________________ पासत्थ 911 - अभिधानराजेन्द्रः - भाग 5 पासत्थ पक्षस्तत्यक्षस्तत्रभवस्तत्पाक्षिकः,संविनपाक्षिक इत्यर्थः / तथा वर्णवादी लाघाकारी सुविहितानाम्। ततः किमित्याहपावस्स उवचियस्स वि, पडिसाडण मो करेति सो एवं / सव्वासिरोगिउवमा, सरए य पडे अविधुयम्मि / / 223 / / एवमनुना प्रकारेण संविग्नतर्पणाऽऽदिनाऽद्यापि पार्श्वस्थेन सता उपचय नीतं, तथाऽपि तस्योपचितस्यापि पापस्य परिशाटनभावं करोति / मो इति पादपूरणे, तेन तस्यैकपदस्य हासः। उक्ता पन्नतिलकदृष्टान्तभावना। एपमार्णवादिनः पार्श्वस्थस्य परिपूर्णप्रायश्चित्तदाने सर्वाशिरोगिण उपमा, या च शारदिके पटे वातविधूते सा च दृष्टान्तभावना भायितव्या। . संप्रति तामेव दृष्टान्तभावनामाहपुन्नो यऽथ ते किमिणो य, अणुवायं वहितो य उल्लो या केण वि सेवायपुत्तेणं, बुभुलइयं उलइयं सुणा ण *224 तदेवमितरः पार्श्वस्थः साधूनामप्रतर्पयिता, नच पापं कृत्वा तुतपति, यदपि च पापं कुरुते तदपि निर्दयः सन्, साधूनां वाऽवर्णभाषी, ततः सोऽन्यथा न शुध्यतीति तस्मै परिपूर्ण प्रायश्चित्तं दीयते, द्वितीयस्तु साधुप्रतर्पणाऽऽदिना बहु पापं क्षपितवान्, न च निर्दयः रान्नकरोत्पापमिति तस्य पदहासः। तदेव भावयतिथोवं भिन्नमासादिगाउ राइंदियाइँ जा पंच। सेसे उ पयं हसती, परितप्पिएँ एयरे सयलं / / 225 / / यदि नाम स्तोकं भिन्नभासाऽऽदिकादारभ्य यावत्पश्चरात्रिदिवानि एतानि समुदितान्येकतरं वा प्रायश्चित्तमापनस्तदा स एवमेवमुच्यते, तस्य साधुप्रतर्पणाऽऽदिना शुद्धीभूतत्वात् / यदि पुनर्भिन्न-मासस्योपरि प्रायश्चित्तमापन्नस्ततस्तस्मिन् शेषे तु प्रायश्चित्ते समापतिते सति पदमन्तिम प्रतपिते साधौ हसति, तस्य चान्तिमपदहासस्य भावना प्रागेव कृता, इतरस्मिन्साधूनामप्रतपिण्यवर्णवादिनि च सकलं परिपूर्ण प्रायश्चित्तं, तस्यानन्यथा शुद्ध्यभावात्। ततो न वयं रागद्वेषवन्तः / संप्रति पार्श्वस्थान् व्याख्यानयतिदुविहो खलु पासत्थो, देसे सव्वे य होइ नायव्वो। सव्वे तिन्नि विकप्पा, देसे सेजायरकुलादी॥२२६।। द्विविधो द्विप्रकारः खलु निश्चित पार्श्वस्थः। तद्यथा-देशे देशतः, सर्वस्मिन् सर्वतः पार्श्वस्थः। शब्दसंस्कारमाश्रित्यत्रयो विकल्पाः त्रयः प्रकाराः। तद्यथा-पार्श्वस्थः, प्रास्वस्थः,पाशस्थश्च / एते स्वयमेवाने वक्ष्यन्ते। देशे देशतः पार्श्वस्थः शय्यातरकुलाऽऽदिप्रतिसेवमानः। "तिणि विगप्पा" (226) इत्युक्तं तत्र प्रथमं प्रकारमाहदंसणनाणचरित्ते, तवे य अत्ताहितो पवयणे य। तेसिं पासविहारी, पासत्थं तं वियाणाहि।।