________________ पारंचिय 865 - अभिधानराजेन्द्रः - भाग 5 पारंचिय जनेन यूयमत्राऽऽगताः / अत्रान्तरे येन कार्येण समागतस्य दीपना प्रकाशना ततो राजा (हासुच्छलिउत्ति) हासेन युक्त उच्छलितो हृष्टो, हसितमुख, प्रहृष्टश्च सन्नित्यर्थः / भणति यथा मया विसर्जितमुत्कलितं निषियाऽऽज्ञपनाऽऽदिकं कार्यमिति / एवं च किं सजातमित्याहसंघो न लभइ कजं, सव्वं कज्जं महाणुभाएण। तुज्झं ति विसज्जेऽहं, सो वि य संघो त्ति पूएति / / 176 / / निर्विषयत्वाऽऽज्ञापनमुत्कलनाऽऽदिलक्षण कार्य संघो नलभते, किंतु तेनपाराश्चिकेन महानुभागेन सातिशयाचिन्त्यप्रभावेन लब्धम्। न च स एवं कार्यलाभेन गर्वमुद्बहति।यत आह-(तुज्झ ति इत्यादि) राजा प्राहयुष्माकं भणितेनाहं पूर्वग्राहं त्यक्त्वा यत्कार्यं विसर्जयामि, नान्यथा। सोऽपि च पाराञ्चिको ब्रूते-राजन! कोऽहं? कियन्मात्रो वा गरीयान सो भट्टारकः, तत्प्रभावादेवाह किञ्चित् जानामि, तस्मात् सङ्घ माहूय क्षमयित्वा यूय-मेव ब्रूत-मुत्कलितं राज्ञा युष्माकमिति। ततो राजाऽपि सङ्घ पूजयति। अब्झत्थितो व रण्णा,सयं व संघो विसज्जति उ तुट्ठो। आदीमज्झऽवसाणे, सया विदोसो धुओ होइ॥१७७।। राजा सङ्घ ब्रूयात्-मया युष्माकं विसर्जन कार्य, परं मदीयमपि कार्यमिदानीं कुरुतमुञ्चतास्य पाराञ्चिकस्य प्रायश्चित्तम् / एवं राज्ञा अभ्यर्थितो, यदि वा-स्वयमपि तुष्टः सङ्घो विसर्जयति मुत्कलयति / किमुक्तं भवति? यद् व्यूढं तद् व्यूढमेव शेषं तु पुनः देशतः सर्वतो वा प्रमादेन मुञ्चति, तस्य च पाराञ्चिकतपसस्तदानीमादिमध्यावसानं वा भवेत, त्रिधाऽपि सङ्घस्याऽऽदेशात् सर्वोऽपि पाराञ्चिकाऽऽपत्तिहेतोर्दोषो धूतः कम्पितः, प्रमादेन स्फेटितो भवतीत्यर्थः / तत्र देशो देशदेशो वा प्रायश्चित्तस्य तेन वाढव्यः। अथ राजा तस्याऽपि मोचने निर्विघ्नं करोति, तदा तदपि मुच्यते, देशो नाम षड्भागः, देशदेशो दशभागः। तत्र देशो यावन्तो मासा भवन्ति तदेव प्रतिपादयतिएक्को य दोणि दोणि य, मासा चउवीस होति छब्भागो। देसं दोण्ह वि एयं, बहिज्ज मुंचेज्ज वा सव्वं / 178 / इहाऽऽशातनापाराञ्चिको जघन्यतो वर्षम्, उत्कर्षतो द्वादशवर्षाणि भवतीत्युक्तम् / तत्राऽपि वर्षस्य षड्भागो द्वौ मासौ, द्वादशवर्षाणां षष्ठे भागे चतुर्विशतिर्मासा भवन्ति / एवंविधं देश द्वयोरप्याशातनाप्रतिसेवनापाराश्चिकयोः संबन्धिन सङ्घस्याऽऽदेशाद्वहेत्। यद्वा-सर्वमपि सङ्घो मुचेत्, किमपि कारयेदित्यर्थः / अथ देशदेशमाहअट्ठारस छत्तीसा, दिवसा छत्तीसमेव चरिमंच। वायत्तरं च दिवसा, दसभाग वहेज्ज बितिओ तु 179 आशातनापाराश्चिके षण्मासाना दशमे भागे अष्टादश दिवसाः, वर्षस्य तुदशमे भागे षट्त्रिंशदिवसा भवन्ति। प्रतिसेवनापाराञ्चिके संवत्सरस्य दशमे भागे षट्त्रिंशदिवसाः, द्वादशवर्षाणां दशमे भागे वर्षमेकं द्वासप्ततिश्च दिवसा भवन्ति / एतावन्तं कालं यद्वहेत, एष