________________ पक्खाभास 68 - अभिधानराजेन्द्रः - भाग 5 पक्खाभास आर्हतानां प्रतीतमेवार्थ प्रकाशयति। ते हि सर्दी जीवाऽऽदिवस्त्वनेकान्ताऽऽत्मकं प्रतिपन्नाः, ततस्तेषामवधारणरहितं प्रमाणवाक्यं, सुनयवाक्यं वा प्रयुज्यमानं प्रसिद्धमेवार्थमुद्भावयतीति व्यर्थस्तत्प्रयोगः / सिद्धसाधनः, प्रसिद्धसंबन्ध इत्यपि संज्ञाद्वयमस्याविरुद्धम्॥३६॥ द्वितीयपक्षाऽऽभासं भेदतो नियमयन्ति - निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानाऽऽगमलोकस्ववचनाऽऽदिभिः साध्यधर्मस्य निराकरणा-दनेकप्रकारः।।४।। प्रत्यक्षनिराकृतसाध्यधर्मविशेषणः, अनुमाननिराकृतसाध्यधर्मविशेषणः आगमनिराकृतसाध्यधर्मविशेषणः, लोकनिराकृतसाध्यधर्मविशेषणः,स्ववचननिराकृतसाध्यधर्मविशेषणः।आदि-शब्दात् स्मरणनिराकृतसाध्यधर्मविशेषणः, प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणः, तर्कनिराकृतसाध्यधर्मविशेषणश्चेति॥४०॥ एंषु प्रथम प्रकारं प्रकाशयन्तिप्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा-नास्ति भूतविलक्षण आत्मा।॥४१॥ स्वसंवेदनप्रत्यक्षेण हि पृथिव्यप्तेजोवायुभ्यः शरीरत्वेन परिणतेभ्यो भूतेभ्यो विलक्षणोऽन्य आत्मापरिच्छिद्यत इति। तद्विलक्षणाऽऽत्मनिराकरणप्रतिज्ञाऽनेन बाध्यते / यथाऽनुष्णोऽग्निः, इति प्रतिज्ञा बाह्येन्द्रियप्रत्यक्षेण // 41 // द्वितीयप्रकारं प्रकाशयन्तिअनुमाननिराकृतसाध्यधर्मविशेषणों यथा-नास्ति सर्वज्ञो, वीतरागो वा।।४।। अत्र हि यः कश्चिन्निर्हासातिशयवान्,स क्वचित्स्वकारणजनितनिर्मूलक्षयो यथा-कनकाऽऽदिमलो, निह सातिशयचती च दोषाऽऽवरणे इत्यनेनानुमानेन सुव्यक्तयैव,बाधा एतस्मात्खल्वनुमानाद्यत्र क्वचन पुरुषधौरेये दोषाऽऽवरणयोः सर्वथा प्रक्षयप्रसिद्धिः, स एव सर्वज्ञो वीतरागश्चेति / एवमपरिणामी शब्द इत्यादिरपि प्रतिज्ञा परिणामी शब्दः कृतकत्वान्यथानुपपत्तेरित्याद्यनुमानेन बाध्यमानाऽत्रोदाहरणीया।।४।। अथ तृतीय भेदमाहुःआगमनिराकृतसाध्यधर्मविशेषणो यथा-जैनेन रजनिभोजनं भजनीयम्।।४३|| 'अत्थं गयम्मि आइचे, पुरत्था य अणुग्गए / आहारमाइयं सव्वं, मणसाऽवि, न पत्थए।।१।।" इत्यादिना हि प्रसिद्धप्रामाण्येन परमागमवाक्येन क्षपाभक्षणपक्षः प्रतिक्षिप्यमाणत्वान्न साधुत्वमास्कन्दति / एवं जैनेन परकलत्रमभिलषणीयामित्याधुदाहरणीयम् // 43 / / चतुर्थ प्रकार प्रथयन्तिलोकनिराकृतसाध्यधर्मविशेषणो यथा-न पारमार्थिक: प्रमाणप्रमेयव्यवहारः॥४४॥ लोकशब्देनात्र लोकप्रतीतिरुच्यते / ततो लोकप्रतीतिनिराकृतसाध्यधर्मविशेषण इत्यर्थः। सर्वाऽपि हि लोकस्य प्रतीतिरीदृशी यत्पारमार्थिक प्रमाणं, तेन च तत्वातत्त्व विवेकः पारमार्थिक एवं क्रियते / ननु लोकप्रतीतिरप्रमाणं, प्रमाणं वा? अप्रमाणं चेत्, कथं तया बाधः कस्याऽपि कर्तुं शक्यः? प्रमाणं चेत्, प्रत्यक्षाऽऽद्यतिरिक्त, तदन्यतरद्वा। न तावदाद्यः पक्षः, प्रत्यक्षाऽऽद्यतिरिक्तप्रमाणस्यासंभवात। अन्यथा"प्रत्यक्षं च परोक्षं च / " इत्यादिविभागस्याऽऽसमञ्जस्याऽऽपत्तेः / द्वितीयपक्षे तु प्रत्यक्षनिराकृतसाध्यधर्मविशेषणाऽऽदिपक्षाभासेष्वेवास्यान्तर्भूतत्वात् नवाच्यः प्रकृतः पक्षाभास इति चेत्। सत्यमेतत, किंतु लोकप्रतीतिरत्रोत्कलितत्वेन प्रतिभातीति विनेयमनीषोन्मीलनार्थमस्य पार्थक्येन निर्देशः। एवं शुचि नरशिरःकपालप्रमुखं, प्राण्यङ्गत्वात्, शङ्खशुक्तिवदित्याद्यपि दृश्यम्॥