________________ पारंचिय 866 - अभिधानराजेन्द्रः - भाग 5 पारंचिय "सिहरिणि त्ति" दर्शयति ४साधुना केनचित् क्वापि, लब्धा शिखिरिणी शुभा / / 6 / / तया निमन्त्रितस्तेन, गुरुस्तां निखिला पपौ। तं सोऽथास्मानमुद्गीर्य, हिंसन्नन्येयवार्यत।।१०।। तथाऽप्यनुपशान्ते च, तस्मिन्ननशनं गुरुः। स्वगच्छ एव विदधे, नान्यं गच्छं जगाम सः / / 11 / / "उलुगच्छित्ति" दर्शयति३अस्तं गतेऽपि कोऽप्यर्के सीव्यन् गुरुभिरौच्यत। उलूकाक्षोऽसि भिक्षो ! त्वं, स रुष्टो गुरुमूचिवान् / / 12 / / तवैवं वदतो वे अप्यक्षिणी उद्धराम्यहम्। अथाऽसौ गुरुणा माद, क्षमितोऽपि न शान्तवान् / / 13 / / ततो रजोहतो लोहमयीमाकृष्य कीलिकाम् / रोषाऽऽध्मातः स दुष्टाऽऽत्मा, समुद्दधेऽक्षिणी गुरोः॥१४॥" एते चत्वारोऽपि साधवो दुष्टत्वात् लिङ्गपाराशिकाः / परपक्षकषायदुष्टस्तुराजवधक उदायिनृपमारकवत् / विषयदुष्टस्यैव भङ्ग चतुष्टयम्स्वलिङ्गीस्वलिङ्गिनीं साध्वीं सेवते 1, स्वलिङ्गी गृहलिङ्गिनी स्त्रियम् 2, स्वलिङ्गी अन्यलिङ्गिनी परिव्राजिकाऽऽदिकाम् 3, अन्यलिङ्गी चान्यलिङ्गामिति ४,शुन्योऽयं भङ्गातत्राऽऽद्यो विषयदष्टः- "पावाण०" (131) इत्यादिगाथाऽस्मिन्नेव भागे 861 पृष्ठे गता। द्वितीयविषयदुष्टस्तु बहुशः पौनः पुन्येन प्रकाशो लोकविदितः राजागमहिषीप्रतिसेवकश्च / अग्रमहिषीग्रहणादन्या अप्यनतिदिष्टा राजस्तत्वकश्वशब्दात युवराजसेनापत्याद्यामहिषीसेवकश्च / द्वावप्येती लिङ्गपाराश्चिकौ / तृतीयविषयदुष्टस्याप्यतिशयी लिङ्ग दद्यान्नान्यः / अनतिशयी तु तस्यापि लिई पाराञ्चिकमेव दत्त इत्यर्थः / अत्राऽऽह शिष्यः-सामान्यस्त्रीसवकः साधुः किन पाराश्चिकः? उच्यते-बहुपाया राजाऽऽद्ययमहिष्यः, तत्सेवने कुलगणसद्धाऽऽचार्याणां प्रस्तारः संहाररूपो, निर्विषयता वा स्यात्, इतरस्त्रीषु पुनर्वतभङ्ग एव दोष: दोषवत एव चैकस्याऽपाय इति तस्य मूलम्। व्याख्यातो दुष्टपाराश्चिकः। मूढपाराञ्चिकमाहथीणद्धिमहादोसो,अण्णुण्णासेवणपसत्तो य। चरमट्ठाणवत्तिसु, बहुसो य पसज्जए जो उ 166|| स्त्यानर्द्धिदर्शनाऽऽवरणीयकर्मभेदरूपस्य निद्रापञ्चकस्य पञ्चमो भेदः, यदुदयेऽतिसं क्लिष्ट परिणामाऽऽदिनाऽदृष्टमर्थमुत्थाय प्रसाधयति, केशवार्द्धबलश्च जायते / तदनुदयेऽपि च स शेष पुरुषेभ्यरित्रचतुर्गुणबलो भवति / इय च प्रथमसंहनिन एव भवति. इयमेव च महान दोषो यस्य स स्त्यानर्द्धिमहादोषः। अयं च मूढः प्रमत्तश्च कथ्यते / एते च पुद्गलमोदकहस्तिदन्तकुम्भकारवटशाखाधवः पञ्च स्त्यानामुदाहरणानि / तद्यथा"एकः कुटुम्बिको ग्रामे, मांसमेवात्त्यनेकधा। श्रुत्वा धर्म स केषाञ्चित्,समीपे व्रतमग्रहीत्।।१।। विचरँश्च क्वचिद् ग्रामे, महिषं पिशितार्थिभिः। विभज्यमानमद्राक्षीत्. ततोऽभूत्तत्र सस्पृहः / / 2 / / सोऽव्युच्छिन्नतदाकाङ्गो, भुक्तो यातो बहिर्भुवम् / सूत्रस्य पौरुषीं चान्या, चक्रे सुप्तस्तथा निशि।।३।। जातस्त्यानर्द्धिरुत्थाय, गत्वा महिषमण्डलम्। हत्वैक भुक्तवान् शेवमेत्य सद्मोपरि न्यधात्।।