________________ पावकम्म 578 - अभिधानराजेन्द्रः - भाग 5 पावकम्म भप्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्याऽऽरख्यमिति / एवमेतत्पापमष्टादशभेद नान्येषयन्न कुर्यात् स्वयं, न चाऽन्य कारयेत्, न कुर्वाणमन्यमनुमोदयेत्। (61 सूत्रं) आचा० १श्रु० १अ०७उ०। सूत्र०। 'पावाणं च खलु भो कडाणं कम्माणं पुचि दुच्चिण्णाणं दुप्पडियंताणं वेदइत्ता मोक्खो, णत्थि अवेयइत्ता, तबसा वा झोसइत्ता।" आचा० १श्रु०६अ०२उ०। "जीवा णं दोहि ठाणेहिं / पावकम्म बंधइ। तं जहारागेण चेव, दोसेण चेव।" रागद्वेषाभ्यां पापकर्म बध्यते उदीर्यते इति। स्था०२ठा० ४उ०। ('बन्ध' शब्दे विशेषः) जीवाना पापकर्मतया पुद्गलचयः जीवा णं दुट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणंसुवा, चिणंति वा, चिणिस्संति वा / तं जहा-तसकायनिव्वत्तिए चेव, थावरकायनिव्वत्तिए चेव, उवचिणंसु वा, उवचिणंति वा, उवचिणिस्संति वा, बंधिंसु वा, बंधंति वा, बंधिस्संति वा, उदीरिंसु वा, उदीरति वा, उदीरिस्संति वा, वेदिसु वा, वेदिति वा,वेदिस्संति वा, णिज्जरिंसुवा, णिजरिंति वा, णिज्जरिस्संति वा! सूत्राणि षट् सुगमानि, नवरं जीवा जन्तवो, 'ण' वाक्यालङ्कारे, द्वयोः स्थानयोराश्रययोः सथावरकायलक्षणयोः समाहारो द्विस्थान, तंत्र मिथ्यात्वाऽऽदिभिर्ये निर्वर्तिताः सामान्येनोपार्जिताः वक्ष्यमाणावस्थाषट्कयोग्यीकृताः, द्वयोर्वा स्थानयोर्निवृत्तिर्येषां ते द्विस्थाननिर्वृत्ति - कास्तान् पुद्गलान कार्मणान् पापकर्मघातिकर्म सर्वमेव वा ज्ञानाऽऽवरणाऽऽदि, तद्भावस्तत्ता, तया पापकर्मतया, तद्रूयक्तयेत्यर्थः। चितवन्तो वा अतीते काले, चिन्वन्ति वा सम्प्रति, चेष्यन्ति वा अनागते काले, केचिदिति गम्यते, चयनं कषायाऽऽदिपरिणतस्य कर्मपुद्गलोपादानमात्रम्, उपचयन तु चितस्याऽऽबाधाकालं मुक्त्वा ज्ञानाऽऽवरणीया - ऽऽदितया निषेकः। स चैवम्-प्रथमस्थितौ बहुतरं कर्मदलिक निषिञ्चति, ततो द्वितीयायां विशेषहीनम्। "एवं जावुक्कोसियाए विसेसहीणं निसिंचा त्ति।" बन्धनं तु तस्यैव ज्ञानाऽऽवरणाऽऽदितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषान्निकाचनमिति / उदीरणं तु अनुदयं प्राप्तस्य करणेनाऽऽकृष्योदये प्रक्षेपणमिति। वेदनमनुभवः, निर्जरा कर्मणोऽकर्मताभवनमिति। कर्म च पुद्गलाऽऽत्मकमिति। स्था० २ठा० 4 उ०। जीवा णं तिहाणणिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसु वा, चिणिंति वा, चिणिस्संति वा / तं जहा-इत्थीणिव्वत्तिए, पुरिसणिव्वत्तिए, णपुंसगणिव्वत्तिए / एवं-"चिणउवचिणबंधउदीरवेए तह णिज्जरा चेव।" (जीवा णमित्यादि) सूत्राणि षट् तत्र त्रिभिः स्थानैः स्त्रीवेदाऽऽदिभिर्निर्वर्तितान् अर्जितान् पुदलान् पापकर्मतया अशुभकर्मत्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्त