________________ पारंचिय 863 - अभिधानराजेन्द्रः - भाग 5 पारंचिय अथ तस्यैव गणनिर्गमनविधिमाहइत्तरियं णिक्खेवं, काउं अण्णं गणं गमित्ता थे। दव्वादिसुभे वियडण, निरूवसग्गट्ठ उस्सग्गो।।१५६।। इह यः पाराश्चिकं प्रतिपद्यते स नियमादाचार्य एव भवति। तेन च स्वगणे पाराशिकं न प्रतिपत्तव्यम्। अन्यस्मिन् गणे गन्तव्यम्। तत इत्वरं गणनिक्षेपमात्मतुल्ये शिष्ये कृत्वा ततोऽन्यं गणं गत्वा द्रव्यक्षेत्रकालभावेषु शुभेषु प्रशस्तेषु विकटनामालोचना परगणाऽऽचार्यस्य प्रयच्छति, उभावपि च निरुपसर्गप्रत्ययं कायोत्सर्ग कुरुतः। अथ किं कारण स्वगणे न प्रतिपद्यते? उच्यतेअप्पच्चय णिब्भयया, आणाभंगो अजंतणा सगणे। परगणे न होंति एए, आणाथिरता भयं चेव // 157|| स्वगच्छ एव पाराश्चिकप्रतिपत्तौ अगीतार्थानामप्रत्ययो भवतिनूनमकृल्यमनेन प्रतिसेवितं येन पाराञ्चिकः कृतः, ततस्तेषां निर्भयता भवति,न गुरुणां विभ्यति इत्यर्थः / अबिभ्यतश्चाऽऽज्ञाभङ्ग कुर्वीरन्, अयन्त्रणा च स्वगणे भवति, शिष्यानुरोधाऽऽदिना स्वयमेव भक्तपानाऽऽनयनाऽऽदो नियन्त्रणे वक्ष्यमाणा न भवतीत्यर्थः। परगणे च एते दोषा न भवन्ति। अपि च-तत्र गच्छता भगवतामाज्ञाऽनुपालने स्थिरता स्थैर्य कृतं भवति, भयं चाऽऽत्मनः सञ्जायते। ततः परगणं गत्वा तत्र पाराश्चिकं प्रतिपद्य निरपेक्षः सक्रोशयोजनात् क्षेत्राद् बहिर्ब्रजति। तस्य चेयं सामाचारीजिणकप्पियपडिरूवी, बाहिं खेत्तस्स सो ठितो संतो। विहरति वारस वासे, एगागी झाणसंजुत्तो।।१५८|| जिनकल्पिकप्रतिरूपी अलेपकृतं भैक्ष्यं ग्रहीतव्य, तृतीयस्यां पौरुष्या पर्यटनीयमित्यादिका यादृशी जिनकल्पिकस्य चर्या,तां कुर्वन् क्षेत्राद् बहिः स्थितः सन् स पाराश्चिक एकाकी ध्यानसंयुक्तः श्रुतपरावर्तनकचित्तो द्वादश वर्षाणि विहरति। यस्याऽऽचार्यस्य सकाशे प्रतिपद्यते तेन यत्कर्तव्यं तदाहओलोयणं गवेसण, आयरिओ कुणति सव्वकालं पि। उप्पण्णे कारणम्मी,सव्वपयत्तेण कायव्यूँ / / 156 / / आचार्यः पाराञ्चिकस्य सर्वकालमपि, यावन्तं कालं तत्प्रायश्चित्तं वहति तावन्तं सकलमपि कालं यावत् प्रतिदिवसमवलोकनं करोति; तत्समीप गत्वा तदर्शनं करोतीत्यर्थः / तदनन्तरं गवेषणम्-गतोऽल्पक्तामतया भवता दिवसो रात्रिश्चेति पृच्छां करोति। उत्पन्ने पुनःकारणेग्लानत्वलक्षणे सर्वप्रयत्नेन भक्तपानाऽऽहरणाऽऽदिकं स्वयमाचार्येण तस्य कर्तव्यम्। जो उ उवेहं कुला, आयरिओ केणई पमाएणं। आरोवणा उ तस्सा, कायव्वा पुव्वनिदिहा।।