________________ पावसमण 853 - अभिधानराजेन्द्रः - भाग 5 पावसुयपसंग अरए य तवोकम्मे, पावसमणि त्ति वुच्चई / / 15 / / अत्यंतम्मि य सूरम्मि, आहारेइ अभिक्खणं। चोइओ पडिचोएइ, पावसमणि त्ति वुच्चई।१६।। आयरियपरिचाई, परपासंडसेवए। गाणंगणिए दुब्भूए, पावसमणि त्ति वुचई / / 17 / / दुग्धं, क्षीरं,दधि च तद्विकार एव, दधिदुग्धे, सूत्रे च व्यत्ययः प्राग्वत्, विकृतिहेतुत्वात् विकृती, उपलक्षणत्वात्, घृताऽऽद्यशेषविकृति-परिग्रहः, आहारयत्यभ्यवहरति, अभीक्ष्णं वारं वारं, तथा--विधपुष्टाऽऽलम्बन विनापीति भावः / अत एवारतश्चाप्रीतिमांश्च तपःकर्मण्यनशनाऽऽदी, शेष प्राग्वत् / अपि च-(अत्यंतम्मि यत्ति) अस्तान्ते अस्तमयपर्यन्ते, चः यूररणे, उदयादारभ्येति गम्यते / सूर्य भास्वत्याहारयत्यभीक्ष्णम् / किमुक्तं भवति?प्रातरारभ्य संध्या यावत् पुनः पुनर्भुक्ते, यदि वा(अत्तम्मि यत्ति) अस्तमयति सूर्ये आहारयति,तिष्ठति तु किमुच्यत इति भावः। किमेक-दैवेत्याह अभीक्ष्णं पुनः पुनर्दिने दिने इत्युक्तं भवति / यदि चाऽसौ केनचित् गीतार्थसाधुना चोद्यते, यथाऽऽयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते?, दुर्लभा खल्वियं मनुजत्वाऽऽदिचतुरङ्गसाग्री, ततः। एनामवाप्य तपस्येवोद्यन्तुमुचितमिति / ततः किमित्याह-(चोइओ पडिचोएइ त्ति) चोदितः सन् प्रतिचोदयति, यथाकुशलत्वमुपदेशकर्मणि न तु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान्न विकृष्ट तपोऽनुतिष्ठति? शेषं तथैव / आचार्यपरित्यागी,ते हि तपःकर्मणि विषीदन्तमुद्यमयन्त्यानीतमपि चान्नाऽऽदि बालग्नानाऽऽदिभ्यो दापयन्त्यतोऽतीवाऽऽहारलौल्वात्तत्परित्यजनशीलः परानन्यान् पाषण्डान् सौगतप्रभृतीन 'मृद्वी शय्या प्रातरुत्थाय पेया,'' इत्यादिकदभिप्रायतोऽत्यन्तमाहारप्रसक्तांस्तत एव हेतोः सेवते तथा तथाऽपसर्पतीतिपरपाषण्डसेवकः, तथा च स्वेच्छाप्रवृत्ततया (गाणंगणिए त्ति) गणाद् गणं षण्मासाभ्यन्तर एव संक्रामतीति गाणंगणिक् इत्यागनिकी परिभाषा / तथा चाऽऽगमः-"छम्मासऽभंतरतो गणा गणं संकमं करेमाणो।'' इत्यादि। अत एव च दुर्निन्दायां, ततश्च दुरिति निन्दितं, भूतभवनमस्येति दुर्भूतो, दुराचारतया निन्द्यो भूत इत्यर्थः, अपरं तथैवेति सूत्रत्रयाऽर्थः। संप्रति वीर्याऽऽचारविरहतः तमेवाऽऽहसयं गेहं परिचञ्ज, परगेहंसि वावरे। निमित्तेण य ववहरई, पावसमणि त्ति धुचई // 18 // सण्णाइपिंडं जेमेइ, निच्छई सामुदाणियं / गिहिनिसिज्जं च वाहेइ, पावसमणि त्ति धुबइ / / 16 / / स्वमेव स्वक, निजकमित्यर्थः / गेहं गृहं, परित्यज्य परिहृत्य, प्रव्रज्याङ्गीकरणतः परगेहेऽन्यवेश्मनि (वावरि त्ति) व्याप्रियते पिण्डाीं सन् गृहिणामात्मभाव दर्शयन् स्वतस्तत्कृत्यानि कुरुतेः पठ्यते च(यवहरि त्ति) तत एव हेतोर्व्यवहरति