________________ पारिट्ठावणिया 871 - अभिधानराजेन्द्रः - भाग 5 पारिट्ठावणिया स्तस्याः प्रथमाया दिशोऽन्यस्यां दिशि द्वितीयस्यां स्थण्डिलं यतनया प्रेक्षेत, तस्या अपि लभ्यमानाया अभावे व्याघाते वा तृतीयस्यामेवं यावचरमायामपि, न च प्रागुक्तो दोषः, तीर्थकराऽऽज्ञानुपालनपुरस्सर यतनया प्रवृत्तेः / यदि पुनर्द्वितीयस्यां सत्यां तृतीयस्यां दोष उक्तः स प्रसज्जति, चतुयां तृतीयोक्तः / एवमुत्तरोत्तरदिक्षु अपि भावनीयम्। गतं दिगद्वारम्। अधुना स्थण्डिलद्वारमाहसिलायलं पसत्थं तु, जत्थ दुच्छदि फासुयं / झामथंडिलमादी वा, निंबादीणे समीवगे।।४४१॥ शिलातलं शिलातलरूपं यत् प्रशस्तं स्थण्डिलं तत्र परिष्ठापयन्ति। / अथवा-यत्र गोकुलमजा वा उषिताः। आदिशब्दादन्यद्वा यत्प्रासुकंतत्र। यदि वाध्यामिते अग्निना दग्धे प्रदेशे, आदिशब्दात् करीषाऽऽदिप्रदेशरूपे वा स्थण्डिले, यदि वा-निम्बाऽऽदीनां वृक्षाणां समीपे यत्र महान् सार्थ उषितस्तत्र परिष्ठापयन्ति / गतं स्थण्डिलद्वारम्। अधुना "उस्सण्ण' द्वारमाहउस्सण्णाऽऽचिण्ण कप्पा उ, होति खेत्तेसु केसुई। अत्थंडिला दिसासु वा, ते विजाणेज्जपण्णवं / / 442 / / केषुचित क्षेत्रेषु उत्सन्नेन बाहुल्येन बहुकालादाचीपर्णाः कल्पा भवन्ति। किविशिष्टा इत्याह-अस्थण्डिलाः, तथाहि-केषुचित् ग्रामेषु नगरेषु वा एवरूपा मर्यादा यथा एतावति प्रदेशे मृतकं त्यक्तज्य, नान्यत्र, यत्र च स्थण्डिलाभावस्तत्र धर्मास्तिकायप्रदेशनिश्रामुपकल्प्य परिष्ठापयेत्। यत्राऽपि नदीपूरेण वर्षासु स्थण्डिलप्रदेशः प्लावितोऽन्यासु विदिक्षु स्थण्डिलव्याघातस्तत्रापि धर्मास्तिकायप्रदेशनिश्रया परिष्ठापन कुर्यात् / एतच प्रस्तावादुक्तम्, अन्यथा नायमाचीपर्णः कल्पः / तथा केषुचित् क्षेत्रेषु दिक्षु बहुकालाऽऽचीपर्णाः कल्पा भवन्ति। यथा आनन्दपुरे उत्तरस्या दिशि संयताः परिष्ठापयन्ति, ततस्तत्र तथैवपरिष्ठापन कर्त्तव्य, नास्ति कश्चिद्दोषः। तानपि स्थण्डिलान् दिक्षु वा कल्प्यान् प्रज्ञावान् जानीयात्, ज्ञात्वा च तथैव समाचरेदिति / गतमुत्सन्नद्वारम् / इदानी क्षेत्रविभक्ते सीमायामिति द्वारमाहखेत्ते वि भत्ते गामे, रायभए वा अदेंत सीमाए। भोजियमादी पुच्छा, रायपहे सीममज्झे वा / / 443|| कृचित ग्रामे कौटुम्बिकैः क्षेत्रभूमयःसर्वा अपि सीमाछेदेन विभक्ताः, ततः समस्तं भूखण्ड क्षेत्रनिरुद्धं, क्षेत्रसीमासु च न लभ्यते परिष्ठापयितुम् / कुल इत्याह- (रायभए वाअत सीमाए) यदि क्षेत्रसीमायां परिष्ठाप्यते तदा येषां कुटुम्बिनां सीमा, ते राजकुले गृह्यन्ते,यथा युष्माभिरय मारितः,ततः सीमायां राजभयेन, वाशब्दः समुच्चये, अददत्सु कौटुम्बिकेषु तस्य ग्रामस्य यो भोजिको महतरः, स पृच्छ्यते-यथा क्षेत्रसीमायां वयं मृतकं परिष्ठापयामः, आदिशब्दात् यदि स ब्रूयात्आयुक्तो जानाति, नाहमिति / ततस्तं पृच्छ तदा स पृछ्यते, यदि सोऽनुजानाति ततः सुन्दरम्। अथ नानुजानाति तदा