________________ पावयण 881 - अभिधानराजेन्द्रः - भाग 5 पावसमण पावयण न०(प्रावचन) प्रकर्षणाभिविधिनोच्यन्ते जीवाऽऽदयो यस्मिन् तत् प्रावचनम्। आव०४अाधा प्रवचने, शासने, प्रत्र०२संव० द्वार। "सुयधम्भो त्ति वा तित्थ त्ति वा पावयणं ति वा एगट्ठा।" आ०चू०१ असा संथा०। प्रशस्त प्रगतं प्रथम वा वचनमिति प्रवचनम् / आगमे, दीर्धत्व प्राकृतत्वात्। स्था०३ठा०४उ०। पावयणिय पुं०(प्रावचनिक) प्रवचने प्रवचनार्थकथने नियुक्तः प्रावधनिकः 1 नं०। प्रवचन द्वादशाङ्ग गणिपिटकं तदस्यास्तीति प्रावचनी / युगप्रधानाऽऽगमे, आचार्थे , प्रवचनप्रभावकभेदे, ध०२ अधि० आचाला संथा०ा बृ०ा व्य०) पावयणि (न) पुं०(प्रवचनिन्) दीर्घत्वं प्राकृतत्वात्। प्रवचनप्रणेतरि जिने, भ०२० २०८उ०ा आचार्य , आ०चा०२श्रु०३चू०। पावरग पुं०(प्रावरक) सलोमके पटे, प्रवारः सलोमकः पटः, स च माणिकीप्रभृतिकः, अन्ये तु प्रावारको बृहत्कम्बलः परियच्छिा त्याहुः। प्रव०८४ द्वारा पावरण न०(प्रावरण) षट्पदिकाभयेन यत्प्राव्रियतेतत्प्रावरणम्। बृ०३उ०। वर्षाकल्पाऽऽदौ, उत्त०१७अ० पावरुइ त्रि०(पापरुचि) पापमेवोपादेयमिति श्रद्दधाने, प्रश्न०१आश्र० द्वार / पावलोग पुं०(पापलोक) पापकर्मणां नरकाऽऽदिके लोके, सूत्र० १श्रु०२अ०३३० पावलोभ पुं०(पापलोभ) पापमपुण्यं लुभ्यति प्राणिनि स्निह्यति, संश्लिष्यतीति यावत् यतः स पापलोभः / अथवा-पापं चासौ लोभश्व तत्कार्यत्वात् पापलोभः / विंशतितमे गौणप्राणातिपाते, प्रश्न०१आश्र० द्वार। पावविगार पुं०(पापविकार) पापजन्ये विषयतृष्णाऽऽदौ, षो० १विव०। (धर्मतत्त्वयुक्तस्य विषयतृष्णाऽऽदयो न भवन्ति इति 'धम्म' शब्दे चतुर्थभागे 2672 पृष्ठे दर्शितम्) पावसंतत्त त्रि०(पापसन्तप्त) पापकर्मणा सन्तप्ते, सूत्र० १श्रु० 410130 / पावसमण पु०(पापश्रमण) पापेनोक्तरूपेण उपलक्षितः श्रमणः पापश्रमणः / पापश्रमणीयोत्तराऽध्ययनवर्णितभावसेवके दुः श्रमणे, उत्त०। जे भावाऽकरणिज्जा, इह अज्झयणम्मि वन्निय जिणेहिं। ते भावे सेवंतो, नायव्वो पापसमणो त्ति॥३९०|| ये भावाः संसक्तापठनाशीलताऽऽदयोऽर्थाः अकरणीयाः कर्तुमनुचिताः इह प्रस्तुतेऽध्ययने (वण्णिय ति) वर्णिताः प्ररूपिता जिनस्तीर्थकृतिः तान् भावान् सेवमानोऽनुतिष्ठन् ज्ञातव्योऽवबोद्धव्यः पापेन-उक्तरूपेण उपलक्षितः श्रमणः पापश्रमणः / इति-शब्दः पापश्रमणशब्दस्य स्वरूपपरामर्शक इतिगाथाऽर्थी उत्त०पाई०१७अ01 पापश्रमणलक्षणम्जे केइ ऊ पव्वइए नियंठे, धम्म सुणित्ता विणओववण्णे। सुदुल्लह लहिउं वोहिलाभ, विहरिज पच्छा य जहासुहं तु ||1|| सिजा दढा पाउरणं मि अत्थि, उप्पजई भुत्तु तहेव पाउं। जाणामि जं वट्टइ आउसो