________________ पास 602 - अभिधानराजेन्द्रः - भाग 5 पास किरणवेगदेवोऽपि ततः च्युत्वा इहैव जम्बूद्वीपेऽपरविदेहे सुगन्धविजये | शुभकरानगर्या वज़वीर्यराज्ञो विमता (?) या भाया वज्रनाभनामा पुत्रः समुत्पन्नः, सोऽपि तत्र क्रमाऽऽगतं राज्यमनुपाल्य दत्तचक्राऽऽयुधनामस्वपुत्रराज्यः क्षेमंकरजिनसमीपे प्रव्रजितः,तत्र विविधतपोविधानेन बहुलब्धिसम्पन्नो गतः सुकच्छविजयं, तत्राप्रतिबद्धविहारेण विहरन सम्प्राप्तो ज्वलनगिरिसमीपं, दिनेऽस्तमिते तत्रैव कायोत्सर्गेण स्थितः, प्रभाते ततश्चलितोऽटव्यां प्रविष्टः। इतश्च स महोगनायकः पञ्चमपृथिवीत उद्वृत्त्य कियन्तं संसार भ्रान्त्वा तस्यैव ज्वलनगिरिसमीपे भीमाटव्यां जातो वनेचरश्वा-ण्डालः, तेनाऽऽखेटकनिमित्तं निर्गच्छता दृष्टः प्रथम स साधुः, ततः पूर्वभववैरवशतोऽपशकुनोऽयमिति कृत्वा वाणेन बिद्धः, तेन विधुरीकृतवेदनो विधिना मृत्वा वज्रनाभो मुनिर्मध्यमवेयके ललिताङ्गो नाम देवो जातः, सोऽपि चाण्डालवनेचरस्तं विपन्नं महामुनिं दृष्ट्वा अहोऽहं महाधनुर्धर इति मन्यमानो निकाचितक्रूरकर्मा कालेन मृत्वा सप्तमे नरके नारकत्वेन समुत्पन्नः, वज्रनाभदेवस्ततश्च्युत इहैव जम्बूद्वीपे पूर्वविदेहे पुराणपुरे कुलिशबाहुराज्ञः सुदर्शनादेव्याः कनक प्रभो नाम पुत्रो जातः, स च क्रमेण चक्रवर्ती जातः, अन्यदा प्रासादोपरि संस्थितेन आकाशे निर्गच्छन् देवसङ्घातो दृष्टः, तद्दर्शनादेव विज्ञातं जगन्नाथतीर्थङ्करागमः, स्वयं निर्गतस्तद्वन्दनार्थ, वन्दित्वा च तत्रोपविष्टस्य तस्य पुरतो भगवता देशना कृता, तां च श्रुत्वा हृष्टश्चक्रवर्ती वन्दित्वा स्वनगर्या प्रविष्टः, अन्यदा कनकप्रभनामा चक्रवर्ती तां तीर्थंकरदेशनां भावयन् जातजातिरम्मरणः पूर्वभवान् दृष्ट्वा भवविरक्तचित्तः प्रव्रजितः, इतश्च स क्रमेण विहरन्नसौ क्षीरवानाटव्यां क्षीरपर्वते सूर्याऽभिमुखं कायोत्सर्गेण स्थितः / इतश्वस चाण्डालवनचरस्ततो नरकादुद्वृत्य तस्यामेवाटव्यां क्षीरपर्वतगुहायां सिंहो जातः, स च भ्रमन् कथमपि संप्राप्तः मुनिसमीपे, ततः समुच्छलितपूर्ववैरणे तेन विनाशितः स मुनिः, समाधिना कालं कृत्वा निबद्धतीर्थङ्करनामकर्मा प्राणतकल्पे महाप्रभे विमाने उत्पन्नो विंशतिसागरोपमायुर्देवः, सोऽपि सिंहो बहुलसंसारं भ्रान्त्वा कर्मवशाग्राह्यणो जातः / तत्रापि पापोदयवशेन जातमात्रस्य पितृमातृभ्रातृप्रमुखः सकलोऽपि स्वजनवर्गः क्षयं गतः, स च दयापरेण लोकेन जीवितः संप्राप्तयौवनोऽपि कुरूपो दुर्भगो दुःखेन वृत्तिं कुर्वन वैराग्यमुपगतो वने कन्दमूलफलाऽऽहारस्तापसो जातः, करोति बहुप्रकारम् अज्ञानतपोविशेषम्। इतश्च स कनकप्रभचक्रवर्तिदेवः प्राणतकल्पात् चैत्रकृष्णचतुर्थ्यां च्युत्वा इहैव जम्बूद्वीपे भारते क्षेत्रे काशीदेशे वाराणस्या नगर्यामश्वसेनस्य राज्ञो वामादेव्याः कुक्षौ मध्यरात्रिसमये विशाखानक्षत्रे त्रयोविंशतितमतीर्थङ्करत्वेन समुत्पन्नः, तस्यामेव रात्रौ सा वामादेवी चतुर्दश स्वप्नान् ददर्श, निवेदयामास च राज्ञः, तेनापि राज्ञा अतीवाऽऽनन्दमुबहता भणितम्-प्रिये ! सर्वलक्षणसम्पूर्णः शूरः सर्वकलाकुशलस्तव पुत्रो भविष्यति, तद्वचः श्रुत्वा सुष्टुतरं परितुष्टा, सा, प्रभाते च राज्ञा स्वप्नपाठकानाहूय तान् यथार्थानाचख्यौ / तेऽपि पूर्णस्वप्नाध्यायं सविस्तरमाख्याय चतुर्दश