________________ पारिट्ठावणिया 872 - अभिधानराजेन्द्रः - भाग 5 पारिट्ठावणिया चतुर्थो वसतिपालः, पञ्चमः कालगतः / पञ्चानाभारतो ये चतुः प्रभृतयस्तेषां वसतिरक्षणे वहने च विकल्पना / किमुक्तं भवति? यथासंभवमशून्यां वसतिं कृत्वा शय्यातरस्य वा निवेद्य शून्यामपि कृत्वा यथा शक्नुवन्ति तथा परिष्ठापयन्ति। तथा चाऽऽहत एव हरामृतवाहकाः कुशानप्यानयन्ति / अयमत्र भावनाशय्यातरस्य च निवेदने कृते त्रयो विश्रभ्य वहन्ति।यस्तु विश्राम्यति सकुशाऽऽदिनयतीति। अथवाा-यः एव समर्थः स हरो भवेत्, सवहतीति भावः। एक्को व दो व उवहि, रत्तिं वेहास दिव असुण्णम्मि। एक्कस्स य दो चेव य, छड्डुण गुरुगाय आणादी॥४४६।। यदि त्रयः साधवो भवेयुः तदा एकः कालगतो , यौ च द्वौ तौ रात्रावुपधिं विहायसि कृत्वा एको द्वौ वा वहतः / अथ दिवा परिष्ठाप्यते तदा एकस्य मोचनेन विधिस्तथैव द्रष्टव्यो यथा द्वयोरनन्तरमुक्तः। किमुक्तभवति?रात्रावुपधिं विहायसि कृत्वा परिष्ठापयन्ति, दिने शय्यातरभालनेन वसतिमशून्या कृत्वा परिष्ठापयेता यद्येकद्वित्रिप्रभृतयः स्तोका वयं कथं धोक्ष्याम इति विचिन्त्य न परिष्ठापयन्ति किं तु त्यक्त्वा गच्छन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः, न केवलं प्रायश्चित्तमेव किन्त्वाऽऽज्ञादयश्च दोषाः, तन्निमित्तमपि तेषां प्रायश्चित्तमिति भावः। इमे चान्ये दोषाःगिहि गोण मल्ल राउलनिवेयणा पाणकडणुड्डाहे। छक्कायाण विराहण, झावण सुक्खे य वावन्ने / / 450 / / साधूनामभावे गृहिणस्तं त्यजन्ति। यदिवा-गावौ बलीवर्दी योक्त्रयित्वा ताभ्यां गृहस्थाः कर्षयन्ति / अथवा-मल्लैः परित्याजयन्ति / यदि वागृहस्था राजकुले निवेदयन्ति, तत्र पाणेराकर्षणे प्रवचनस्योड्डाहः / यथा प्राप्तमीदृशेन धर्मेण, यत्रेदृशी अवस्था प्राप्यते, प्रवचनविरूपा दोषा इयं संयमविराधना। असंयतैर्नीयमानैः षट्काय विराधना, ध्मापनं दहनं तस्य कलेवरस्य गृहस्थैः क्रियेत, ततस्तत्रापिषट्कायविराधना। तथा व्यापन्ने कुथिते कृमिजालसंसक्ते शुष्के शोषमुपगते द्वीन्द्रियविराधना। उपसंहारमाहतम्हा उ वड्डितं चेव, वोढुं जे जइए बला। नयंति दो वि निघोचे,सदोचे ठावए निसि॥४५१।। यस्मादेते अनन्तरोदिता दोषास्तस्मात्स्तोकैरपि परिष्ठापयितव्यं, तत्र विधिः प्रागुक्त एव। यथा यदि चत्वारस्तदाएको वसतिपालः, शेषास्त्रयो विश्रम्य विश्रम्य तत्कलेवरं वहन्ति, यस्तु विश्राम्यति स तृणानि मात्रकं वहति / अथ त्रयो जनाः, यदि वा-दौ, तदा यदि रात्रौ निर्भयं तर्हि (निहोचे) निर्भये येन तदुपरि कलेवरं बोद्ध प्रति सह्याः समर्थास्ते द्वावपि नयन्ति, उपधिं तच कलेवरं नयन्तीत्यर्थः। नीत्वा च कलेवरं परिष्ठापयन्ति / अथ बहिरुपकरणस्तेनभयं तदा रात्रायुपकरणं विहायसि विलम्ब्य द्वार बद्धा परिष्ठास्य प्रत्यागच्छन्ति / यदि वा-सदोचे सभये रात्रौ तत्कलेवरं