________________ पास 868 - अभिधानराजेन्द्रः - भाग 5 पास न्तीति कञ्चित्पप्रच्छ, स आह, प्रभो ! कुत्रचित्सन्निवेशे वास्तव्यो दरिद्रो मृतमातापितृको ब्राह्यणपुत्रः कृपया लोकै र्जीवितः कमठनामा, सच एकदा रत्नाऽऽभरणभूषितान् नागरान् वीक्ष्य अहो एतत्प्रागुजन्मतपसः फलमिति विचिन्त्य पञ्चान्यादिमहाकष्टार्थी तपस्वी जातः, सोऽयं पुर्या बहिरागतोऽस्तितं पूजितुं लोका गच्छन्तीति निशम्य प्रभुरपि सपरिवारस्तंद्रष्टुं ययौ। तत्र काष्ठान्तर्दह्यमानं महासर्प ज्ञानेन विज्ञाय करुणासमुद्रो भगवानाह–अहो मूढ तपस्विन् ! किं दयां विना वृथा कष्टं करोषि, यतः"कृपानदीमहातीरे, सर्वे धर्मास्तृणाकुराः / तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिरम् ? / / 1 / / '' इत्याकर्ण्य क्रुद्धः कमठोऽवोचत्-राजपुत्रा हि गजाश्वाऽऽदिक्रीडा कर्तुं जानन्ति, धर्म तु वयं तपोधना एव जानीमः / ततः स्वामिनाऽग्निकुण्डात् ज्वलत्काष्ठम् आकृष्य कुठ रेण द्विधा कृत्या वतापव्याकुलः सर्पो निष्कासितः,सच भगवन्नियुक्तपुरुषमुखान्नमस्कारान् प्रत्याख्यानं चव निशम्यतत्क्षणं विपद्य धरणेन्द्रो जातः, अहो ज्ञानीति जनैः स्तूयमानः स्वामी स्वगृहं ययौ, कमठोऽपि तपस्तप्त्वा मेघकुमारेषु मेघमाली जातः।।१५४|| पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगारवासमज्झे वसित्ता पुणरवि लोयंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इटाहिंजाव एवं बयासी॥१५५।। (पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (दक्खे दक्खप्पइन्ने) दक्षः दक्षप्रतिज्ञः दक्षा प्रतिज्ञा यस्य (पडिरूवे अल्लीणे भद्दए विणीए) रूपवान् गुणैरालिङ्गितः भद्रकः विनयवान (तीसं वासाई अगार वारामज्झे वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरवि लोयंतिएहिं) पुनरपि लोकान्तिकाः (जिअ-कप्पिएहिं देवहि) जीतकल्पिकाःदेवाः (ताहि इटाहिं जावएवं बयासी) ताभिः इष्टाभिर्वाग्भिः यावत् एवम् अवादिषुः॥१५॥ "जय जय नंदा, जय जय भद्दा,"oजावजयजयसपउंजंति // 156|| (जय जय नंदा जयजय भवाजाव जयजयस पउंति) जयजयवान् भव, हे समृद्धिमन् ! जयजयवान् भव, हे काल्याणवन् ! यावत् जयजयशब्द प्रवुजन्ति // 15 // पुट्विं पिणं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे अ होइए तं चेव सव्वं जाव दाण दाइयाणं परिभाइत्ता जे से हेमंताणं दुचे मासे तचे पक्खे पोसबहुले तस्स णं पोसबहुलस्स इक्कारसीदिवसेणं पुव्वण्हकालसमयंसि विसालए सिविआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे तं चेव सव्वं, नवरं वाणारसिं नयरिं मज्झं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठवेइत्ता सीयाओ पचोरुहइ, पचोरुहइत्ता सयमेव आभरणमल्लालंकारं ओमुअइ, ओमुअइत्ता सयमेव पंचमुट्ठिअं लोअं करेइ, करेइत्ता अदुमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता आगाराओ अणगारियं पब्वइए / / 157|| (पुस्विं पिणं पासस्स अरहओ पुरिसादाणीयस्स) पूर्वमपि पावस्य अर्हतः पुरुषादानीयस्य (माणुस्सगाओ) मनुष्ययोग्यात् (गिहत्थधम्माओ) गृहस्थधर्मात् (अणुत्तरे आहोइए) अनुपमम् उपयोगाऽऽत्मकन् अवधिज्ञानमभूत (तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता) तदेव सर्वं पूर्वोक्तं वाच्यं, यावत् धनं गोत्रिणो विभज्य दत्त्वा (जे से हेमताण) योऽसौ शीतकालस्य (दुच्चे मासे तच्चे पक्खे) द्वितीयो मासः तृतीयः पक्षः (पोसवहुले) पौषस्य कृष्णपक्षः (तस्सणं पोसबहुलस्स इमारसीदिवसेणं) तस्य पौषबहुलस्य एकादशीदिवसे (पुव्वण्ह कालसमयंसि) पूर्वाह्नकालसमये प्रथमप्रहरे (विसालाए सिबिआए) विशालायां नाम शिविकायां (सदेवमणुआसुराए) देवमनुष्यासुरसहितया (परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानं प्रभुमग्रतः (तं चेव सव्वं नवरं) सर्वतदेव पूर्वोक्तं वाच्यम्, अयं विशेषः (वाणारसिं नगरिमझमज्झेणं निगच्छइ) वाराणस्या नगर्या मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव आसमपए उज्जाणे) यव आश्रमपदनामकमुद्यानम् (जेणेव असोगवरपायवे) यत्रैव अशोकनामा वृक्षः(तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवगच्छित्ता) उपागत्य (असोगवरपायवस्स अहे) अशोकवृक्षस्य अधस्तात् (सीयं ठावेइ) शिविकां स्थापयति (ठविता) संस्थाप्य (सीयाओ पचोरुहइ) शिबिकातः प्रत्यवतरति (पचोरुहिता) प्रत्यवतीर्य (सयमेव आभरणमल्लालंकार ओमुअइ) स्वयमेव आभरणमालालङ्कारान् अवमुञ्चति (ओमुइ त्ता) अवमुच्य(सयमेव पंचमुडियं लोअ करेइ) स्वयमेव पञ्चमौष्टिक लोचं करोति (करित्ता) लोचं कृत्वा (अट्टमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन जलरहितेन (विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगमुपागते सति (एग देवदूसमादाय) एकं देवदूष्यं गृहीत्वा (तिहिं पुरिससएहिं सद्धि मुंडे भवित्ता) त्रिभिः पुरुषशतैः सार्द्ध मुण्डो भूत्वा (अगाराओ अणगारियं पध्वइए) गृहान्निष्क्रम्य साधुतां प्रतिपन्नः / / 157 / / पासे णं अरहा पुरिसादाणीए ते सीइं राइंदियाइं निच्चं वोसट्ठकाए चियत्तदेहे, जे केइ उवसग्गा उप्पजति / तं जहादिव्वा वा,माणुस्सा वा, तिरिक्खजोणिआ वा, अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ तितिक्खइ खमइ अहियासेइ।।१५८|| (पासे णं अरहा पुरिसादाणीए) पार्श्व: अर्हन पुरुषा