________________ पाहुडिया 915 - अभिधानराजेन्द्रः - भाग 5 पाहुणिज्ज एयस्स उठ्ठिया ते, दाहं सोउं विवजेइ॥२८६।। अहवाअंगुलियाए घेत्तुं, कड्डइ कप्पट्ठओ धरं जत्तो। किं ति कहिए न गच्छइ, पाहुडिया एस सुहुमा उ॥२८७|| इह काचित गृहस्था भोजनं याचमानं पुत्र प्रतिपादयति-हे पुत्रक ! मा तायत् झष वारं वारं जल्प, इह परिपाट्या साधुरागमिष्यति ततस्तस्यार्थमुत्थिता सती ते तुभ्यं दास्यामि, अत्रान्तरे च साधुरागत इदं वचः श्रुत्वा विवर्जयति, मा भूदुत्सर्पणरूपसूक्ष्मप्राभृतिकादोषः, अत्रार्वाक् विवक्षितस्य भोजनदानस्य साधुभिक्षादानेन समं परतः करणमुत्सर्पणम्। अथवा-प्राक्तने जनन्योक्ते बालकेन श्रुते सति स 'कप्पट्टओ' बालकस्तं साधुमगुल्या गृहीत्वा यतो निजगृहं ततः समाकर्षति। ततः साधुस्तं बालकं पृच्छति। यथा कि मामाकर्षसि? ततः स यथावस्थित कथयति, बालकत्वेन ऋजुत्वात्, ततः कथिते तत्र न गच्छति, मा भूदुत्सर्पणरूपसूक्ष्मप्राभृतिकादोषसंपर्कः / एषा सर्वाऽप्यनन्तरोक्ता सूक्ष्मप्राभृतिका संप्रति "कव्वट्ठीए समोसरणे" इत्यवयवं व्याचिख्यासुः प्रथमतोऽवष्वकणरूपा बादरप्राभृतिकामाहपुत्तस्स विवाहदिणं, ओसरणे अइच्छिए मुणिय सड्ढी। ओसकंतो सरणे, संखडिपाहेणगदवट्ठा // 28 // पुत्रस्य, उपलक्षणमेतत्, पुत्रिकाऽऽदेश्च, विवाहदिन ज्योति विदा अवसरणे साधुसमुदाये यथाविहारक्रममतिक्रान्तेऽन्यत्र गते सत्युपदिश्यमानं श्रुत्वा श्राद्धी विवाहमवष्वष्कते, अर्वाक् दिनं दृष्ट्वा विवाह करोति। किमर्थम्?, इत्याह-समवसरणे, षष्ठीसप्तम्योरर्थं प्रत्यभेदात् समवसरणस्य साधुसमुदायस्य विवाहरूपाया संखड्यां प्रेहणकं मोदकाऽऽदि द्रवंतन्दुलधावनाऽऽदि तदर्थ -तद्दानार्थम्, भावना च प्रथमगाथायामेव कृता। उत्सर्पणरूपा बादरप्राभृतिकामाहअप्पत्तम्मि य ठबियं, ओसरणे होहिइत्ति उस्सकणं / स्थापितं विवाहदिनं किलाप्राप्ते यथाविहारक्रममनोगते 'अवसरणे' साधुसमुदायरूपे भविष्यति, ततो न किमपि मदीयं विवाहसत्क साधूनामुपकरिष्यतीतिकृत्वा विवाहस्योत्सर्पणं करोति, साधुसमागमकाल एव करोतीत्यर्थः / उक्ता बादरा प्राभृतिका। संप्रति द्विविधाया अवसर्पणोत्सर्पणरूपायाः कतरि प्रतिपादयतितं पागडमियरं वा, करेइ उज्जू अणुज्जू वा / / 286 / / तामवष्वत्कणोत्ष्वकणरूपा द्विधामापि ऋजुः प्रकट करोति सकल जननिवेदनेन करोति / अनृजुरितरत्-प्रच्छन्नम्, यथा न कोऽपि जानातीति भावः। तत्र यदि प्रकटं करोति तर्हि तां जनपरंपरात एव ज्ञात्वा परिहरन्ति / अथाप्रकट तर्हि निपुणं शोधयित्वा वर्जयन्ति, निपुणशोधनेऽपि यदि कथमपि न परिज्ञानं भवति तद्दा न कश्चिद्दोषः, परिणामस्य शुद्धत्वात्। अथ किमर्थ बादरमष्वष्कणाऽऽदिकं करोति,तत आह मंगलहेउं पुन्न-ट्ठया व