________________ पिंड 618 - अभिधानराजेन्द्रः - भाग 5 पिंड वक्तव्य इति स्यायप्रदर्शनार्थ षट्ककग्रहणम्। तथा चोक्तम्- 'जत्थय ज जाणिजा, निक्खेवं निक्खिवे निरवसेसं / जत्थ वि य न जाणिज्जा, चउक्वयं निक्खिये तत्थ" ||1|| ततश्चैतदत्रोक्तं भवति-यदिषट्को निक्षेपः सम्यगधिगतो भवति, अधिगतोऽपि च न विस्मृतस्तदा षट्करूपो निक्षेपः कर्तव्यः, अन्यथा तु नियमतश्चतुष्करूप इति / एवं च निक्षेपं कृत्वा तस्य पिण्डस्य प्ररूपणा कर्तव्या, येन पिण्डेनेहाधिकारः स पिण्डः प्ररूपणीय इति भावार्थः। इदमेव च नामाऽऽदिभेदोपन्यासेन व्याख्यायाः फलं यदुत यावन्तो विवक्षितशब्दवाच्याः पदार्थाःघटन्तेतान सर्वानपि यथास्वरूपं वैविक्त्येनोपदी येन केनचिन्नामाऽऽद्यन्यतमेन प्रयोजनं स युक्तिपूर्वमधिक्रियते, शेषारत्वपाक्रियन्ते। तथा चोक्तम्-अप्रस्तुतार्थापाकरणात्प्रस्तुतार्थव्याकरणाच निक्षेपः फलवानिति / इह चतुष्कः षट्को वा निक्षेपः कर्तव्य इत्युक्तं, तत्र नानिर्दिष्टस्वरूपं चतुष्कं षट्कं वा निक्षेप शिष्याः स्वयमेवावगन्तुमीशास्ततोऽवश्यं तत्स्वरूपं निर्देष्टव्यं, तवषट्के निर्दिष्ट तदन्तर्गतत्वाच्चतुष्कोऽर्थान्निर्दिष्टो भवति, ततः स एव षट्कनिक्षेपो निर्दिश्यते इति। एतदृष्टान्तपुरस्सरं प्रतिपिपादयिषुराहकुलए उचउब्भागस्स संभवो छक्कए चउण्हं च। नियमेण संभवो अत्थि छक्कगं निक्खिवे तम्हा ||4|| यथा 'कुलके' चतुःसेतिकाप्रमाणे चतुर्भागस्य सेतिकाप्रमाणस्य सम्भवो विद्यमानताऽवश्यं भाविनी, एवं षट्के निक्षेपे चतुर्णा निक्षेपस्य चतुष्करूपस्य निक्षेपस्य नियमेन अवश्यतया सम्भवोऽस्ति, ततस्तमेव षट्ककमिह निक्षिपाभिषट्करूपमेव निक्षेप प्ररूपयामि, तस्मिन् प्ररूपिते तस्यापि चतुष्करूपस्य निक्षेपस्य प्ररूपितत्वभावादिति भावार्थः। प्रतिज्ञातमेव निर्वाहयतिनामं ठवणा पिंडो, दव्वे खेत्ते य काल भावे य। एसो खलु पिंडस्स उ, निक्खेवो छव्विहो होइ / / 5 / / (नाम ति) नामपिण्डः, स्थापनापिण्डः, 'द्रव्ये' द्रव्यविषयः पिण्डो द्रव्यपिण्डः, द्रव्यस्य पिण्ड इत्यर्थः। तथा-'क्षेत्रे क्षेत्रस्य पिण्डः, एवं कालपिण्डो, भावपिण्डश्च, 'एषः अनन्तरोक्तः खलु 'पिण्डस्य' पिण्डशब्दस्य निक्षेपः षड्डिधो भवति। तत्र नामपिण्डस्य व्याख्यानाय स्थापनापिण्डस्य तु सम्बन्धनायाऽऽहगोणं समयकयं वा, जं वावि हवेज तदुभएण कयं / तं बिंति नामपिंडं, ठवणापिंडं अओ वोच्छं।६।। इह यत् पिण्ड इति वर्णावलीरूपं नामस नामपिण्डः नाम चासौ पिण्डश्च नामपिण्ड इति व्युत्पत्तेः / पिं०। (चतुर्धा नाम 'णाम' शब्दे चतुर्थभागे 1668 पृष्ठे गतम्) पिण्डनं पिण्ड इति व्युत्पत्त्यघिटनान्न गौणम्, अथ च समये प्रसिद्धम् / तथा च आचाराङ्गे द्वितीयश्रुतस्कन्धे प्रथमे पिण्डैषणाभिधानेऽध्ययने स्पतमोद्देशकसूत्रम्- ‘से भिक्खू वा भिक्खुणी वा० जाव पहिगाहिजा / ' (41) / (इति सूत्रं 'पाणग' शब्देऽस्मिन्नेव भागे 526 पृष्ठे गतम्) अत्र पानीयमपि पिण्डशब्देनाभिहितम, ततः पानीये पिण्ड इति नाम