदाहरणेन समर्थयमान आहयथा सिंहकदेवदत्ताऽऽदि,आदिशब्दाद्यज्ञदत्ताऽऽदिपरिग्रहः इदं हि सिंहदेवदत्ताऽऽदिकं नाम शौर्यक्रौर्याऽऽदिगुणनिबन्धनोपचाराभावे देवा एन देयासुरिति व्युत्पत्त्यर्थासम्भवे च यस्य कस्यचिदात्माऽभिप्रायतः पित्रादिभिर्दीयमानं न गौणमन्वर्थाविकलत्वान्नापि समयप्रसिद्धमत उभयतिरिक्तमिति। एवं पिण्ड इत्यपि नाम उभयातिरिक्त भावनीयम्। ननु पिण्ड इति नाम नियुक्तिगाथायामुभयातिरिक्तंनोपन्यस्तं,तत्कथं भाष्यकृता व्याख्यायते? तदयुक्तं, नोपयन्यस्तमित्यसिद्धेः, अपिशब्देन तत्र सूचितत्वात्। तथा चाऽऽह भाष्यकृत्गोणसमयाइरितं, इणमन्नं वाऽवि सूइयं नाम। जह पिंडउत्ति कीरइ, कस्सइ नाम मणूसस्स / / 5 / / इदं पिण्ड इति नाम / अन्यद्वा-'गौणसमयातिरिक्तं' गौणसमय जविभिन्नमपिशब्दसूचितमस्ति, तदेव दर्शयति-यथा कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते, तद्धिनगौणं, प्रभूतद्रव्यसंश्लेषासम्भवाच्छरीरावयवसङ्घातस्य चाविवक्षणात्, नापि समयकृतम्, अत इदमुभयातिरिक्तमिति / ननु समयकृतोभयातिरिक्तयोर्न कश्चित्परस्परं विशेष उपलभ्यते, उभयत्राप्यन्वर्थविकलत्वादात्माभिप्रायकृतत्वाविशेषाच, तत्कथं द्वयोरूपादानम्? साङ्केतिकमित्येवोच्यताम् / एवं हि द्वयोरपि ग्रहणं भवति / तदयुक्तम्, अभिप्रायापरिज्ञानात् / इह हि यल्लौकिकं नाम साङ्केतिकं तत्पृथगजनाः सामायिकाश्च व्यवहरन्ति, यत्पुनः समय एव साङ्केतिक, तत् सामायिका एव न पृथग्जनाः। तथा चाऽऽह भाष्यकृत्तुल्लेऽवि अभिप्पाए, समयपसिद्धं न गिण्हए लोओ। जं पुण लोयपसिद्धं, तं सामइया उवचरंति // 6 / / (भा०) (अभिप्रायशब्दस्य बहवोऽर्थाः 'अभिप्पाय' शब्दे प्रथमभागे 725 पृष्ठ गताः) इहाभिप्रायशब्देन पदैकदेशे पदसमुदायोपचारादभिप्रायकृतत्वमुच्यते / तत्रायमर्थः-अभिप्रायेण इच्छामात्रेण कृतं न तु वस्तुबलप्रवृत्तमभिप्रायकृतं, तस्य भावोऽभिप्रायकृतत्वं, साङ्केतिकत्वमित्यर्थः, तस्मिंस्तुल्येऽपि समानेऽपि, आस्तामसमाने इत्यपिशब्दार्थः, समयप्रसिद्धं, 'लोकः पृथग-जनरूपोन गृह्णातिन समयप्रसिद्धेन साङ्केतिकेन नाम्ना व्यवहरति, न खलु पृथगजनो भोजनाऽऽदिकं समुद्देशाऽऽदिना समयप्रसिद्धेन साङ्केतिकेन नाम्ना व्यवहरति, यत्पुनर्लोकप्रसिद्ध तत्पृथग्जनाः सामयिकाश्चोपचरन्ति, तत इत्थं समयकृतोभयातिरिक्तयोः स्वभावभेदाद् तद् द्वयोरपि पृथगुपादानमर्थवत् / एतेन गौणोभयकृतयोरपि स्वभावभेदसूचनेन पृथगुपादानं सार्थकमुपपादितं द्रष्टव्यम्। तथाहि-यद्यपि गौणमुभयकृतं चान्वर्थयुक्तत्वेनाविशिष्ट, तथापि यद्गौणं तत्पृथगजनाः सामयिकाश्च व्यवहरन्ति, यत्पुनः समयप्रसिद्ध गौणं तत्सामयिका एव, न पृथग्जनाः, तेषां तेन प्रयोजनाभावात् समयप्रसिद्धेन हि नाम्ना गौणेनापि यथोक्तसमयपरिपालननिष्पनचेतसां गृहीतव्रतानां प्रयोजनं न गृहस्थानाम्, अतः स्वभावभेदात्तयोरपि पृथगुपन्यासः सार्थक इति / तदेवं नामपिण्डो नियुक्तिकृतोपदर्शितो भाष्यकृता सप्रपञ्चं व्याख्यातः। स्थापनापिण्डः / साम्प्रतंयत्पूर्व प्रतिज्ञातं नियुक्तिकृता'ठवणा-पिडं अतो वोच्छ' तत्समर्थयमानः स एवाऽऽहअक्खे वराडए वा, कट्टे पुत्थे व चित्तकम्मे वा। सब्भावमसब्भावं, ठवणापिंड वियाणाहि॥७॥ स त इव विद्यमानस्येव भावः सत्ता सद्भावः / किमुक्तं भवति? स्थाप्यमानस्येन्द्राऽऽदेरनुरूपाङ्गोपाङ्गचिह्नवाहनप्रहरणाऽऽदिपरिकररूपो य आकारविशेषो यद्दर्शनात्साक्षाद्विद्यमान इवेन्द्राऽऽदिर्लक्ष्यते ससद्भावः, तदभावोऽसद्भावः, तत्र सद्भावमसद्धावं चाऽऽश्रित्य 'अक्षे चन्दने कपर्दे वराटके, वाशब्दोऽड्गुलीयकाऽऽदिसमुपयार्थः / उभयत्रापि च जातावेकवचनं, तथा काष्ठे दारुणि, 'पुरते' ढिउल्लिकाऽऽदौ, वाशब्दो लेप्यपाषाणसमुच्चये, चित्रकर्मणि वा या पिण्डस्य स्थापना साऽ