ओसक्कियं दुहा पगयं / उस्सकिय पि किं ति य, पुढे सिट्टे विवज्जंति // 260|| प्रकृतं विवाहाऽऽदिकं द्विधा-द्वाभ्यां प्राकाराभ्यामवष्वष्कितं भवति / तद्यथा-मङ्गलहेतोवीं वाहे गृहस्य साधुचरणैः स्पर्शनं तेभ्यो दानं च मङ्गलाय इति कृत्वा; यद्वा-पुण्यार्थम्, एवमुत्ष्वष्किकितमपि द्विधा, ततो निपुणपृच्छ किमिदमिति पृष्टे गृहस्थेन च यथावस्थिते कथिते तद् वीवाहसत्कं परिहरन्ति, मा भूत् बादरप्राभृतिकादोषानुषङ्ग इति। ये तु न परिहरन्ति तेषां दोषमाहपाहुडिभत्तं मुंजइ, न पडिक्कमए य तस्स ठाणस्स। एमेव अडइ बोडो, लुक्कविलुको जह कवोडो॥ यः प्राभृतिकाभक्तं भुक्ते, न च तस्मात् प्राभृतिकापरिभोगरूपात् स्थानात्-प्रतिक्रामति स 'वोडाः मुण्ड एवमेव निष्फलमटति, यथा लुचितविलुञ्चितकपोतः। उक्तं प्राभृतिकाद्वारम्। पिं०। वल्यादिनिमित्तं या ददाति। पिं०। पञ्चा०जी०व्या सूक्ष्मप्राभृतिकायाम् अविकृतिप्रायश्चित्तम् / जीता 'गोयरचरियाण पाहुडियं न पडिपरिया तस्स णं चउत्थं पायछित्तं उवसेइज्जा।" महा०१चून। "मंडीपाहुडियाए बलिपाहुडियाए ठवणापाहुडियाए अणेसणाए जो मे अइयारो कओ।" (मण्डीप्राभृतिकाऽऽदीना यस्या वसतौ स्थितानां कर्म प्राभृतं भवति सा प्राभृतिका / वसतेश्छादनलेपनाऽऽदिकरणे, आव०४अ०। आ०चू०। (व्याख्या स्व-स्वस्थाने) वसतिविषया प्राभृतिका / अथ प्राभृ तिकाद्वारं विभावयिषुराहपाहुडिया वि य दुविहा, बायर सुहुमा य होइ नायव्वा / एकेक्का वि य एत्तो, पंचविहा होइ नायव्वा / / प्राभूतिका वसतेः छादनलेपनाऽऽदिरूपा, सा द्विविधा-यादरा, सूक्ष्मा च भवति ज्ञातव्या,एकैकाऽपि चेतः ऊर्द्ध पञ्चविधा भवति ज्ञातव्या। तत्र बादरां पञ्चविधामपि ताक्दाहविद्धंसण छावण ले-वणे भूमीकम्मे पडुच पाहुडिया। उस्सकण ओसक्कण, देसे सटवे य नायव्वा / / बृ०१उ०२प्रकला पं०१०। (अस्या गाथायाः व्याख्या वसहि' शब्दादवगन्तव्या) सुरविरचितसमवसरणमहाप्रातिहार्यादि (नि० चू०५ उ०) पूजायाम, बृ०४ उ०। प्राभृतिका भिक्षा मण्यते, पूजाऽपि। बृ० १उ०। पाहुण पुं०(प्राघुण) सङ्घस्थविरे, स च सङ्घस्य गौरवार्हतया प्राघुण उच्यते / बृ०३उ०। विक्रेये, देना०६वर्ग 40 गाथा। पाहुणग पुं०(प्राघूर्णक) आगन्तुके भिक्षी, स्था०६ठा। तदर्थे पथ्ये च। ना आ०चू०३ अ००। पाहुणगभत्तन०(प्राघूर्णकभक्त) प्राघूर्णका आगन्तुका भिक्षुका एव तदर्थ यद् भक्त तत्तथा प्राघूर्णको वा गृही स यद्दाप-यति तदर्थ संस्कृत्यततथा, / प्राघूर्णकार्थाऽऽहारे, स्था०६ ठा०। प्राघूर्णकः कोऽपि क्वचिद् गतो यत्प्रतिसिद्धये संस्कृत्य ददाति, प्राघूर्णका वा साध्वादय इहाऽऽयाता इति यद्दापयति तत्प्राघूर्णकभक्तम् / औ०। पाहुणिज्ज त्रि०(प्राहवणीय) प्रकर्षणाऽऽहवनीये, आचा० १श्रु०१० १उ०ा ज्ञान