आसङ्कलनतः, एवमुपचितवन्तः / परिपोषणतः, एवं बद्धवन्तो निर्मापणतः, उदीरितवन्तः अध्यवसाय- | वशेनाऽनुदीर्णो दयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः / संग्रहणीगाथार्द्धमत्र-"चिण उवचिण बंधोदी-रवेय तह निर्जरा चेव।" इति। अस्य व्याख्या-"एवमिति।" यथैक कालत्रयाभिलापेनोक्तं तथा सण्यिपीति / कर्म च पुद्गलाऽऽत्मकमिति / स्था० ३टा० 40 जीवा णं चउट्ठाणनिव्वत्तए पोग्गले पावकम्मत्ताए चिणिंसु वा, चिणिंति वा, चिणिस्संति वा / तं जहाणेरइयणिव्वत्तिए, तिरिक्खजोणिणिव्वत्तिए, मणुस्सणिव्वत्तिए, देवणिव्वत्तिए / एवं उवचिणिंसुवा, उवचिणं-तिवा, उवचिणिस्संतिवा। एवं "चिण उवचिण बंधोदी-र वेय तह णिजरा चेव।" (जीवा णमित्यादि) सूत्रषट्कं व्याख्यातं प्राक् तथाऽपि किञ्चिलिख्यते-(जीवा णं ति) 'णं' शब्दो वाक्यलकारार्थः, चतुर्भिः स्थानकैारकत्वाऽऽदिभिः पर्यायैर्निवर्तिताः कर्मपरिणामं नीतास्तथाविधाशुभपरिणामवशाद् बद्धास्ते चतुःस्थाननिर्वर्तितास्तान् पुद्रलान् / कथं निर्वर्तितानित्याह- पापकर्मतया अशुभस्वरूपज्ञानाऽऽवरणाऽऽदिरूपत्वेन (चिणिंसु त्ति) तथाविधापरकर्मपुगलौश्चितवन्तः पापप्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः। (नेरइयणिव्वत्तिए त्ति) नैरयिकेण सा निवर्तिता इति विग्रहः। एवं सर्वत्र तथा (एवं उवचिणंसु त्ति) चयसूत्राभिलापेनोपचयसूत्रं वाच्यम्, तत्र (उवचिणंसुत्ति) उपचितवन्त पौनः पुन्येन / एवमिति चयाऽऽदिन्यायेन बन्धाऽऽदिसूत्राणि वाच्यानीत्यर्थः / इह च बन्ध उदीरेत्यादिवक्तव्ये यच्चयोपचयग्रहण तत्स्थानान्तरप्रसिद्धगाथोत्तरार्धाऽनुवृत्तिवशादिति / तत्र (बन्ध त्ति) बन्धेयुः श्लयबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्तः।३। (उदीर त्ति) (उदीरिसु) उदयप्राप्ते दलिके अनुदितांस्तानाकृष्य करणेन वेदितवन्तः। वे यत्ति) (वेदिसु) प्रतिसमय स्वेन रसविपाकेनाऽनुभूतवन्तः (तह निजरा चेव त्ति) (निजरिंसु) कात्स्येनानुसमयविशेषतद्विपाकहान्या परिशाटितवन्तः। स्था०३ठा० ४उ०। जीवाणं पंचट्ठाणणिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसुवा, चिणिंसुवा, चिणिस्सिति वा। तं जहा-एगिदिय-निव्वत्तिए०जाव पंचिंदियनिव्वत्तिए। एवं “चिण उवचिणबंध उदीर वेद तह निजरा चेव।" स्था०५ठा०३उ०। जीवाणं छट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसुं वा, चिणिं ति वा, चिणिस्संति वा / तं जहा-पुढविकाइयनिव्वत्तिए०जाव तसकाइयनिव्वत्तिए। एवं "चिण उवचिण बंध उदी-र वेय तह निजरा चेवा" स्था० ६ठा०। जीवा णं सत्तट्ठाणनिध्वत्तिए पुग्गले पावकम्मत्ताए चिणिंसुवा, चिणंति वा, चिणिस्संति वा / तं जहा-नेरइयनिव्वत्तिएन्जाव देवनिव्वत्तिए / एवं "चिण० जाव निजरा चेव।" स्था०७ठा०।