त्ति, किं नाम काहामि सुएण भंते ! / / 2 / / यः कश्चिदित्यविवक्षितविशेषणः तुः पूरणे। पठन्ति च-'जे के इमे त्ति।' तत्र च (इमे त्ति) अयं प्रव्रजितो निष्क्रान्तो निर्ग्रन्थः प्राग्वत्, कथं पुनरयं प्रव्रजित इत्याह-धर्म श्रुतचारित्ररूपं, श्रुत्वा निशम्य, विनयेन ज्ञानदर्शनचारित्रोपचाराऽऽत्मकेनोपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुष्प्रापम् (लभिउंति) लब्ध्वा बोधिलाभं जिनप्रणीतधर्मप्राप्तिरूपम्, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति / स किमित्याहविहरेचरेत्पश्चात् प्रव्रजनोत्तरकालं, चः पुनरर्थो विशेषद्योतकस्ततश्च प्रथम सिंहवृत्त्या प्रव्रज्य पश्चात्पुनर्यथासुखं यथा यथा विकथाऽऽदिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते, तुशब्दस्यैवकारार्थत्वाद्यथासुखमेव शृगालवृत्यैव विहरेदित्यर्थः / उक्तं हि- "सीहत्ताए निक्खंतो सियालत्ताए विहरइ त्ति।'' स च गुरुणाऽन्येन वा हितैषिणाऽध्ययन प्रति प्रेरितो यद्वक्ति तदाह शय्या वसतिर्दृढा वाताऽऽतपजलाऽऽद्युपद्रवैरनभिभाव्या, तथा प्रावरणं वर्षाकल्पाऽऽदि में मम अस्ति / किञ्चउत्पद्यते जायते भोक्तुं भोजनाय तथैव पातुं पानाय यथाक्रममशनं पानं चेति शेषः। तथा जानाम्यवगच्छामि यद्वर्तते यदिदानीमस्ति आयुष्मन्निति प्रेरयितुरामन्त्रमिति, एतस्माद्धेतोः किं नाम? न किञ्चिदित्यर्थः / (काहामि त्ति) करिष्यामि श्रुतेनाऽऽगमेनाधीतेनेत्यध्याहारः। 'भंते त्ति'' पूज्याऽऽमन्त्रणम्। इह च प्रक्रमात् क्षेपे। अयं हि किलास्याऽऽशयो यथा ये भवन्तो भदन्ता अधीयन्ते तेऽपि नाऽतीन्द्रियं वस्तु किञ्चनाऽवबुध्यन्ते, किं तु साम्प्रतमात्रेक्षिण एव, तचैतावदस्मास्वेवमप्यस्ति, तत् कि हृदयगलतालुशोषविधाथिनाऽधीतेनेति? इत्येवमध्यवसितो यः स पापश्रमण इत्युच्यते इतीहाऽपि सिंहाक्लोकितन्यायेन संबध्यत इति सूत्रद्वयार्थः। किंचजे केइ उ पव्वइए, निबासीले पगामसो। भोचा पिच्चा सुहं सुयई, पावसमणे त्ति वुबइ / / यः कश्चित् प्रवजितो निद्राशीलो निद्रालुः प्रकामशो वहुशो भुक्त्वा दध्योदनाऽऽदि,पीत्वा तक्राऽऽदि सुखं यथा भवत्येवं सकलक्रियाऽनुष्ठाननिरपेक्ष एव स्वपिति शेते। पठ्यते च-(बसइ त्ति) वसत्यास्ते ग्रामाऽऽदिषु, स इत्थंभूतः किमित्याह-पापश्रमण इत्युच्यते प्रतिपाद्यत इति सूत्राऽर्थः। ___ इत्थं न केवलमनधीयान एव पापश्रमण उच्यते, किं तुआयरियउवज्झाएहिं,सुयं विणयं च गाहिए। ते चेव खिंसई बाले, पावसमणे त्ति वुचई / / 4 / / आचार्योपाध्यायः श्रुतमागममर्थतः शब्दतश्व विनयं चोलरूपं ग्राहितः शिक्षितो, यैरिति गम्यते. तानेवाऽऽचायाऽऽदीन्