समयप्रसिद्धं, न चान्वर्थयुक्तमिति समयजमित्युच्यते, यदा पुनर्भिक्षुर्भिक्षुकी वा भिक्षार्थं प्रविष्टा सती गृहपतिकुले गुडपिण्डम्, ओदनपिण्ड सक्तुपिण्डं वा लभते तदा पिण्डशब्दस्तत्र प्रवर्त्तमान उभयजः, समयप्रसिद्धत्वादन्वर्थयुक्तत्वाच,यदा पुनःकस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते, न च शरीरावयवसधातविवक्षा तदा तदनुभयजम् / सम्प्रति गाथाऽक्षराणि विवियन्तेयत्पिण्ड इति नाम गौण,यदा-समयकृतं समयप्रसिद्धम्, यद्वा भवेत्तदुभयकृतम्, उभयम् - गुणः, समयश्च ।तच्च तदुभयं च तदुभयं, तेन कृतं तदुभयकृतं, समयप्रसिद्धमन्वर्थयुक्त चेत्यर्थः / अपिशब्दाद् यद अनुभयजमन्वर्थविकलं समयाप्रसिद्धं च तन्नामपिण्ड ब्रुवते तीर्थकरगणधराः। अतऊर्ध्वं स्थापनापिण्डमहं वक्ष्ये-एनामेव गाथां भाष्यकृत् सप्रपञ्च व्याचिख्यासुः प्रथम गौण नाम व्याख्यानयन्नाहगुणनिप्फन्नं गौणं, तं चेव जहत्थमत्थवी वेति / तं पुण खवणो जलनो, तवणो पवनो पईवो य // 1 // गुणेन परतन्त्रेण (तन्त्रशब्दार्थाः 'तंत' शब्दे चतुर्थभागे 2167 पृष्ठे गताः) व्युत्पत्तिनिमित्तेन द्रव्याऽऽदिना यन्निष्पन्नं नाम तद्गौणं, यच (स्य) गुणैर्निष्पन्नं तद्गुणात्तस्मिन् वस्तुन्यागतमिति "तत आगते" / / 6 / 3 / 145|| इत्यनेनाणप्रत्ययः, तदेव च गौणं नाम 'अर्थविदः' शब्दार्थविदो यथार्थं ब्रुवते / गौणं च नाम त्रिधा। तद्यथा-द्रव्यनिमित्त, गुणनिमित्तं, क्रियानिमित्तं च / एतच्च प्रागेव भावित, तत्र पिण्ड इति नाम क्रियानिमित्तं, पिण्डनमिति व्युत्पत्तेः, तत उदाहरणान्यपि क्रियानिमित्तान्येव दर्शयति- (तं पुण इत्यादि) तत्पुनर्गौणं नाम क्षपण इत्यादि, तत्र क्षपयति कर्माणीति क्षपण-क्षपकर्षिः, (अत्र विस्तरः 'खवग' शब्दे तृतीयभागे 727 पृष्ठे गतः) इह क्षपकर्षेः क्षपणलक्षणां क्रियामधिकृत्य क्षपण इति नाम प्रवृत्तमतो गौणम्, एवं शेषेष्वप्युदाहरणेषु भावना कार्या / तथा-ज्वलतीति ज्वलनः (अस्यार्थाः 'जलण' शब्दे चतुर्थभागे 1426 पृष्ठे गताः) वैश्वानरः / तपतीति तपनः (अर्थाः तवण' शब्दाद चतुर्थभागस्थ 2206 पृष्ठादवगन्तव्याः) रविः। पवते पुनातीति वा पवनः (विशेषः ‘पवण' शब्देऽस्मिन्नेव भागे 777 पृष्ठे गतः) वायुः। प्रदीप्यते इति प्रदीपः ('पईव' शब्देऽस्मिन्नेव भागे 12 पृष्ठे सर्व प्रतिपादितम्) दीपकलिका / चकारोऽन्येषामप्येवंजातीयानामुदाहरणानां समुच्चयार्थः। तदेवं सामान्यतो गौणं नाम व्याख्यातम्। सम्प्रति पिण्ड इति नाम गौण समयकृतं च व्याचिख्या सुराहपिंडण बहुदव्वाणं, पडिवक्खेणावि जत्थ पिंडक्खा। सो समयकओ पिंडो, जह सुत्तं पिंडपडियाई / / 2 / / बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणां यत् पिण्डनम् एकत्र संश्लेषस्तत्र पिण्ड इति नाम प्रवर्त्तमानं, गौणमिति शेषः, व्युत्पत्तिनिमित्तस्य तत्र विद्यमानत्वात, तथा प्रतिपक्षणाप्यत्र प्रकरणात्प्रतिपक्षशब्दः कटिनद्रव्यसंश्लेषाभाववाची ततोऽयमर्थः-यत्र प्रतिपक्षणापिबहूनांद्रव्याणांमीलनमन्तरे