________________ पाहुड 914 - अभिधानराजेन्द्रः - भाग 5 पाहुडिया पाहुड न०(प्राभृत) प्रकर्षे ण समन्ताद् भियते प्राप्यते चित्तमभीष्टस्य पुरुषस्यानेनेति प्राभृतमिति व्युत्पत्तिः। "कृबहुलम्" ||5 / 1 / 2 / / इति वचनात् करणे क्तप्रत्ययः। "उदृत्वादौ" ||8/1:131 // इति ऋत उत्। भस्य हः। प्रा०९० १पाद। ''पाहुडं उवायणं / '' पाइ० ना० 236 गाथा / पूर्वान्तर्गते श्रुतविशेषे, विशे० स०। अथ प्राभृतमिति कः शब्दार्थः? उच्यते-इह प्राभृतं नाम लोके प्रसिद्ध यदभीष्टाय पुरुषाय देशकालोचितं दुर्लभ वस्तु परिणामसुन्दरमुपनीयते ततः प्राभ्रियते प्राप्यते चित्तमभीष्टस्य पुरुषस्यानेनेति प्राभृतमिति व्युत्पत्तेः "कृद्रहुलम्" / / 5 / 1 / 2 / / इति वचनात् च करणे क्तप्रत्ययः / विवक्षिता अपि च ग्रन्थपद्धतयः परमदुर्लभाः परिणामसुन्दराश्चाभीष्टभ्यो विनयाऽऽदिगुणकलितेभ्यः शिष्येभ्यो देशकालौचित्येनोपनीयन्ते / चं०प्र०१ पाहु०१ पाहु० पाहु०। सू० प्र०। अनु०। आचा० स०। कलहे,नि०चू० १०उ०। बृ० स्था०। कौशलिकपरमक्रोधे, स्था० ३ठा० ४उ०। प्राभृतिकायाम. प्रश्न०५संव० द्वार। पाहुडच्छेद पुं०(प्राभृतच्छेद) परिमाणपरिच्छिन्नप्राभृतवदर्थच्छेदे, नि०चू०२० उ०व्या पाहुडपाहुड न०(प्राभृतप्राभृत) प्राभृतमिव प्राभृतम्। प्राभृतेषु चान्तर्गत प्राभूतं प्राभूतप्राभृतम। सू०प्र०१पाहु०१पाहु० पाहु०। प्राभृतान्तर्वर्तिनि अधिकारविशेषे, कर्म०१कर्म०। पाहुडपाहुडसमास पुं०(प्रामृतप्राभृतसमास) पूर्वान्तर्वर्तिनामधिकारविशेषाणां प्राभृतप्राभूतानां व्यदिसमुदाये, कर्म० १कर्म०। अनु०। पाहुडसमास पुं०(प्राभृतसमास) पूर्वान्तवर्त्यधिकारविशेषाणां प्राभूतानां द्व्यादिसमुदाये, कर्म० १कर्मा पाहुडसीलया स्त्री०(प्राभृतशीलता) कलहनसम्बन्धतायाम, स्था० ৪ঠা 40 पाहुडिया स्त्री०(प्राभृतिका) कस्मैचिदिष्टाय पूज्याय वा बहुभानपुरस्सरीकारेण यदभीष्ट वस्तु दीयते तत्प्राभृतमुच्यते, तदेव प्राभृतिका / प्रव०६७ द्वार। प्राभृतं कौशलिकं तदिवोपचारसाधयात् या भिक्षा सा प्राभृतिका / पञ्चा० १३विव०। प्राभृतमिव प्राभृतं साधुभ्यो देयं भिक्षाऽऽदिकं प्राभूतमेव प्राभूतिका। यद् वाप्र इति प्रकर्षण आ इति साधुदानलक्षणमर्यादया भृता निर्वर्तिता यका भिक्षा सा प्राभूता, सा स्वार्थिककप्रत्ययविधानात्प्राभृतिका। प्रव०६७ द्वार पिं०। कालान्तरभाविनो विवाहाऽऽदेरिदानी सन्निहिताः साधवः सन्ति तेषामप्युपयोगो भवत्विति बुद्ध्या इदानीमेव करणे, सन्निकृष्टस्य विवाहाऽऽदेः कालान्तरे साधुसमागमं संचिन्त्योत्कर्षणे च / ध०३अधि०। उद्गमदोषविशेषे च / आचा०२ श्रु०१चू०२अ०३उ०। स्था०। पं०चू० / पिं०। संप्रति प्राभृतिकाद्वारमभिधित्सुराहपाहुडिया वि हु दुविहा, वायर सुहुमा य होइ नायव्वा / उस्सकणमोसकण, कव्वट्ठीए समोसरणे // 25 // द्विविधा प्राभूतिका / तद्यथा-बादरा, सूक्ष्मा च / एकैकाऽपि द्विधा। / तद्यथा-अवष्यष्कणेन, उत्प्वष्कणेन च / सूत्रे चात्र विभक्तिलोप आर्षत्वात्, तत्रावष्वकणं स्वयोगप्रवृत्तनियतकालावधेराकरणम्, उत्ष्वष्करणं परतः करणम्। तत्र बादरप्राभृतिकाविषयमाह-(कव्वट्ठीए समोसरणे) इह समयपरिभाषया 'कट्वट्ठी' लध्वी दारिका भण्यते / तस्याः सत्कस्य,उपलक्षणमेतत्, पुत्राऽऽदेश्व सत्कस्य विवाहस्य अवष्वष्कणमुत्ष्वष्कणं वा समक्सरणे साधुसमुदायविषये / इयमत्र भावनासाधुसमुदायं यथाविहारक्रममायातं दृष्ट्वा कोऽपि श्रावकः चिन्तयति, यथा-ज्योतिर्विदोषदिष्टे विवाहदिने यदि विवाहःक्रियते, ततोऽवगिव सुविहितजनो विहारक्रमेण गमिष्यति, ततोन किमपि मदीयं विवाहसंभवं मोदकाऽऽदिक तन्दुलधावनाऽऽदि वोपकरिष्यते, तत एवं चिन्तयित्वा अर्वाक् विवाहं करोति। यदि वा-भूयान सुविहितजनो यथाविहारक्रममागच्छन् श्रूयते, विवाहश्च तदागमनादर्वाक्, ततो न किमपि तेषां मदीयमुपकरिष्यतीति, तत एवं विचिन्त्य परतो विवाहं करोति, इदं च विवाहस्यावष्वष्कणमुत्ष्वष्कणं वा कृत्वा यदुपस्क्रियते भक्ताऽऽदि, सा बादरा प्राभृतिका। संप्रत्यपसर्पणरूपां सूक्ष्मप्राभृतिका भाष्यकृत् गाथाद्वये नाऽऽहकत्तामि ताव पेखें, तो ते देहामि पुत्त ! मा रोव। तं जइ सुणेइ साहू,न गच्छए तत्थ आरंभो // 35|| अन्नट्ठ उठ्ठिया वा, तुज्झ वि देमि त्ति किं पि परिहरति / किह दाणि न उट्ठिहिसी, साहुपभावेण लब्भामो // 36 / / काचित्कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति-कृणन्मि तावदि पेलुं रूतपूणिका,कृष्णन्मीति 'कृदुपवेष्टने' इत्यस्यरौधादिकस्य प्रयोगः, ततः पश्चात् (ते) तुभ्यं दास्यामीति मा रोदीः, अत्रान्तरे च साधुरागतो यदि शृणोति तर्हि तत्र गृहे न गच्छति, न तत्र भिक्षा गृह्णातीत्यर्थः / मा भूत्साधुनिमित्त आरम्भो बालकभो-जनदानतदनन्तरहस्तधावनाऽऽदिरूपः / सा हि साध्वर्थमुत्थिता सती बालकस्यापि भोजनं ददाति, ततो हस्तधावनाऽऽदिनाऽप्कायाऽऽदिकं च विनाशयति। इह रूतपूणिकाकर्तनसमाप्त्यनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भोजने साधुनिमित्तमर्वागुत्थानेन यदर्वागेव बालस्य भोजनदानं तदवसर्पणम्। अथवा-गृहस्था कर्तनं कुर्वती भोजनं याचमान पुत्र प्रति वदति अन्यार्थमन्येन प्रयोजनेनात्थिता सती तवाऽपितुभ्यमपि किमपि स्वादिमाऽऽदि दास्यामि, अत्रान्तरे च साधुरागत एवं श्रुते परिहरति। अथवा तथाभूतगृहस्थावचनानाकर्णनेऽपि साधौ समागते यालको जननीं वदति-कथमिदानीं नोत्थास्यसि? समागतो ननु साधुस्ततोऽवश्यमुत्थातव्यं त्वया, तथा च सति साधुप्रभावेण वयमपि लप्स्यामहे, तत एवं बालकवचनं श्रुत्वा तया दीयमानं परिहरति, मा भूदवसर्पणरूपसूक्ष्मप्राभृतिकादोषः। संप्रत्युत्सर्पणरूपां सूक्ष्मप्राभृतिकांगाथाद्वयेनाऽऽहमा ताव झंख पुत्तय ! परिवाडीए इहेहि सो साहू।