________________ पाव 877 - अभिधानराजेन्द्रः - भाग 5 पावकम्म आगमनिषिद्धे कर्मणि, पञ्चा० ११विव०। सम्यक्त्वाऽऽदिगुणविघातहेतौ | ज्ञानाऽऽवरणीयाऽऽदिप्रकृतिकदम्बे,षो०३विव०। प्रव०। पापनिक्षेपःपावे छवं दव्वे, सञ्चित्ताचित्त मीसगं चेव। खेत्तम्मि निरयमाई, कालो अइदुस्समाईओ।।३८७।। भावे पावं इणमो, हिंसा मुसा चोरियं च अब्बंभं / तत्तो परिग्गहो चिय, अगुणा भणिया य जे सुत्ते // 388|| पापे पापविषयः (छक ति) षट्कः षट्परिमाणो नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्निक्षेप इति गम्यते / तत्र च नामस्थापने सुज्ञाने, द्रव्ये विचार्य आगमतो ज्ञाताऽनुपयुक्तो, नो आगमतस्तु व्यतिरिक्तमाह(सचित्ताचित्त मीसग चेव त्ति) इह च पापमिति योज्यते। प्राकृतत्वाचोभयत्र बिन्दुलोपः / तत्र सचित्तद्रव्यपापं यद् द्विपदचतुष्पदापदेषु मनुष्यपशुवृक्षाऽऽदिष्वसुन्दरम् / अचित्तद्रव्यपापं तदेव जीवविप्रयुक्तं चतुरशीतिपापप्रकृतयो वा वक्ष्यमाणाः। मिश्रद्रव्यपापं तथाविधद्विपदाऽऽद्येवाऽशुभवस्वाऽऽदियुक्तं तच्छरीराणि वा जीववियुक्तैकदेशयुक्तानि / सन्ति हि जीवशरीरेष्वपि जीववियुक्ता नखकेशाऽऽदयस्तदेकदेशाः / उवतं हि-"तस्सेव देसे चिए, तस्सेव देसे अणुवविए त्ति / " जीवप्रदेशापेक्षमेव हि तत्र चितत्वमनुपचितत्वं वा विवक्षितं, पापप्रकृतियुक्तो का जन्तुरेव मिश्रद्रव्यपापमुच्यते। (चेवेति) प्राग्वत्। क्षेत्रे विचार्ये पापं नरकाऽऽदिपापप्रकृत्युदयविषयभूतं यत्र तदुदयोऽस्ति। काल इति कालपापम् दुष्षमाऽऽदिको, यत्र कालाऽनुभावतः प्रायः पापोदय एव जन्तूनां जायते। आदिशब्दादन्यत्र वा काले यत्र कस्यचिजन्तोस्तदुदयः। भावे विचारयितुमुपक्रान्ते पापम् / इदमनन्तरमेव वक्ष्यमाणं (हिंस ति) हिंसा प्रमत्तयोगात्प्राणव्यपरोपणं, मृषाऽसदभिधानं, चौर्य च स्तैन्यम्, अब्रह्य मैथुन,ततः परिग्रहो मूर्छाऽऽत्मकः। अपिः समुच्चये,चः पूरणे, गुणाः सम्यग्दर्शनाऽऽदयः, तद्विपक्षभूता अगुणाः मिथ्यात्वाऽऽदयो दोषाः / नमो विपक्षेऽपि दर्शनादऽमित्राऽऽदिवत् / भणिता उक्ताः, तुः समुच्चये व्यवहितक्रमश्च, अगुणाश्च ये सूत्रे आगमे अन्यत्र इहैव वा प्रस्तुताऽध्ययने / उत्त० १७अ०। (पापतत्त्वम् 'नाणंतराय' इत्यादिगाथाभिः 'तत्त' शब्दे चतुर्थभागे 2181 पृष्ठे प्रकटीकृतम्) इह पापं द्विधागोप्यं, स्फुटं च। गोप्यमपि द्विधालघु महच / तत्र लघुकूटतुलामानाऽऽदि, महद् विश्वासघाताऽऽदि। स्फुटमपि द्विधा कुलाऽऽचारेण, निर्लज्जत्वाऽऽदिना च / कुलाऽऽचारेण गृहिणामारम्भाऽऽदि, म्लेच्छाऽऽदीनां हिंसाऽऽदिच, निर्लज्जत्वाऽऽदिना तु यतिवेषस्य हिंसाऽऽदि तत्र निर्लज्जत्वाऽऽदिना स्फुटेऽनन्तसंसारित्वाऽऽद्यपि, प्रवचनोड्डाहाऽऽदेहे तुत्वात् कुलाऽऽचारेण पुनः स्फुटे स्तो कः कर्मबन्धो, गोप्ये तु तीव्रतरोऽसत्यमयत्वात्। ध०२अधिवा पापमेवापचीयमानमुपचीयमानं चमुखदुःखहेतुर्न पुण्यं कर्माऽस्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्तीति, एवंविधवादं निरस्यतोक्तं भगवता-"अस्थिपुण्णे, अस्थिपावे।" औ०। (असमग्रो