द्वितीयो देशदेश उच्यते। उपसंहरन्नाहपारंचीणं दोण्ह वि, जहन्नमुक्कोसयस्स कालस्स। छब्भागं दसभाग, वहिज सव्वं च झोसिज्जा1१८०|| द्वयोरपि आशातनाप्रतिसेवनापाराश्चिकयोर्जघन्य उत्कृष्टश्च यः कालस्तस्य संबन्धिनं षड्भागं वा अनन्तरोक्तं वहेत् / यद्वा-सर्वमप्यवशिष्यमाणं सङ्घो झोषयेत्, प्रसादेन मुञ्चेदिति भावः। बृ० ४उ०। पञ्चा०1 प्रव०। पाराञ्चितशोध्या अतीचारा:तित्थयर पवयण सुयं, आयरियं गणहरं महिड्डीयं / आसाइंतो बहुसो, आभिनिवेसेण पारंची।।६४|| तीर्थकराऽऽदीन् आशातयन हीलयन् आशातनापाराशिको भवति / प्रतिसेवनापाराञ्चिकमाहजो य सलिंगे दुट्ठो, कसायविसरहिं रायवहगो य। रायग्गमहिसिपडिसे-वओ य बहुसो पगासो य||६|| इह प्रतिसेवनापाराश्चिकस्त्रिधा-दुष्टो,मूढः, अन्योन्यं कुर्वाणश्वा यदाह"पडिसेवणपारंची, 0(107)" इत्यादिगाथा सव्याख्याऽस्मिन्नेव भागे 856 पृष्ठे गता। यस्य दुष्टः स द्विधा-कषायतो, विषयतश्च / पुनरेकेको द्विधा (सलिंग त्ति) समानलिङ्गे स्वपक्षे श्रमणश्रमणीरूपे, चकारात्परलिड्ने च परपक्षे गृहस्थेऽन्यतीर्थिकवा ततश्च स्वपक्षपरपक्षाभ्यां कषायदुष्टे विषयदुष्ट च चत्वारः चत्वारो भङ्गा भवन्ति। तत्रैवंकषायदुष्ट भङ्गचतुष्टयम्स्वपक्षकषायदुष्टः परपक्षकषायदुष्टश्चेत्येको भगः। स्वपक्षकषायदुष्टोन परपक्षकषायदुष्ट इति द्वितीयः / न स्वपक्षकषायदुष्टः परपक्षकषायदुष्ट इति तृतीय। उभाभ्यामपि न दुष्ट इति, चतुर्थः शुद्धो भङ्गः। उक्तं च"दुविहो य होइ दुट्ठो,०(१०८)" इत्यादिगाथा सव्याख्याऽस्मिन्नेव भागे 856 पृष्ठे गता। तत्र स्वपक्षकषायदुष्टे चत्वार्युदाहरणानि। "सासवनाले 1, मुहणतए य 2, उलूगच्छि 3, सिहरिणी चेव 4 / " (110) इत्यादिगाथा सध्याख्याऽस्मिन्नेव भागे 856 पृष्ठे गता। "सासवनालं ति' सर्षपभर्जिका १"साधुः कोऽपि गतो भिक्षा, लब्ध्वा सर्षपभर्जिकाम्। रुच्या सुसंस्कृतां गृद्धोऽप्याचार्याणामढौकयत्।।१।। भुक्ता सर्वाऽपि साऽऽचार्य :, साधुश्चाऽऽक्रोशयत्सरान्। ततस्तैः क्षमितोऽप्युचैरूचे भक्ष्यामि ते रदान् / / 2 / / गुरुणाऽचिन्ति मामेष, मावधीदसमाधिना। स्वगणेऽन्यमथाचार्य , कृत्वाऽगात्स गणान्तरे / / 3 / / मृतश्चानशनात् तत्र, सोऽथ दुष्टोऽवदन्मुनीन्। गुरवः क्वागमन्नूचे, तैर्न विद्योऽन्यतोऽथ सः॥४॥ ज्ञात्वा तत्राऽगमत्तांश्वापृच्छत् साधून गुरुः क्व मे। तैरूचेऽद्य मृतस्त्यक्तं, श्मसानेऽस्ति च तदषुः / / 5 / / गत्वा तत्राथ तदन्तान्, स भनवित च वक्ति च। खादिष्यसि पुनः किं में, रुच्या सर्षपभर्जिकाम्? // 6 / / 'मुहणंतग ति" दर्शयति२अन्यः कोऽपि मुनिलब्ध्वा, मुखानन्तकमुज्ज्वलम्। गुरोरढोकयंत् तच्चाऽऽददे तैः सोऽपि रुष्टवान् // 7 / / तदर्थापयतोऽप्यस्य, नाऽऽददे तं पुनर्निशि। तल्लास्यसीति जल्पन् स, गुरुं गाढं गलेऽग्रहीत् // 8 // संमूढो गुरुरप्येनं, ततो द्वावपि तौ मृतौ।