राजपथेपरिष्ठाप्यते। अथवा-द्वयोमयोर्मध्ये सीमायां सरजोऽवग्रह इति कृत्वाऽधुना श्मशानमाह असतीए तु ससाणे, संभण अन्नत्थ अपरिभोगम्मि। असती अणुसद्वादी-ऽणंतग अंताई इयरे वा / / 444 / / राजपथस्य ग्रामद्वयमध्यस्य वा कथमप्यभावे (ससाणे) श्मशाने परिष्ठाप्यते। अथ श्मशानपालकः श्मशानद्वारे स्थितो निरुणद्धि, यथा यत् दातव्यं तत्त्वा श्मशानमभिगच्छथ, तदा अन्यत्रापरिभोगे यत्रानाथमृतकानिपरिष्ठाप्यन्ते दह्यन्तेवातत्र परिष्ठापयन्ति / अथ तादृक् स्थान न विद्यते तदा तस्य असत्यभावे तस्य श्मशानपालकस्य अनुशिष्टिः शासनम् / आदिशब्दात् धर्मकथा च क्रियते / अथ तथापि न ददाति तर्हि (से) तस्य मृतस्य यानि तिगानि अन्तानि तस्मै दीयन्ते, अथ तानि नेच्छति, तर्हि इतराणि नवानि दीयन्ते। कथभूतानीत्यत आहअदासइ अणिच्छंते, साहारण गमण दार मुत्तूण / सति लंभमुवारुहणं, सचेव विगिचणाऽलंभे // 445 / / अदशानि दशारहितानि दीयन्ते, अथ तानि नेच्छति तर्हि साधारणं वचनं भण्यते, यथाऽयं कालगतोऽवतारितस्तिष्ठतु. वयं ग्रामं प्रविश्य मार्गयामो, यदि लभ्यामहे दास्यामो, नो चेत् तमिदं मृतकमिति / एवं साधारणं वचनमुक्त्वा, नवरं श्मशानद्वारे अवतार्य ग्राममध्ये गमनं कुर्वन्ति / यदि लब्धानि सदशानि वस्त्राणि ततः प्रत्यागत्य दत्त्या परिष्ठापयन्ति। अथ न लब्धानितदा राजकुले उपारोहणं चटन,चटित्वा निवेद्यते-यथा युष्मदीयः श्मशान-पालकः श्मशाने व्रतिनं कालगतं मोक्तुं न ददाति, साधवो हि निष्किञ्चनाः स त्वरमभ्यं याचते / एवं निवेद्य तस्य पुरुषमानीय परिष्ठापयन्ति। एतेन यदधस्तनद्वारगाथायां व्यवहार इत्युक्तं तद्भावितम् / अथ राजकुलं ब्रूयात्-श्मशानपालस्यैतदायत्त, ततो यत्स ब्रूते तत्कर्त्तव्यम्। एवं राजकुले व्यवहारस्यालाभे सैव विवेचना। किमुक्तं भवति?पुनस्तत्र गम्यते। सीयाणस्स वि असती, अलंभमाणे उवरि कायाणं। निसिरंता जयणाए, धम्मादिपदेसनिस्साए॥४४६|| अथ श्मशानपालकः श्मशानद्वारे मृतकस्य स्थापनं न ददाति तदा श्मशानस्याभावे श्मशानद्वारेऽवस्थापयितुमलभ्यमाने अस्थण्डिलेऽपि कायानां हरति, कायादीनामुपरि यतनया धर्माऽऽदिप्रदेशनिश्रया धर्मास्तिकायाऽऽदिप्रदेशेष्विदं परिष्ठापयाम इति कल्पनया, निसृजन्तः परिष्ठापयन्ति शुद्धाः। एसा सत्तण्ह मज्जाया, ततो वा जे परेण य। हेट्ठा सत्तण्ह लोगा उ, तेसिं वुच्छामि जो विही / / 447 / / एषा अनन्तरोदिता मर्यादा विधिः सप्तानां, तेभ्यो वा सप्तभ्यः परेण परतो ये अष्टप्रभृतयस्तेषां द्रष्टव्यो; ये तु सप्तानामधस्तात् लोकास्तेषां यो विधिस्तं वक्ष्ये। ___ प्रतिज्ञातमेव करोतिपंचण्ह दोण्हि हारा, भयणा आरेण पालहारेसु / ते चेव य कुसपडिमा, नयंति हारावहारो वा / / 448 // यदि सप्तानामधस्तात् षट्भवन्ति, तदा त्रयो विश्रम्य द्वौ द्वौ भूत्वा वहन्ति, एको वसतिपालः, एकस्तृणाऽऽदिमातृकच गृह्णाति। पञ्चानां विधिंसाक्षादाहपञ्चानां साधूनां संभवे द्वौ हारौ वहत इत्यर्थः / तृतीयः कुशाऽऽदि नयति,