________________ पारंचिय 864 - अभिधानराजेन्द्रः - भाग 5 पारंचिय किं पुनस्तत्कार्यमित्याहकयपराजएण कुवितो, चेइयतहव्वसंजतीगहणे। पुवुत्ताण चउण्ह वि, कजाण हवेज अन्नयरं / / 165 / / वादे कस्याऽपि राजवल्लभवादिनः पराजयेन कुपितः स्यात्। अथवा - चैत्यं, जिनाऽऽयतनं किमपि तेनावरुद्धं स्यात्ततस्तन्मोचने कुद्धो भवेत्। अथवा-तद्रव्यस्य चैत्यद्रव्यस्य संयत्या वा ग्रहण राज्ञा कृतं, तन्मोचने वा कुपितः। ततः पूर्वोक्तानामिहैव प्रथमोद्देशके प्रतिपादिताना निर्विषयित्वाज्ञापनभक्तपाननिषेधोपकरणहरणजीवितचारित्रभेदलक्षणानां चतुपर्णा कार्याणामन्यतरत् कार्यमुत्पन्नं भवेत्, ततो न गच्छेत् / अथवाऽगमने चोपाध्यायः प्रेषणीयोऽन्यो वेति। तथा चाऽऽहपेसेइ उवज्झायं, अन्नं गीतं व जो तहिं जोग्गो। पुट्ठो व अपुट्ठो वा, सया वि दीवेति तं कजं // 166 / / पूर्वोक्तकारणवशात स्वयमाचार्यः तत्र गमनाभावे उपाध्याय, तदभावे अन्यो वा यो गीतार्थस्तत्र योग्यस्तं प्रेषयति, तत्र गतः सन् तेन पाराञ्चितेन किमद्य क्षमाश्रमणा नाऽऽयाता इति पृष्टो वा अपृष्टो वा तत्कार्य कारण दीपयेत् यथा अमुकेन कारणेन नाऽऽयातः। जाणता माहप्पं, सयमेव भणंति एत्थ तं जोग्गं / अस्थि मम एत्थ विसओ, अजाणए सो वए तेसिं। 167 / इह यदिग्लानीभवनाऽऽदिना कारणेन क्षमाश्रमणानागमनं पृष्टन अपृष्टेन वा दीपित, तदा न किमप्यन्यत्तेन पाराञ्चितेन वक्तव्यं, किंतु गुर्वादेश एव ततो यथोदितः संपादनीयः। अथ राजप्रद्वेषतो निर्विषयत्वाऽऽज्ञापनाऽऽदिना व्याघातो दीपितस्तत्र यदि ते उपा-ध्याया अन्ये वा गीतार्थास्तस्य किंचित् स्वयमेव बुद्ध्यन्ति, ततो जानन्तः स्वयमेव तस्य माहात्म्यं तं भणन्ति बुवते-यथाऽस्मिन् प्रयोजने त्वं योग्य इति क्रियतामुद्यमः। अथ नजानतेतस्य शक्तिं. ततः स एवतान् अजानानान् ब्रूते, यथा अस्ति ममात्र विषय इति। एतच्च स्वमुपाध्यायाऽऽदिभिर्वा भणितो वक्तिअत्थउ महाणुभागो, जहासुहं गुणसताऽऽगरो संघो। गुरुगं पि इमं कजं, मं पप्प भवेस्सए लहुयं / / 168|| तिष्ठतु यथासुखं महान् अनुभागोऽधिकृतप्रयोजनाऽनुकूला अचिन्त्या शक्तिर्यस्य स तथा, गुणशतानामनेकेषां गुणानामाकरो निधानं गुणशताऽऽकरः सङ्घः। यत इदं गुरुकमपि कार्य मां प्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रयोजनस्य लीलयाऽपि साधने इति भावः। एवमुक्तेऽसौ अनुज्ञातः सन् यत्करोति तदाहअभिहाणहेउकुसलो, बहूसु नीराजितो वि उ सभासु / गंतूण रायभवणं, मणाति तं रायदारटुं॥