________________ पावसमण 882 - अभिधानराजेन्द्रः - भाग 5 पावसमण (खिंसइ त्ति) निन्दति बालो विवेकविकलो गम्यमानत्वाद्यः स पापश्रमण इत्युच्यते इति सूत्राऽर्थः। इत्थं ज्ञानाऽऽचारनिरपेक्ष पापश्रमणमभिधाय दर्शनाऽऽचारनिरपेक्ष तमेवाऽऽहआयरियउवज्झायाणं, सम्मं नो पडितप्पई। अप्पडिपूयए थद्धे, पावसमण त्ति वुधई / / 5 / / आचार्योपाध्यायानां सम्यगवैपरीत्येन न परितप्यते न तत्तप्ति विधत्ते दर्शनाऽऽचारान्तर्गतवात्सल्यविरहितो न तत्कार्येष्वभियोगं विधत्ते इति भावः / अप्रतिपूजकः प्रस्तावादहंदादिषु यथोचितप्रतिपत्तिपराङ्मुखः स्तब्धो गर्वाऽऽध्मातः केनचित्प्रेर्यमाणोऽपि न तद्वचनतः प्रवर्त्तते यः स पापश्रमण इत्युच्यत इति सूत्राऽर्थः। सम्प्रति चारित्राऽऽचारविकलं तमेवाऽऽहसम्मघमाणे पाणाणि, बीयाणि हरियाणि य। असंजए संजय मन्नमाणे, पावसमाणि त्ति वुच्चई / / 6 / / संथारं फलगं पीढं, निसिज्जं पायकंबलं / अप्पमजियमारुहई, पावसमणि त्ति वुच्चई॥७॥ दवदवस्स चरई, पमत्ते य अभिक्खणं। उल्लंधणे य चंडे य, पावसमणि त्ति वुच्चई / / 6 / / पडिलेहेइ पमत्ते, अवउज्झइ पायकंबलं / पडिलेहाअणाउत्ते, पावसमणि त्ति वुचई / / 6 / / पडिलेहेइ पमत्ते, सो किंचि हु निसामिआ। गुरुं परिभावए निचं, पावसमणि त्ति वुच्चई।।१०।। बहुमाई पमुहरी, बद्धे लुद्धे अणिग्गहे। असंविभागी अचियत्ते, पावसमणि त्ति वुचई।११।। विवायं च उदीरेइ, अधम्भे अत्तपण्हहा। वुग्गहे कलहे रत्ते, पावसमणि त्ति वुच्चई / / 12 / / अथिरासणे कुकुईए, जत्थ तत्थ निसीयई। आसणम्मि अणाउत्ते, पावसमणि त्ति वुच्चई।।१३।। ससरक्खपाओ सुअई, सिज्जं न पडिलेहई। संथारए अणाउत्तो, पावसमणि त्ति वुच्चई // 14 // संमईयन हिंसन् प्राणानिति प्राणयोगात् प्राणिनो द्वीन्द्रियाऽऽदीन् / बीजानि शाल्यादीनि हरितानि च दूर्वाङ्कुराऽऽदीनि सकलैकेन्द्रियोपलक्षणमेतत, स्पष्टतरचैतन्यलिङ्गत्वाचैतदुपादानम्, अतएवासंयतस्तथापि (संजतमन्नमाणित्ति) सोपस्कारत्वात्संयतोऽहमिति मन्यमानः, अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तम्, पापश्रमण इत्युच्यते। तथा संस्तारं कम्बल्यादि, फलकं चम्पकपट्टाऽऽदि,पीठाभासनं, निषद्यां स्वाध्यायभूम्यादिकां यत्र निष्पद्यतेपादकम्बलं पादपुञ्छनम्, अप्रमृज्य रजोहरणाऽऽदिना असंशोध्य, उपलक्षणात्वादप्रत्युपेक्ष्य च, आरोहति समाक्रामति यःस पापश्रमण इत्युच्यते। तथा (दवदवस्स त्ति) द्रुतं द्रुतं तथा-विधाऽऽलम्बतं विनाऽपि त्वरित त्वरितं चरति गोचरचर्याऽऽदिषु परिभ्राम्यति, प्रमतश्च प्रमादवशगश्च भवतीति शेषः / अभीक्ष्णं वारं वारमुल्लङ्गनश्च बालाऽऽदीनामुचितप्रतिपत्त्यकरणतोऽधःकर्ता चण्डश्च क्रोधनः / यद्वा-प्रमत्तोऽनुपयुक्तः, ईर्यासमिती उल्लङ्घनश्च वत्सडिम्भाऽऽदीनां चण्डश्चारभटवृत्त्याश्रयणतः, शेष तथैव / तथा प्रतिलेखयति अनेकार्थत्वात् प्रत्युपेक्षते प्रमत्तः सन् (अवउज्झइ त्ति) अपोज्झति यत्र तत्र निक्षिपति, प्रत्युपेक्षमाणो वा अपोज्झति, न प्रत्युपेक्षते इत्यर्थः / किं तत्? पादकम्बलं पात्रकम्बलं वा प्रतीतमेव, समस्तोपध्युपलक्षणं चैतत्,स एवं प्रतिलेखनाऽनायुक्तःप्रत्युपेक्षाऽपयुक्तः, शेषं तथैव / तथा प्रतिलेखयति प्रमत्तः सन् (किंचि हुत्ति) हुरपिशब्दार्थः, ततः किश्चिदपि विकथाऽऽदीति गम्यते। (निसामिय त्ति) निशम्याऽऽकण्यं तत्राऽऽक्षिप्तचित्ततयेति भावः। (गुरुपरिभासए ति) गुरून् परिभाषते विवदते गुरुपरिभाषकः / पाठान्तरतो गुरुपरिभावको, नित्यं सदा / किमुक्त भवति?-असम्यक् प्रत्युपेक्षमाणोऽन्यता वितथमाचरन् गुरुभिश्वोदितस्तानेव विवदतेऽभिभवति वाऽसभ्यवचनैर्यथा स्वयमेव प्रत्युपेक्षध्वं, युष्माभिरेव वयमित्थं शिक्षितास्ततो युष्माकमेवैष दोष इत्यादि / शेष तथैव, गुरुपरिभाषकत्वं प्रमत्तत्वस्य च निशमनहेतुत्वं पूर्वस्माद्विशेष इति न पौनरुक्त्यम् / किं च-बहुमायी प्रभूतवञ्चताप्रयोगवान् प्रकर्षण मुखरः स्तब्धो लुब्ध इति च प्राग्वत्, अविद्यमानो निग्रहः-इन्द्रियनोइन्द्रियनियत्रणाऽऽत्मकोऽस्येत्यनिग्रहः। संविभजतिगुरुग्लानबालाऽऽदिभ्य उचितमशनाऽऽदि यच्छतीत्येवं शीलः संविभागीन तथा य आत्मपोषकत्वेनैव सोऽसंविभागी 1 (अचियत्ते त्ति) गुर्वादिष्वप्रीतिमान्,शेषं पूर्ववत्। अन्यच्चविरूपो वादो विवादः-वाक्कलहः तं चः पूरणे, (उदीरेइ ति) कथञ्चिदुपशान्तमप्युत्प्रासनाऽऽदिना बृद्धिं नयति, अधर्मोऽविद्यमानसदाचारः (अत्तपण्हह त्ति) आत्मनि प्रश्न आत्मप्रश्रः तं हन्त्यात्मप्रश्नहाः, यदि कश्चित्परः पृच्छत्-किं भवान्तरयायी अयमात्मा, उत नेति? ततस्तमेव प्रश्रमतिवाचालतया हन्ति, यथा-नास्त्यास्मा प्रत्यक्षाऽऽदिप्रमाणैरनुपलभ्यत्वात्, ततोऽयुक्तोऽयं प्रश्रः, ''सति हिधर्मिणि धर्माश्चिन्त्यन्ते' इति। पठ्यते च (अत्तपण्णह त्ति) तत्र च आतां सिद्धान्ताऽऽदिश्रवणतो गृहीतामाता वा इहपरलोकयो: सद्रोधरूपतया हितां प्रज्ञामात्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः स आत्तप्रज्ञाहा आप्तप्रज्ञाहा वा, (बुग्गहि त्ति) व्युद्ग्रहे दण्डाऽऽदिधातजनिते विरोधे कलहे तस्मिन्नेव वाचिके रक्तोऽभिष्वक्तः / शेष प्राग्वत्। अपरं च अस्थिरासनः कुकुचः कुकुचो वा, द्वयमपि पूर्ववत्, यत्र तत्रेति संसक्तसरजस्काऽऽदावपीत्यर्थः, निषीदतीत्युपविशति आसने पीठाऽऽदावनायुक्तोऽनुपयुक्त सन्, शेषं प्राग्वत्। तथा सह रजसा वर्तते इति सरजस्कौ तथाविधौ पादौ यस्य स तथा स्वपिति शेते। किमुक्तं भवति?संयमविराधनां प्रत्यभीरुतया पादावप्रमृज्यैव शेते, तथा शय्यां वसतिंन प्रतिलेखयत्युपलक्षणत्वात् न च प्रमार्जयति, संस्तारके फलककम्बलाऽऽदौ सुप्त इति शेषः। अनायुक्तः "कुक्कुडिपायपसारण, आयामेउं वि आउंटे।'' इत्याद्यागमाऽर्थाऽनुपयुक्त अन्यत्तथैवेति सूत्रनवकाऽर्थः। इदानीं तप आचारातिक्रमतः पापश्रमणमाहदुद्धदहीविगईओ, आहारेइ अभिक्खणं।