स्वप्रानां फलमेवमाहुःतीर्थकरमाता चक्रवर्तिमाता वा एतांश्चतुर्दशस्वप्नान् पश्यति, ततोऽस्याः / कुक्षौ तीर्थङ्करश्चक्री वा समुत्पन्नोऽस्तीति स्वनानुसारेण पूर्णेषु मासेषु शुभवेलायां भगवान् जातः, षट्पञ्चाशदिक्कुमारीभिर्जन्ममहोत्सवः पूर्व कृतः,ततः स्वासनकम्पाद्विज्ञातभगवज्जन्माभिषेकः शक्रर्मेरुशिरसि जन्माभिषेकः कृतः, प्रभाते चाश्वसेनोऽपि नगरान्तईशाहिकोत्सव कृतवान्, अस्मिन् गर्भस्थिते भगवति जनन्याः पार्श्वे गच्छन् सर्पोरात्री दृष्टस्ततोऽस्य पार्श्व इति नाम कृतं, ततः कल्पतरुवजनाऽऽनन्दकः स भगवान वृद्धि प्राप, अष्टवार्षिकश्च भगवान् सर्वकलाकुशलो बभूव / अथ भगवान् सर्वमनोहरं यौवनं प्राप, पित्रा च तदानीं प्रभावती कन्या परिणायितः, भगवान् तया सम विषयसुखं बुभुजे, अन्यदा भगवता प्रासादोपरि गवाक्षजालस्थेन दिगवलोकनं कुर्वता दृष्टो नगरलोकः प्रवरकुसुमहस्तो बहिर्गच्छन्, पुष्ट च भगवता कस्यचित्पावर्त्तिनः-भो! किमद्य कश्चित्पर्वोत्सवोऽस्ति, येनैष जनः पुष्पहस्तो बहिर्गच्छन्नस्ति। तेन पुरुषेणोक्तम्- अद्य कोऽपि पर्वोत्सवो नास्ति किं तु कमठो नाम महातपस्वी पुरा बहिः समागतोऽस्ति, तद्वन्दनार्थं प्रस्थितोऽयं जनः, ततस्तद्वचनमाकर्ण्य जातकौतुकविशेषो भगवान् तत्र गतः,पञ्चाग्नितपः कुर्वाणं कमळं दृष्टवान्, त्रिज्ञानवता भगवता ज्ञात एकस्मिन्ननिकुण्डे प्रक्षिप्तातीवमहत्काष्ठमध्ये प्रज्वलन् सर्प उत्पन्नपरम करुणेन भगवता भणितम्- अहो कष्टमज्ञानं यदीदृशेऽपि तपसि क्रियमाणे दया न ज्ञायते। ततः कमठेन भणितम्-राजपुत्राः कुञ्जरतुरङ्गाऽऽश्रममेव जानन्ति, धर्म तु मुनय एव विदन्तीति। ततो भगवता एकस्य स्वपुरुषस्य एवमादिष्टम्अरे ! इदमग्निमध्ये प्रक्षिप्तं काष्ट कुठारेण द्विधा कुरु तेन पुरुषेण तत्काष्ठं द्विधा कृतं, तत्र दृष्टो दह्यमानः सर्पः, तस्य भगवता स्ववदनेन पञ्चपरमेष्ठिनमस्काराः प्रदापिताः, नागोऽपि तत्प्रभावान्मृत्वा समुत्पन्नो नागलोके धरणेन्द्रो नाम नागराजः, लोकैश्च अहो भगवतो ज्ञानशक्तिरिति भणिद्भिमहान सत्कारः कृतः, ततो विलक्षीभूतः कमठपरिव्राजको गाढमज्ञानतपः कृत्वा मेघकुमारनिकायमध्ये समुत्पन्नो मेघमाली नाम भवनवासी देवः; अन्यदा सुखेन तिष्ठतो भगवतो वसन्तसमयः समागतः, तापनार्थम् उद्यानपालेन सहकारमञ्जरी भगवतः समर्पिता, भगवता भणितम् - भोः किमेतत्? स आह-भगवन् ! बहुविधक्रीडानिवासो वसन्तसमयः प्राप्तः, ततो मित्रप्रेरितः श्रीपार्श्वकुमारो वसन्तक्रीडानिमित्तं बहुजनपरिवारसमन्वितोयानाऽऽरूढो गतो नन्दनवन, तत्र यानात्समुत्तीर्य निषन्नो नन्दनवनप्रासादमध्यस्थितकनकमयसिंहासने अतिरमणीयं नन्दनवन सर्वतः पश्यन् भित्तिस्थं परमं रम्य चित्रं दृष्ट्वा अहो किमत्र लिखित ज्ञानमिति सम्यग निरूपयता भगवता दृष्टम्-अरिष्टनेमिचरित्रम् . ततश्चिन्तितुं प्रवृत्तः-धन्यः सोऽरिष्टनेमियों विरसावसानं विषयसुखमाकलय्य निर्भरानुरागां निरुपमरूपलावण्यां जनकवितीर्णा राजकन्या च त्यक्त्वा भग्नमदनमण्डलप्रचारः कुमार एव निष्क्रान्तः, ततोऽहमपि करोमि सर्वसङ्गपरित्यागम् / अत्रान्तरे लोकन्तिका देवास्तत्राऽऽगत्य भगवन्तं प्रतिबोधयन्तिस्म, ततो मार्गणगणस्य यथेप्सितं साम्वत्सरिकदानं दत्त्वा भगवान् मातृपित्राद्यनुज्ञया महामाहतत् 'अरिडणेमि' शब्दे प्रथमभागे 762 पृष्ठे गतम्।