गृहिनिमित्तं क्रय-विक्रयव्यवहार करोति, निमित्ते न च शुभाशुभसूचकेन व्यवहरति द्रव्यार्जनं करोति, अपरं च पूर्ववत्। अपि च-सन्नाय त्ति स्वज्ञातयः स्वकीयस्वजनास्तैर्नि जक इति यथेप्सितो यः स्निग्धंमपुराऽऽदि-राहारो दीयते स स्वज्ञातिपिण्डस्तं (जेमति त्ति) भुक्ते, नेच्छति नाऽभिलवति समुदानानिभिक्षास्तेषां समूहः सामुदानिकम्, "अचित्तहस्तिधेनोष्ठक्" / / 4 / 2 / 47 / / इति ठक / बहुगृहसंबन्धिनं भिक्षासमूहमज्ञातोञ्छमिति यावत्, गृहिणां निषद्या पर्यङ्कतूल्यादिका शय्या, तां च वाहयति सुखशीलतया आरोहति, शेषं तथैवेति सूत्रद्वयार्थः / संप्रत्यध्ययनार्थमुपसंहरन्नुक्तरूपदोषाऽऽसेवनपरिहारयोः फलमाहएयारिसे पंचकुसीलसंवुडे, रूवं धरे मुणिपवराण हेडिमे / अयंसि लोए विसमेवगरहिए, ण से इहं नेव परम्मि लोए॥२०॥ जो वज एए उसया उ दोसे, से सुव्वए होइ मुणीण मज्झे। अयंसि लोए अमयं व पूइए, आराहए दुहओलोगमिणं (तहा परे) // 21 // एतादृशो यादृश उक्तः- (पंचे त्ति) पञ्चसंख्यः कुत्सितं शीलमेषां कुशीलाः पार्श्वस्थाऽऽदयः समाहृताः पञ्चकुशीलं तद्वदसंवृतः अनिरुद्धाऽऽश्रवद्वारः पञ्चकुशीलासंवृतो, रूपं रजोहरणाऽऽदिकं वेषं धारयति, रूपधरः, सूत्रे तु प्राकृतत्वाद्विन्दुनिर्देशः / मुनिप्रवराणामतिप्रधानतपस्विनाम्- (हिडिमो त्ति) अधस्ताद्वर्ती, अतिजघन्यसंयमस्थानवर्तित्वान्निकृष्ट इत्यर्थः / एतत्फलमाह-(अयसि त्ति) अस्मिन् लोके जगति विषमिवेति गरल इव गर्हितो निन्दितः; भ्रष्टप्रतिज्ञो हि प्राकृतजनैरपि निन्द्यतेधिगेनमिति। अत एव न स इहेति इहलोके, नैवेति नाऽपि परश्र लोके, परमार्थतः सन्निति शेषः, यो हि नैहिककमामुष्मिकं वा कशन गुणमुपार्जयति स तद्गणनायामप्रवेशतस्तत्त्वतोऽविद्यमान एवेति। यो वर्जयति परित्यजत्यैतानुक्तरूपान् (सया उ त्ति) सदैव दोषान् यथासुखविहाराऽऽदिपापाऽनुष्ठानरूपान् स तथाविधः सुव्रतो निरतिचारतया प्रशस्यव्रतो भवति मुनीनां मध्ये। किमुक्तं भवति?भावतो मुनित्वेनाऽसौ मुनिमध्ये गण्यते, तया वाऽस्मिन् लोके अमृतमिव सुरभोज्यमिव पूजितोऽभ्यर्हितं आराधयति (दुहतो लोगमिण ति) इहलोकपरलोकभेदेन द्विविध लोकम् (इणं ति) इममनेन चाऽतिप्रतीततया प्रत्यक्षं निर्दिशतीति, इहलोके सकललोकपूज्यतया परलोके च सुगत्यवाप्तेः, ततः पापवर्जनमेवं विधेयमिति भाव इति सूत्रद्वयाऽर्थः / उत्त०१७अ० पावसमणिज न०(पापश्रमणीय) पापश्रमणस्वरूपोपदर्शके, सप्तदशे उत्तराध्ययने, उत्त०१७अ०। पावसुमिण पुं०(पापस्वप्न) दुःस्वप्ने, कल्प०१अधि० ३क्षणा पावसुय न०(पापश्रुत) पापोपादानहेतौ शास्त्रे, स्था०६ ठा०। आव०। पावसुयपसंग पुं०(पापश्रुतप्रसङ्ग) पापोपादानहेतुः श्रुतं तत्र प्रसङ्गस्तथा सेवारूपो विस्तरो वा सूत्रवृत्तिकरूपः पापश्रुतप्रसङ्गः। उत्पात्ताऽऽदिले पापश्रुते,स्थान