४४॥ पञ्चमप्रकार कीर्तयन्तिस्ववचननिराकृतसाध्यधर्मविशेषणो यथा- नास्ति प्रमेयपरिच्छेदकं प्रमाणम् // 45 // सर्वप्रमाणाभावमभ्युपगच्छतः स्वमपि वचनं स्वाभिप्रयप्र-तिपादनपरं नास्तीतिवाचंयमत्वमेव तस्य श्रेयः;ब्रवाणस्तु नास्ति प्रमाणं प्रमेयपरिच्छेदकमितिस्ववचनं प्रमाणीकुर्वन् ब्रूत इति स्ववचनेनैवासौ व्याहन्यते, एवं निरन्तरमहं मौनीत्याद्यपि दृश्यमा ननु स्ववचनस्य शब्दरूपत्वातन्निराकृतसाध्यधर्मविशेषणः पक्षाभासः प्राग्गदिताऽऽगमनिराकृतसाध्यधर्मविशेषण एव पक्षाभासेऽन्तर्भवतीति किमर्थमस्य भेदेन कथनमिति चेत् / एवमेतत्. तथापि शिष्यशेमुषीविकाशार्थमस्यापि पार्थक्येन कथनमिति न दोषः। आदिशब्दसूचितास्तु पक्षाभासास्त्रयः स्मरणप्रत्यभिज्ञानतर्कनिराकृतसाध्यधर्माविशेषणाः। तत्र स्मरणनिराकृतसाध्यधर्मविशेषणो यथा, स सहकारतरुः फलशून्य इति, अयं पक्षः कस्यचित्सहकारतरुंफलभरभ्राजिष्णुं सम्यक् स्मर्तुः स्मरणेन बाध्यते। प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणो यथा, सदृशेऽपि क्वचन वस्तुनि कश्चन कानाधिकृत्योर्ध्वतासामान्यभ्रान्त्या पक्षीकुरुते, तदेवेदमिति। तस्यास्यं पक्षस्तिर्यक् सामान्यावलम्बिना तेन सदृशमिदमिति प्रत्यभिज्ञानेन निराक्रियते। तर्कनिराकृते साध्यधर्मविशेषणो यथा, यो यस्तत्पुत्रः, स श्याम इति ब्याप्तिः समीचीनेति / अस्याऽयं पक्षो यो जनन्युपभुक्तशाकाऽऽद्याहार-परिणामपूर्वकस्तत्पुत्रः, स श्याम इति व्याप्तिग्राहिणा सम्यक् तर्केण निरक्रियते // 4 // द्वितीय पक्षाभासं सभेदमुपदी तृतीयमुपदर्शयन्तिअनभीप्सितसाध्यधर्मविशेषणो यथा-स्याद्रादिनःशाश्वतिक एव कलशाऽऽदिरशाश्वतिक एव वेति बदतः॥४६|| स्याद्वादिनो हि सर्वत्रापि वस्तुनि नित्यत्वैकान्तः, अनित्यत्वैकान्तो वा नाभीप्सितः, तथाऽपि कदाचिदसौ सभाक्षोभाऽऽदिनैवमपि वदेत् / एवं नित्यः शब्द इति ताथागतस्य वदतः प्रकृतः पक्षाभासः / ये त्वप्रसिद्धविशेषणाप्रसिद्धविशेष्याप्रसिद्धोभयाः पक्षाभासाः परैः प्रोचिरे, नामी समीचीचीनाः / अप्रसिद्धस्यैव विशेषवस्य साध्यमानत्वात्, अस्यथा सिद्धसाध्यताऽवतारात् / अथाऽत्र सार्वत्रिकः प्रसिद्ध यभावो विवक्षितो न तु तत्रैव धर्मिणि, यथा सा ख्यस्य विनाशित्वं क्वागि धर्मिणि न प्रसिद्ध, तिरोभावमात्रस्यैव सर्वत्र तेनाभिधानात्। तदयुक्तम्। एवं सति क्षणिकतां साधयतो भवतः कथं नाप्रसिद्धविशेषणत्वं दोषा भवेत् ? क्षणिकतायाः सपक्षेक्वाप्यप्रसिद्धेः 1 विशेष्यस्य तु धर्मिणः सिद्धिर्विकल्पादपि प्रतिपादितेति कथमप्रसिद्धताऽस्य ? एतेनाप्रसिद्धोभयोऽपि परास्तः / / 46|| रत्ना०६ परि०।