४।। ईदृग दृष्टः प्रगे स्वप्नः, इत्यालोचितवान् गुरोः। दिशोऽवलोकनात् तच्च, मुनिभिर्मासमीक्षितम् / / 5 / / सोऽथ स्त्यानर्द्धिमान ज्ञात्वा, लिङ्गपाराश्चिकः कृतः। साधुर्भिक्षा भ्रमन कोऽपि, मोदकान् वीक्ष्य कुत्रचित् / / 6 / / चिरमैक्षिष्ट गृद्धस्तानलब्ध्वाऽशेत तन्मनाः। जातस्त्यानर्द्धिरुत्थाय, गत्वा तद्भवनं निशि / / 7 / / भित्त्वा कपाटमत्ति स्म, मोदकानुद्धतानथ। पात्रे कृत्वाऽश्रये प्राप्तः प्रातः स्वप्रेन्यवेदयता। दृष्ट्वा पादोनपौरुष्या, तान् पात्रप्रतिलेखने। लिङ्गपाराशिकः सोऽपि, ततो गुरुभिरादधे / / 6 / / एकः साधुर्गतो भिक्षा, त्रासितः करिणा ततः। पलायितः कथमपि, तस्मिन् रुष्टश्च सुप्तवान्।।१०।। जातस्त्यानर्द्धिरुत्थाय, गत्वा व्यापाद्य तं गजम्। आनीय दन्तमुशले, विन्यस्योपाश्रयोपरि।।११।। पुनः सुप्तः प्रगे स्वप्रे, व्याचक्षेऽथ तपोधनैः। दृष्ट्वा दन्तान् स विज्ञातो, लिङ्ग पाराश्चिकः कृतः / / 12 / / गच्छे महति कस्मॅिश्चित्. प्रावाजीत्कुम्भकारकः / सुप्तः स्त्यानर्द्धिभाग्रात्रौ, मृत्तिकाभ्यासतः स तु / / 13 / / समीपस्थितसाधूनां,चिच्छेद च शिराँ स्यधीः। एकान्ते निक्षिप्य तानि, शीर्षाणि च वपूंषि च / / 14 / / शेषा अपसृता भूयः, सुप्तः स्वप्रं प्रगेऽवदत्। मृतान वीक्ष्याथ साधून स, लिङ्ग पाराश्चिकः कृतः।।१५।। वटस्याऽधोऽध्वना कश्चित्, भिक्षाचर्या गतो मुनिः। आतपाऽऽर्ता वलन् वेगात्, क्षुत्तृट्ग्रीष्मार्कतापितः।।१६।। तच्छाखायामास्फलितो, रुष्टस्तस्यामसन्निशि। स्त्यानद्धर्युदयतो गत्वा, भक्त्वा शाखा समागतः / / 17 / / विन्यस्योपाश्रयद्वारे, सुप्तः स्वप्नन्यवेदयत्। प्रातः स्त्यानर्द्धिमान ज्ञात्वा, लिङ्गपाराश्चिकः कृतः / / 18 / / केऽप्याहुः प्राग वनेशोऽभूत सोऽथ स्त्यानर्द्धिमान्नरः। संजमे प्राग्भवाभ्यासाद, वटशाखां ततोऽभनक् / / 16 / " उक्तो मूढपाराश्चिकः। अन्योऽन्यं कुर्वाणः पाराशिकस्तु-(अण्णुन्नासेवणपसत्तो य) अन्योऽन्य पुरुषः पुरुषान्तरेण सह परस्पर मुखपायुप्रयोगतो मैथुनाऽऽसेवनाया प्रसक्तः। तथा चरमस्थानं पाराश्चिकं. तदापत्तिहेतवो ये अतिचारास्तेषु, बहुशः पौनःपुन्येन यश्च प्रसजति प्रसक्तो भवति, स पाराश्चिकः क्रियत इत्यर्थः। एतदेवाऽऽहसो कीरइ पारंची, लिंगाओ खित्त कालओ तवओ। सो पागडपरिसेवी, लिंगाओ थीणनिद्दीय // 67|| पाराश्चिकः चतुर्दा-लिङ्गतः, क्षेत्रतः, कालतः, तपोविशेषतश्वा तत्र लिङ्गपाराश्चिके द्रव्यभावलिङ्गपाराञ्चिके द्रव्यभावलिङ्गाभ्यां चतुर्भङ्गीद्रव्यलिङ्गेन पाराश्चिको भावलिङ्गेन च 1, द्रव्यंलिङ्गेन पाराश्चिको न भावलिङ्गेन 2, भावलिङ्गे न पाराश्चिको न द्रव्यलिङ्गेन 3. उभाभ्यामपि न पाराश्चिक इति, चतुर्थः शुद्धः। तत्र स प्रकटप्रतिसेवी राजाग्रमहिष्यादिसेवकः स्त्यानर्द्धिमान् / चशब्दाद् अन्योऽन्यासेवनाप्रसक्तो राजबधकश्च, लिङ्गतः पाराञ्चिको द्रव्यलिङ्गभावलिङ्गाभ्यां पाराञ्चिक: क्रियत इत्यर्थः। अत्र पाराञ्चिकं गाथाद्वयेनाऽऽहवसहि निवेसण पाडग-साहिनिओगपुरदेसरज्जाओ।