६०।। यः पुनराचार्य केनाऽपि प्रमादेन जनव्याक्षेपाऽऽदिना उपेक्षां कुरुते, तस्य समीपं गत्वा तच्छरीरस्योदन्त न वहति, तस्य आरोपणा पूर्वनिर्दिष्टा ग्लानद्वाराऽभिहिता कर्तव्या; चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमिति भावः। "उप्पन्ने कारणम्मि सव्वपयत्तेण कायव्यं' . (156) एतद्भावयतिआहरति भत्तपाणं, उव्वट्ठणमाइयं पि सो कुणति। सयमेव गणाहिवई, अह अगिलाणो सयं कुणति।।१६१।। यदि पाराञ्चिको ग्लानो भवेत् ततस्तस्य गणाधिपतिराचार्यः स्वयमेव भक्तपाने चाऽऽहरति आनयति उद्वर्तनम, आदिशब्दात् परावर्तनोर्द्धकरणोपवेशनाऽऽदिकं तस्य स्वयं करोति / अथ जातोऽग्लानो नीरोगस्तत आचार्य न कमपि कारयति, किं च सर्व स्वयमेव कुरुते। "ओलोयण गवेसण ति" (156) एतद् व्याख्यानार्थमाहउभयं पि दाऊण सपाडिपुच्छं, वोढुं सरीरस्स य वट्टमाणिं / आसासइत्ता य तवोकिलंतं, तमेव खेत्तं समुवेंति थेरा // 162 / / स्थविरा आचार्याः शिष्याणां प्रतीच्छकानां च उभयमपि सूत्रमर्थं च। किं विशिष्ट मित्याह-संप्रतिपृच्छं पृच्छा प्रश्नः, तस्याः प्रतिवचनं प्रतिपृच्छा, तया सहित संप्रतिपृच्छं, सूत्रविषयेऽर्थविषये यत् येन पृष्टं तत्र प्रतिवचनं दत्त्वा तत्सकाशमुपगम्य तदीयशरीरस्य (वट्टमाणि) वर्तमाने काले भवा वार्त्तमानी, वार्ते त्यर्थः / तां वहन्ति, अल्पक्ताम्यतां पृच्छन्तीति भावः / सोऽपि चाऽऽचार्यमागतं मस्तकेन वन्दे इति फेटावन्दनकेन वन्दते। शरीरस्य चोदन्तं पृष्ट्वा यदि तपसा क्लाम्यति,तत आश्वासयति / आश्वास्य च तदेव क्षेत्रं यत्र गच्छोऽवतिष्ठते तत्समुपगच्छन्ति स्थविराः। अथ द्वावपि सूत्रार्थों दत्त्वा तत्र गन्तुं न शक्नोति, ततः को विधिरित्याहअसहू सुत्तं दातुं, दोवि अदाउं व गच्छति पगे वि। संघाडउ से भत्तं, पाणं चाऽऽणेति मग्गेणं / / 163 / / इहैकस्याऽपि कदाचिदेकवचनं कदाचिच बहुवचनं सर्वस्याऽपि वस्तुन एकानेकरूपताऽऽख्यापनार्थमित्यदुष्टम् / असहिण्णुराचार्यः सूत्रं दत्त्वा गच्छति, अथ तथाऽपि न शक्नोति, ततो द्वावपि सूत्रार्थवदत्त्वा (पगे) प्रगे प्रभात एव गच्छति, तस्य चतत्र गतस्य एकः संघाटको भक्तं पानक च मार्गेण पृच्छत आनयति। कदाचित्तत्र गच्छेदपि, तत्रैतानि कारणानिगेलण्णेण व पुट्ठो, अभिनवमुक्को ततो व रोगातो। कालम्मि दुब्बले वा, कजे अण्णे य बाघातो // 16 // स आचार्यो ग्लानेन वा पृष्टो भवेत् अथवा-तस्माद् ग्लानत्वकारणात् रोगादिभिनवमुक्तस्तत्कालमुक्तः स्यात्, ततो न गच्छेत् / यदि वाकाले दुर्बले न विद्यते बलं गमनाय यस्मिन् गाढतपःसंभवाऽऽदिना स दुर्बलोज्येष्ठाऽषाढाऽऽदिकः, कालशब्दोऽभाववाची (?) तस्मिन्न गच्छेत्, शरीरक्लेशसंभवात्। "कज्जे अन्ने च वाघातो'' इति / अत्र सप्तमी तृतीयार्थे, प्राकृतत्वात्। ततोऽयमर्थः-अन्येन वा कार्यण केनापिव्याघातो भवेत्।