नवमगणधरवादः 'कम्म' शब्दे तृतीयभागे 251 पृष्ठादारभ्य दर्शितः) "संभाव्यमानपापोऽहं-मपापेनाऽपि किं मया? निर्विषस्याऽपि सर्पस्या, भृशमुदविजते मनः / / 1 / / " सूत्र०१श्रु० 4 अ०१उ० "पावं काऊण सयं, अप्पाणं सुद्धमेव ववहरइ / दुगुणं करेइ पावं, वीयं बालस्स मंदत्तं / / 1 / / " सूत्र० १श्रु०४ अ०१० दीणो जणपरिभूओ, असमत्थो उअरभग्णमित्ते वि। वित्तेण पावकारी, तह विहु पापप्फलं एअं॥१९॥ दीनः कृपणः, जनपरिभूतो लोकगर्हितः,असमर्थः उदरभरणमात्रोऽपि आत्मानं भरिरपि न भवति। वित्तेन पापकारी तथाऽपि तु एवंभूतोऽपि सन्नसदिच्छ्या पापचित्त इत्यर्थः, पापफलमेतदिति जन्मान्तरकृतस्य कार्य, भाविनश्च कारणमितिगाथाऽर्थः / पं०व०१द्वारा पापमस्यास्तीति पापः। पापकारिणि, ज्ञा० १श्रु० 4 अ० पापाऽऽत्मनि.प्रश्न०१ आश्र० द्वार। दशा०। हिंस्रे, स्था० ४ठा० 4 उ०। पापकर्मणि सूत्र० १श्रु०५अ०१उ०। रा०) पापिठे, प्रश्र०१ आश्रद्वार। विशेष जीवानां पापं सर्वं दुःखम्नेरइया णं भंते ! पावे कम्मे जे य कडे, जे य कज्जइ, जे य कजिस्सइ, सव्वे से दुक्खे, जे निजिण्णे, से सुहे? हंता गोयमा ! ने रइयाणं पावे कम्मे०जाव सुहे एवं०जाव वेमाणियाणं। (नेरइयाणमित्यादि) (सवे से दुक्खे त्ति) दुःखहेतुसंसारनिबन्धनत्वाद् दुःखम् / (जे निजिण्णे से सुहे ति) सुखस्वरूपमोक्षहेतुत्वाद्यन्निर्जीर्ण कर्म तत्सुखमुच्यते। भ०७श०८उ०। नवविहापावस्साऽऽययणा पण्णत्ता। तं जहा-पाणाइ-वाए०जाव परिग्गहे कोहे माणे माया लोभे / (नवविहा पावस्सेत्यादि) कण्ड्यम्, नवरं पापस्याशुभप्रकृतिरूपस्याऽऽयतनानि बन्धहेतव इति। स्था, ठा०ा "दुरिअंकलुसंदुक्य, अघ अहम्मो य कम्मसं पावं / मिच्छा मोहं विहलं. अलि-अमसच्चं असदभूअं॥५३॥" पाइन्ना०५३ गाथा। पावअ पुं०(पावक) अग्नौ, "धूमदओ हुयवहो, विहावरन् पावओ सिही वही। अणलो जलणो डहणो, हुआसणो हव्ववाहोय॥६॥" पाइoना० 6 गाथा। पावस त्रि०(पापीयस) अतिशयेन पापे, स्था० ४ठा०४उ०। पावकम्म न०(पापकर्मन) अशुभ कर्मणि, भ० २६श०१उ०। चारित्रप्रति बन्धकमोहनीयप्रकृतौ, ध०३अघि०। अशुभज्ञानाऽऽ-वरणीयाऽऽदिकर्मप्रकृतिषु, औ०। विपा। असदनुष्ठानाऽऽपादिते कर्मणि, सूत्र० १श्रु० २अ० २उ०ा दुष्कृते, प्रश्न०१ आश्र० द्वार। पापव्यापारे, आ०चू०३ अ०॥ पापोपादाने, अनुष्ठाने, आचा०१श्रु०३ अ०३उ०। विषयार्थं सावद्यानुष्ठाने, आचा० १श्रु० ५अ० १उ०। संसारार्णवपरिभ्रमणहेतौ, आचा० १श्रु० ३अ०२उ०। पापहेतौ हिंसाऽऽद्यनुष्ठाने, उत्त०६अ०। आचा०। सूत्रका मैथुनाऽऽसेवनाऽऽदिके, सूत्र०१श्रु० ४अ०१1०। घातिकर्मणि,स्था०२ ठा०४उ०। उत्त०। (''से वसुमं०" (155) सूर्य 'धम्म' शब्दे चतुर्थभागे 2675 पृष्टे उक्तम्) "पावं कम्म अकुव्वमाण एसमहं अगथे।" पाप पापोपादान कर्माद्वादशभेदभिन्नं, तदकुर्वाणोऽनाचरन्। एष अहं निर्गन्थः। आचा०१२०८अ०३उ०। 'पावं कम्मणो अण्णेसितंपरिणय मेहावी" - पापं कर्मअथः पतनकारित्यात्पापं, क्रियतइति कर्म, तचाऽष्टादशविधं प्राणातिपातमृषावादादत्ताऽऽदानमैथुनपरिग्रहक्रोधमानमायालो