२२७।। दर्शनं सम्यक्त्वं ज्ञानमाभिनिनोधिकाऽऽदि, चारित्रमाश्रवनिरोधः। एतेषां समाहारो द्वन्द्वः। तस्मिन्, तथा तपसि बाह्याऽऽभ्यन्तररूपे * इयं गाथा अलग्ना, असंगता, टीकातो भिन्नार्थिका चास्ति। द्वादशप्रकारे, प्रवचने च द्वादशाङ्गलक्षणे यस्याऽऽत्मा हतोपयुक्तो, न सम्यग्योगवानित्यर्थः / यदि वा-अभिहितस्तेषां, विराधकत्वात्, किंतु तेषा ज्ञानाऽऽदीनां पार्वे तटे विहरतीत्येवं शीलो विहारी, न तेषु झानाऽऽदिष्वन्तर्गत इत्यर्थः / रा पार्श्वस्थ इति जानीहि। ज्ञानाऽऽदीनां पार्श्वे तिष्ठतीति व्युत्पत्तेः / इह यद्यपि यो दुष्करमाश्रयनिरोध करोति स परमार्थतस्तपायुक्त एवेति वचनतश्चारित्रग्रहणेन तपोज्ञानग्रहणेन च प्रवचनं गतं तथापि तयोरुपादान मोक्ष प्रति प्राधान्य गतो व्याख्यानार्थ, भवति चतपो मोक्ष प्रति प्रधानमङ्ग, पूर्वसंचित कर्मक्षपणत्वात्प्रवचनं च विधेयोपदेशदायित्वादिति। उक्त एकः / प्रकारः। संप्रति द्वितीय प्रकारमाहदसणनाणचरित्ते, सत्थो अत्थति तहिं न उज्जमति। एएणं पासत्थो, एसो अन्नो वि पज्जाओ।।२२।। ज्ञानदर्शनचारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते, न पुनस्तत्र ज्ञानाऽऽदौ यथा उद्यच्छति उद्यमं करोति,एतेन कारणेनैष पार्श्वस्थ उच्यते। प्रकर्षणसमन्तात् ज्ञानाऽऽदिषु निरुद्यमतया स्वस्थः प्रास्वस्थ इति व्युत्पत्तेरेष खल्वन्यो द्वितीयोऽपि पर्यायः अपिशब्दः खल्वर्थे भिन्नक्रमश, स च यथास्थानं योजितः। उक्तो द्वितीयः प्रकारः। संप्रति तृतीयं प्रकारमाहपासो ति बंधणं ति य, एगटुंबंधहेयओ पासा। पासत्थिओं पासत्थो, अण्णो वि य एस पज्जाओ।।२२६।। पाश इति वा बन्धनमिति वा एकार्थम् / इह ये मिथ्यात्वाऽऽदयो बन्धहेतवरते पाशास्तेषु स्थितः पाशस्थः, पाशेषु तिष्ठतीति पाशस्थ इति व्युत्पत्तेः / एषोऽन्यः खलु तृतीयः पर्यायः / उक्तास्त्रयोऽपि प्रकारास्तगणनाच गणितः सर्वतः पार्श्वस्थः। इदानीं देशतः पार्श्वस्थं व्याचिख्यासुना यदुक्तम् - "सेजा यरकुलादी'' इति, तद् व्याख्यानयतिसेज्जायरकुल निस्सिय, ठवणकुल पलोयणा अमिहडे या पुट्विं पच्छा संथव, निइअग्गपिंडभोइ पासत्थो।।२३०|| यः शय्यातरपिण्ड भुक्ते, यानि च तस्य निश्रितान्याश्रितानि कुलानि तानि सततमुपजीवति / किमुक्तं भवति? यानि कुलानि प्रपन्नानि, तानि थेषु गामेषु नगरेषु वा वर नन्ति, तेषु गत्वा तेभ्य आहाराऽऽदिकमुत्पादयति। (ठवण ति) स्थापनाकुलानि निर्विशति / अथवा-यानि लोके गर्हितानि कुलानि स्थापितान्युच्यन्ते, तेषामपरिभोग्यतया जिनः स्थापितत्वात, तेभ्यः आहाराऽऽदिकभुत्पादयति / (पलोय त्ति) संखड्याः सततमाहारलौल्यतः प्रलोकना येन क्रियते, शरीरस्य वा शुभवर्णाऽऽदिनिरीक्षणार्थ प्रलोकना, तथा अभ्याहृतानि आचीर्णानाचीर्णाश्चाऽऽहारान् यो गृह्णाति, यश्च पूर्वसंस्तुतान् मातापित्रादीन् पश्चादसंस्तुतान वा करोति। तथा नित्यपिण्डमग्रपिण्डं च यो भुड्क्ते स देशतः पार्श्वस्थः। (नित्यपिण्डव्याख्या णितियपिंड' शब्दे चतुर्थभागे 2067 पृष्ठे गता)(अग्रपिण्डव्याख्या अग्गपिंड' शब्दे प्रथमभागे 165 पृष्ठे गता) ('अभिहड' शब्द प्र० भागे 731 पृष्ट विस्तरः) साम्प्रतमभ्याहृतपिण्ड नियतपिण्ड च व्याख्यानयतिआइण्णमणाइण्णं,निसीहऽभिहडं च नोनिसीहं च /