परिष्ठापयन्ति, स्थापयित्वा बन्धनच्छेदनजागरणाऽऽदिकां यतनां कुर्वन्ति,ततो दिवसे यदि शक्नुवन्ति तदा उपकरणं गृहीत्वा परिष्ठापयन्ति / अथोपकरणं वोढुं न शक्नुवन्ति तदा शय्यातराऽऽदीनां परिनिवेद्य द्वारं स्थगयित्वा परिष्ठापयन्ति, परिष्ठाप्य भूयो वसतौ प्रत्यागच्छन्ति। अह गंतुमणा चेव, तो नयंति ततो चिय। ओलोयणमकुव्वंतो, असढो तं तु सुज्झए / / 452 / / अथान्य ग्राम ते गन्तुमनसस्तत उपकरणं सह नयन्तिानीत्वा तत्कलेवरं परिष्ठाप्य तत एव परिष्ठापनप्रदेशात्परतोऽन्यं ग्राम गच्छन्ति / तत्र यदुक्तमधस्तात्कल्पाध्ययने-“अवरमयम्मि अवलोयणा कायद्या' इति। तदन्यग्रामगमनेनाशठोऽकुर्वन शुध्यति, न दोषभाग् भवति। छड्डेउं जइ जंती, नायमनाए व तेण परलिंगं / जइ कुवंती गुरुगा, आणादी भिक्खुदिटुंतो // 453 / / यदि कालगतं छर्दयित्वा अपरिष्टाप्य गछन्ति तर्हि ते विचारणीयास्तेन ग्रामेण ते ज्ञाता वा, तस्य परिचिता वा इत्यर्थः / तत्र ज्ञाते ग्रामस्य परिचये सति यदि कालगतस्य परलिङ्ग कुर्वन्ति,कृत्वा वा परिष्ठाप्य गच्छन्ति तदा प्रायश्चित्तं चत्वारो गुरुकाः,आज्ञाऽऽदयश्च दोषाः / अथ अज्ञाते परलिङ्ग कृत्वा अपरिष्ठाप्य गच्छन्ति तदा कालगतस्य परलिङ्गदर्शनतो मिथ्यात्वगमनम्।अत्रच श्रावकभिक्षुदृष्टान्तः। स च आवश्यकटीकातो भावनीयः / (स चाऽस्मिन् कोशेऽग्रे'भिक्खुदिमुत' शब्दादवगन्तव्यः) तत्रज्ञातेऽन्ये च दोषास्तानेवाऽऽहअचियत्तमादि वोच्छेयमादिदोसा उहोंति परलिंगे। अन्नाए ओहि काले, अकए गुरुगाय मिच्छत्तं / / 454 / / ज्ञाते सति परलिङ्ग कृतमितराश्च साधून दृष्ट्वा अप्रीति कुर्वन्ति / अहो इमे संयता निःशूका निर्लज्जा मा परिष्ठाप्योभूदिति परलिङ्गमारोप्यापरिष्ठाप्य त्यक्त्वा गताः / आदिग्रहणेनाऽऽगाढमिथ्यादृष्टीनां प्रीतिरुपजायते इति परिग्रहः। सूत्रे च व्युच्छेदाऽऽदयो दोषाः। तथाहि-ते आगाढमिथ्यादृष्टयः प्रीतिं कुर्वते। अहो! सुन्दरमात्मनैव तैः प्रवचनस्य हीलना कृता, मा एतेषामाहारादीनि प्रयच्छथ। आदिग्रहणान्नात्र कोऽपि प्रव्रज्यां प्रतिपद्येत, मा सोऽप्येवंविधामवस्थां प्राप्नुयात्। एते ज्ञातानां दोषाः / अथाज्ञाता यतनां कृत्वा तत्कलेवरमपरिष्ठाप्य व्रजन्ति, यदि क्षिप्रमेव गता-स्ततः स पश्चात्कालगतो देवलोके उत्पन्नोऽवधिं प्रयुक्ते / ततः स एवं मन्यतेअहमेतेन लिनेन देवोजातः, एवं मरणानन्तरं मिथ्यात्वगमनम् / अत्र काले कृते तेषां गमने प्रायश्चित्तं चत्वारो गुरुकाः। यस्मादेते दोषास्तस्माद्विधिना परिष्ठाप्यः। संप्रति यः कथञ्चन एकाकी जातस्तस्य परिष्टायनाविधिमाहएगागी तो जाहे, न तरेज विगिंचिउं तया सो उ। ताहे य विमग्गेज्जा, इमेण विहिणा सहायाओ।।४५५।। तत एकाकी त्यक्तकलेवर विवेक्तुंन शक्नुयात्, तदा अनेन वक्ष्यमाणेन विधिना सहायान्विमार्गयत्। तमेव विधिमाहसंविग्गमसंविग्गे, सारूवियसिद्धपुत्त सण्णीय।