________________ पासत्थ 110 - अभिधानराजेन्द्रः - भाग 5 पासत्थ एमभीक्षणग्रहणे चतुर्गुरुकश्छदः, वर्ष यावदभीक्ष्णमुत्सवेषु ग्रहणे षड्गुरुकं छदः। अथ कस्मादुत्सवेषु कदाचिदभीक्ष्णं वा गहणे अधिकतरप्रायश्चित्तदानमत आहऊसववजेन गेण्हइ, निब्बंधा ऊसवम्मि गेण्हंति। अज्झोयरगादीया,इति अहिगा ऊसवे सोही॥२१६।। एष साधुरुत्सववर्जे उत्सवरहिते शेषे काले भिक्षां न गृह्णाति, उत्सवे पुनर्विपुलं भक्तपानं प्रासुकमुपलभ्य कथमपि निर्बन्धात् गाढाऽऽदरकरणात् गृह्णाति, ततोऽस्मै पर्याप्त दाव्यमिति किंचित् न अध्यवपूरकाऽऽदयो दोषाः संभवन्ति। आदिशब्दात् मिश्रकाऽऽदिदोषपरिग्रहः। इति अस्माद्धेतोरुत्सर्व अधिका बहुतरा शोधिः प्रायश्चित्तमिति / एवं उवट्ठियस्स य, पडितप्पिय साहुणो पदं हसति। चोएइ रागदोसे, दिटुंतो पण्णगतिलेहिं // 217 / / एवमुपदर्शितन प्रकारेण शय्यातरपिण्डाऽऽदि प्रतिसेव्य पुनरकरणतयोपस्थितस्य ग्लानाऽऽदिप्रयोजनेषु प्रतपिता भक्तपानप्रदानाऽऽदिना सोपष्टम्भीकृताः साधवो येन स प्रतप्पितसाधुस्तस्यपदं प्रतिसेवालक्षणं हसति / एवमेव मुच्यते / अयमत्र संप्रदायः-यदि पञ्चरात्रिंदिव दशरात्रिन्दिवं यावद्भिन्नमास इत्यापन्नो भवति, ततः स एवमेव मुच्यते, तस्य साधुप्रतर्पणनैव शुद्धिभावात् / अथ मासाऽऽदिकभापमस्तॉन्तिमं पदं हसति / तद्यथा-यदि द्वौ मासावापन्नस्तत एको मासो मुच्यते, एको दीयते / अथ त्रीन्मासान् तर्हि एको मासो मुच्यते द्वौ मासौ दीयते इत्यादि। अत्र एके रागद्वेषी चोदयन्ति- यथा यूयं रागद्वेषवन्तः। तथाहि- येन साधूनां प्रतिपितं तस्य पदमनुरागतो हासपथ, येन पुनर्न प्रतितप्पितं तस्य द्वेषतः सकलमपि प्रायश्चित्त परिपूर्ण प्रयच्छयासूरिराह-(दिट्टतो पण्णगतिलेहिं) न वयं रागद्वेषवन्तः। तथा चात्र दृष्टान्त उपमा / पन्नकतिलैः। तथाहि-पन्नकतिला नाम दुर्गन्धितिलाः ते स्थानद्वयेऽपि स्थापिताः। तत्रैके निम्बपुष्पैर्वासिता, अपरे स्वाभाविका एव स्थिताः। तत्र ये निम्बपुष्पैर्वासितास्तेषां दुरभिगन्धो बहुविधेनोपक्रमेणापनेतुं शक्यते, इतरेषां स्तोकेन / एवमिहापि ये स्वरूपतः पार्श्वस्थाः, अपरं च साधुसामाचारीप्रद्वेषतो ग्लानाऽऽदिप्रयोजनेषु साधूनामप्रतीषिणोऽवर्णमाषिणश्च ते महता प्रायश्चितन शुद्धिभासादयन्ति। ये तु पार्श्वस्था अपि कर्मलघुतया साधुसामाचारानुरागतः साधून ग्लानाऽऽदिप्रयोजनेषु प्रतर्पयन्ति श्लाघाकारिणश्व, ते रतोकापरावेन एवमेष शुद्ध्यन्ति / महापराधिनोऽन्तिमपदहासतः स्तोकेन प्रायश्चित्तेनेति / पन्नकतिलाश्वोपलक्षणं, तेन सर्वाश्वसर्वाशिरोगाभ्यां धौताधौतशारदघटाभ्यां पन्नकतिलेन चोपमा द्रष्टव्या। तथा सर्वमश्नातोत्यवंशीलः सर्वाशी बहुभक्षका, असर्वाशी अल्पभोजी; तत्र सर्वाशी रोगी कर्कशया क्रियया शुद्धिमासादयति, चसर्वाशी स्तोकया क्रियया। यथा वा द्वौ पटौ शारदौ, तत्रैको वाते