१६९।। अभिधानहेतुकुशलः, शब्दमार्गे तर्कमार्गे चाक्षुण्ण इत्यर्थः / अत एव बहुषु विद्वत्सभासु नीराजितो निर्वटित इत्थंभूतः स राजभवने गत्वा तं राजद्वारस्थं प्रतीहार भणति। किं भणतीत्याहपडिहाररूवी ! भण रायरूविं, तमिच्छए संजयरूवि दटुं / निवेदयित्ता य स पत्थिवस्स, जहिं निवो तत्थ तयं पवेसे / / 170 / / हे प्रतीहाररूपिन् ! मध्ये गत्वा राजरूपिणं राजानुकारिणं भण-यथा त्वां संयतरूपी दृष्टुमिच्छति। एवमुक्तः सन् स प्रतीहारस्तथैव पार्थिवस्य निवेदयति, निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र तकं साधु प्रवेशयति। तं पूयइत्ता य सुहासणत्थं, पुञ्छिसु रायाऽऽगयकोउहल्लो। पण्हे उराले असुए कयाई, सयावि आइक्खइ पत्थिवस्स // 171 / / तं साधुं प्रविष्ट सन्तं राजा पूजयित्वा शुभाऽऽसनस्थं शुभे आसने उपविष्टम्, आगतकुतूहलोऽप्राक्षीत् / कानित्याह-प्रश्नान् उदारान् गम्भीरार्थान् कदाचिदप्यश्रुतान् प्रतीहाररूपिन इत्येवमादिकान् / स चाऽपि साधुरेवं पृष्टः पार्थिवस्याऽऽचष्टे। किमाचष्ट इत्याहजारिसग आयरक्खा, सक्कादीणं तु तारिसो एसो। तुह राय ! दारपालो, तं पि य चक्कीण पडिरूवी / / 172 / / यादृशकाः खलु शकाऽऽदीनाम्,आदिशब्दात्त्वपराऽऽदिपरिग्रहः। आत्मरक्षाः, तादृश एव तव राजन् ! द्वारपालस्तत उक्तम्- हे प्रतीहाररूपिन् ! तथा त्वमपि यादृशश्चक्रवर्ती तादृशो न भवसि, रत्नाऽऽद्यभावात्। अत्रान्तरे चैक्रवर्तिसमृद्धिराख्यातव्या / किं च-प्रतापशौर्यन्यायानुपालनाऽऽदिना तत्प्रतिरूपोऽसि, तत उक्तम्- राजरूपिणं बहि, चक्रवर्तिप्रतिरूपमित्यर्थः / एवमुक्ते राजा प्राऽऽहत्वं कथं श्रमणानां प्रतिरूपी। तत आहसमणाणं पडिरूवी, जं पुच्छसि राय ! तं जहमहं ति। निरतीयारा समणा, न तहाऽहं तेण पडिरूवी॥१७३।। यत् त्वं राजन् ! पृच्छसि अथ कथं त्वं श्रमणानां प्रतिरूपी, तदह कथयामि-यथा श्रमणा भगवन्तो निरतिचाराः,न तथाऽहं तेन श्रमणाना प्रतिरूपी,न साक्षात् श्रमण इति। प्रतिरूपित्वमेव भावयतिनिव्वूढो मिनरीसर !, खेत्ते वि जईण अत्थिन लभे! अतिचारस्स विसोधिं,पकरेमि पमायमूलस्स।।१७४।। हे नरेश्वर ! प्रमादमूलस्याऽतिचारस्य सम्प्रति विशोधिं प्रकरोमि. तां च कुर्वन् नियूंढोऽरिम निष्काशितोऽस्मि, तत आस्तामन्यत्, क्षेत्रेऽपि यतीनामहमास्थातुं न लभते, ततः श्रमणप्रतिरूप्यहमिति। राजा प्राहकस्त्वया कृतोऽतिचारः, को वा तस्य विशोधिः? इत्थं पृष्ट यत्कर्तव्यं तदाहकहणाऽऽउट्टण आगमण पुच्छणं दीवणा य कन्जस्स। वीसज्जियं ति य मए, हासुस्ससितो भणति राया // 175 / / कथना राज्ञा पृष्ट स्य प्रसङ्ग तोऽन्यस्याऽपि यथा प्रवचन भावना भवति, तत आवर्तनमाकम्पनं . राज्ञो भक्तीभवन - मिति भावः। तदनन्तरमागमनकारणस्य प्रश्रः, के न प्रायो