________________ पारिट्ठावणिया 874 - अभिधानराजेन्द्रः - भाग 5 पारिट्ठावणिया तत्र एकानेकप्रतिपादनार्थमाहएगो एगं पासति, एगोऽणेगे अणेगें एंगं वा। गाणेगे ते पुण, संविग्गितरे व जे दिट्ठा // 4671 एक एकं पश्यतीति प्रथमो भङ्ग : 1. एकोऽनेकान् 2, अनेके एकम् 3, अनेके अनेकान् ४,तत्र ये दृष्टास्ते संविना भवेयुरसंविग्ना वा, सर्वथा परिष्ठापना कर्त्तव्याः अन्यथा प्रवचनोपघातः स्यात्। संप्रति विशेषप्रतिपादनार्थमाहवीइक्ते भिन्ने, नियट्टे सोऊण पंच वि पयाई। मिच्छत्त अन्नपंथेण कवणा झामणा जं च / / 468 / / व्यतिक्रान्तं, व्यपगतजीवमिति भावः / भिन्नं श्वाऽऽदिभिर्विकीर्ण कुथितमकुथितं वा तस्मिन् व्यतिक्रान्ते, भिन्ने,उपलक्षणमेतत् अभिन्ने वा श्रुते निवृत्य यथोक्तविधिना तत्परिष्ठापयेत्। यदि पुनः श्रुत्वा एकमपि पद गच्छंति तदा आज्ञाऽऽदीनि पञ्चापि पदानि तस्य प्रसजन्ति, न केवलमा ज्ञाऽऽदीनि पञ्च पदानि, किं त्वन्यान्यऽपि मिथ्यात्वाऽऽदीनि प्रसजन्ति। तद्यथा-श्रुत्वा यदि परिष्ठापनाभयादन्यपथेन अन्प्रार्गेण वा अन्यनामाभिमुखं व्रजति तदा न सयथा-वादकारीति तस्य मिथ्यात्वम्। (कड्डण त्ति) गृहे बाह्याऽऽकर्षणे यत्प्रायश्चितं तदपि प्राप्नोति / तथा (झामण त्ति) अग्निकायेन यदि तस्य कलेवरस्य दाहः क्रियते तदाध्यामननिष्पन्नमपि तस्य प्रायश्चितमापद्यते / यचान्यत्तदपि प्राप्नोति / कि तदिति चेत्, यावन्त प्राणा विमूर्छन्ति तावन्तो विराध्यन्ते, यावन्तश्वाऽऽगन्तुकाः प्राणास्ते विराधनामाप्नुवन्ति, तत्सर्वमपरिष्ठापयन्प्राप्नोति / अथवा श्रुत्वा पदमात्रातिक्रमेऽपि पश्चापि पदानि प्राप्नोति / कानि तानीति? अत आह-मिथ्यात्वमयथावादकारित्वात्पथेन व्रजति तन्निमित्त प्रायश्चित्तम् / रगृहस्थाऽऽदिभि कर्षणं, तनिष्पन्नम् / ३अग्निकार्यन दहने तद्धेतुकम् / / यचान्यत्संभूर्छिताऽऽगन्तुकप्राणजातिविराधनाज, तदपि / 5 / साम्प्रतमेनामेव गाथां व्याधिख्यासुराहतं जीवातिकतं, भिन्नं कुथितेतरं च सोऊणं / एगपयं पि नियत्ते, गुरुगा उम्मग्गमादी वा / / 466 / / तत्कलेवरं जीवातिक्रान्तं व्यतिक्रान्तमुच्यते, भिन्नं श्वाऽऽदिभिविकीर्णं , तच्च कुथितमकुथितं वा / उपलक्षणमेतत्-भिन्नं वा श्रुत्वा एकपदमपि न गच्छति, किं तु निवर्त्तते, अन्यथा एकपदातिक्रमेऽपि प्रायश्चित्तं चत्वारोऽपि गुरुकाः, उन्मार्गाऽऽदौ वा प्रत्येक प्रायश्चित्तं चत्वारो गुरुकाः। आणादी पंचपदे, नियत्तणे पावए इमे अन्ने। मिछत्ताऽऽदी व पदे, कमविक्खेवा व जे पंच / / 470 / / न केवलमनिवर्त्तने प्रायश्चित्तं, किं त्वाज्ञाऽऽदीनि पञ्च पदानि प्राप्नोति। तद्यथा-आज्ञा 1, अभवस्था 2, मिथ्यात्वम् 3, आत्मविराधना 4, संयमविराधना च 5 / न केवलप्रसूनि पदानि, किन्त्विमान्यपि मिथ्यात्वाऽऽदीनि पदान्यन्यानि प्रप्नोति / तानि च प्रागेव भावितानि। अथवा-पञ्चापि पदानि प्राप्नोति इत्युक्तोतत्र तान्येव पञ्च पदानि द्वारगाथाया दर्शयतिकप्रविक्षेपात्पादविक्षेपाद्यानि पञ्च पञ्च पदानि मिथ्यात्वाऽऽदीनि मिथ्यात्वमन्यपथेन प्रव्रजन, गृहस्थाऽऽदिभिराकर्षणम्. अग्निकायेन दहनं ४,यच्चान्यत्समूर्छिताऽऽगन्तुकप्राणजातिविराधनमिति तानि प्राप्नोति / तदेवं पञ्च पदानीत्यस्य व्याख्यान द्विधा कृतम्। संप्रति कर्षणपदं यच्चेति पदं व्याख्यानयतिगोणादि जत्तियाओ, व पाणजातीउ तत्थ मुच्छंति। आर्गतुगा व पाणा, जं पावंते तयं पावे / / 471 / / गवादयो यत्समाकर्षयन्ति, यावन्तो वा प्राणजातयस्तत्र कलेवरे मूर्छन्ति, आगन्तुका वा प्राणा यथाऽऽप्नुवन्ति, तदेतत्सर्व सोऽनिवर्तमानः प्राप्नोति, शेषपदानि सुगमानीति कृत्वा न व्याख्यातानि। अधुना विवेचनमाहदट्टुं वा सोउं वा, अव्वावण्णं विगिंचए विहिणा। वावण्णे परलिंगं, उवहीनातो व अण्णातो।।४७२।। पथि कालगतं दृष्ट्वा यदि वा-कालगत इति अन्यतःश्रुत्वा, यदि तत् कलेवरमट्यापन्नम्, अविभिन्नमित्यर्थः / ततः पूर्वो क्तेन विधिना विवेचयेत् / अथ स एकाकी, ततः परिष्ठापयितुं न शक्तोति। यदि वाशक्तोति परं बहवो मृतास्ततः परलिङ्ग कृत्वा त्यजति। अथ तत् व्यापन्नं तदा तस्मिन्परलिङ्ग कर्त्तव्यम् / परिलिङ्गकरणं नामयस्तस्योपधिग्रहणम् / स चोपधिर्द्विधाज्ञातो वा अज्ञातो वा / ज्ञातो नाम यथैतत्साभोगिकस्य साधोरुपकरणन्, अज्ञातो नाम यो न ज्ञायते, किमेय सांभोगिकस्य, किंवा असांभोगिकस्येति? तत्र ज्ञातोऽज्ञातो वा तस्योपधिग्रहीतव्यः। अथ कस्मात्परलिङ्गं क्रियत? तत आहमा णं पिच्छंतु बहू, इति नाए वि करेइ परलिंग। गहिउम्मि वि उवगरणं, परलिंगं चेव तं होइ / / 473|| मा अमुं बहवो जनाः प्रेक्षन्तामिति कृत्वा ज्ञातेऽपि तस्मिन्कालगते परलिग क्रियते / किं तत्परलिङ्ग करणमिति चेत्?अत आह-गृहीते चोपकरणे परलिङ्गमेव तद्भवति, साधुलिङ्गाभावात्। संप्रति ज्ञातस्य चोपधिग्रहणे विधिमाहसागारकडे एक्को, मणुण्ण दिण्णो सुहो भवे बिइओ। अमणुण्णे अप्पिणतो,न गेण्हती दिज्जमाणं पि / / 474|| सागारकृतं नाम यत्स्वयं नात्म कृत किन्त्वाचार्या एतस्य विज्ञायका इति बुद्ध्या परिगृहीतं तस्मिन्सागारकृते एकः प्रथमोऽवग्रहः / यदि सांभोगिकस्योपधिरयमिति ज्ञातस्तदा आचार्यसमीपं गत्वा निवेद्य आवार्यस्य समर्ययति / तत्र यद्या वार्यो ब्रूतेत्वमेवामुमुपछि परिभुक्ष्य, 'ततो मस्तकेन वन्दे' इति भणित्वा अन्येषां साधूनां निवेदयति / यथा क्षमाश्रमणैरेतद् वस्त्रं पात्रं वा मह्यं दत्तमिति / ततस्ते बुवते-आरोग्यधारिणीय क्षमाश्रमणानां गुणैर्बर्द्धस्व। एवमन्योऽन्यस्य सांभोगिकस्योपघेर्दत्तस्यावग्रहो द्वितीयः / अथामनोज्ञः स उपधिस्तर्हि त गुरोः समर्ययति, त च गुरुणा दीयमानमपि न गृह्णाति।