वाति प्रतिदिवसं तेन वातेन धून्वते, अपरो न, एवं तयोर्द्वयोरपि कालक्रमेण मलिनीभूतयोः विधूतपटः यत्रीकेदोषक्रमेण शुद्धिमासादयत्वधिवूतपटो बहुनोपक्रमेण / एवं यः पार्श्वस्थः साधूनामवर्णभाषी स महता प्रायश्चित्तेन शुद्धिं लभते इति तस्मै परिपूर्ण प्रायश्चित्तं दीयते,इतरस्य तु साधूनां प्रतर्पणन वर्णभाषणेन च शुद्धिः संभवत्येतदर्थ-हास इति। साम्प्रतमेतदेव विवरीषुः परः प्रश्नं भावयतिजो तुब्भं पडितप्पइ, तस्सेगं ठाणगं तु हासेह / वड्ढे ह अपडितप्पे, इइ रागहोसिया तुम्भे // 218 / / यो युष्माक प्रतितप्पयति उपकारं करोति तस्य एकं स्थानकमन्तिमलक्षणं प्रागुक्तस्वरूपं हासयथ, यः पुनर्न प्रतितर्पयति तस्मिन्नप्रतितर्पित तदेकस्थानकमन्तिमलक्षणं वर्द्धयथ, परिपूर्ण तस्मै प्रायश्चित्तं दत्थ इत्यर्थः / इत्येवममुना प्रकारेण यूयं रागद्वेषिका रागद्वेषवन्तः। ___ संप्रति यदुक्तम् "पन्नकतिलैर्दृष्टान्तः' इति तद्भावयतिइहरह वि ताव चोयग!, कंडुयं तेल्लं तु पन्नगतिलाणं / किं पुण निंबतिलेहिं, भाविययाणं भवे खज्जं / / 216 / / इतरथाऽपि निम्बकुसुमाऽऽदिवासनामन्तरेणाऽपि तावत् हे चोदक! पन्नकतिलाना तैलं कटुकमेव, तुरेवकारार्थो भिन्नक्रमश्च, न खाद्य भवतीति भावः। किं पुनस्तेषां पन्नकतिलाना स्वतिलैः, तिलानि इव सूक्ष्मत्वात् तिलानि कुसुमानि, स्वस्य तिलानि स्वतिलास्तैर्निम्बकुसुमै रित्यर्थः / भाविताना वासितानां तैलं खाद्यं भवेत्? नैव भवेदित्यर्थः / एष दृष्टान्तः। अयमर्थापनयःएवं सो पासत्थो, अवण्णवादी पुणो य साहूणं। तस्स य महती सोही, बहुदोसो सोत्थओ चेव / / 220 / / एवं शोधिकृतःसाधुरेकं तावत्पार्श्वस्थसमाचारकारी पुनः साधूनामवर्णवादी, साधुसमाचारप्रद्वेषात् / ततस्तस्य तथारूपस्य महती शुद्धिः प्रायश्चित्त, यतः सोऽत्र प्रायश्चित्तदानविधौ परिचिन्त्यमानो बहुदोश एव भवति वर्तते / तदेवप्रशस्ततिलैरुपनयः कृतः। संप्रति प्रशस्ततिलैस्तमभिधित्सुराहजह पुण ते चेव तिला, उसिणोदगधोयखारउव्वक्का। तेसिं जं तेल्लं तं, घयमाडं पी विसेसेइ / / 221 / / यथा पुनस्त एव पन्नकतिला उष्णोदकेन पूर्व धौतास्तदनन्तरं क्षीरेण दुग्धेन (उचक्का) क्षीरमध्ये प्रक्षिप्य कियत्काल धृत्वा ततो निष्काशिताः, तेषा यत्तैलं तद घृतमाडमपि विशेषयति, ततोऽप्यधिकतरं भवतीति भावः। एष दृष्टान्तः। अयमर्थोपनयःकारणे संविग्गाणं, आहारादीहिँ तप्पितो जो उ। नीयावताणुतप्पी, तप्पक्खिय वण्णवादी य।।२२२॥ यः कारणेष्वशिवावमौदर्याऽऽदिषु संविनानां सुसंवतानामाहाराऽऽदिभक्तपानौषधाऽऽदिभिस्तर्पितः प्रतर्पणं कृतवान्, तथा यः संविनानां नीचैर्वृत्तिर्वर्तन यस्य स तथा / किमुक्त भवति? स तान्वन्दते, न पुनर्वन्दापयति / तथा अकल्प किमपि प्रतिसेव्य अनुपश्चात् हा दुष्ट कारितमित्यादिरूपेण तपतिसन्तापमनुभवतीत्येवंशीलोऽनुतापी।तथा तेषांसंविनानां