________________ पारंचिय 862 - अभिधानराजेन्द्रः - भाग 5 पारंचिय सप्रायश्चित्तोऽपि भावितस्तथैवात्राऽपि मन्तव्यः, नवरमिह स्वपनं सुप्तं, निद्रा इत्यर्थः; तया अधिकारः। सा च पञ्चविधा। बृ०५ उ०। (तत्र निद्रायाः स्वरूपम् 'णिद्दा' शब्दे चतुर्थभागे 2072 पृष्ठे गतम्) (निद्रानिद्राविवरण विस्तरंतः ‘णिवाणिवा' शब्दे चतुर्थभागे 2072 पृष्ठे गतम् ) (प्रचलायाः सर्वोऽधिकारः पयला' शब्देऽस्मिन्नेव भागे 507 पृथ्ऽस्ति) (प्रचलाप्रचला चक्रमतो जन्तोरिति पयलापयला' शब्देऽस्मिन्नेव भागे 508 पृष्ठे गतम्) (अत्र पाराश्चिकस्य प्रस्तुतत्वात् स्त्यानर्द्धिनिद्रया अधिकारः। सा च 'थीणद्धि' शब्दे चतुर्थभागे 2412 पृष्ठे गता) इदानीं पुनः सामान्यलोकबलात् द्विगुणं त्रिगुणं चतुर्गुणं बालन (बल) भवतीति मन्तव्यम् / यत एवमतः स प्रज्ञापनीयः सौम्य ! मुञ्च लिङ्गं नास्ति तव चरण चारित्रम् / यद्येवं गुरुणा सानुनयं भणितो मुञ्चति, ततः शोभनम्। अथ न मुञ्चति ततः सङ्घः समुदितो लिङ्ग तस्य मोक्तुमनिच्छतः सकाशात् हरति उदालयति, न पुनरेकजन इत्याह-मातस्यैकस्योपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्च व्यापादनमपि कुर्यात्। लिङ्गापहारनियमार्थमिदमाहअवि केवलमुप्पादे, ण य लिंगं देति अणतिसेसी से। देसवत दंसणं वा, गिण्ह अणिच्छे पलायंति / / 147 / / अपिःसंभावने, स चैतत् संभावयति-यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथाऽपि (से) तस्य स्त्यानर्द्धिः, ततो लिगमनतिशयी नददाति, यः पुनरतिशयज्ञानी स जानाति-न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति, ततो लिङ्ग ददाति / लिङ्गापहारे पुनः क्रियमाणे अयमुपदेशो दीयते-देशव्रतानि स्थलप्राणातिपातविरमणाऽऽदीनि गृहाण, तानि चेत्प्रतिपत्तुं न समर्थस्ततो दर्शनं सम्यक्त्वं गृहाण / अथैवमप्यनुनीयमानो लिङ्ग मोक्तुं नेच्छति तदा रात्रौ तं मुक्त्वा पलायन्ते देशान्तरं गच्छन्ति / गतः प्रमत्तपारा-शिकः। अथान्योन्यं कुर्वाणं तमेवाऽऽहकरणं तु अण्णमण्णे, समणाणं न कप्पते सुविहिताणं। जे पुण करेंति णाता, तेसिं तु विविंचणा भणिया 145 तुशब्दस्य व्यवहितसंबन्धतया अन्योऽन्यं परस्परं पुनर्यत्करणं मुखपायुप्रयोगेण सेवनं तत् श्रमणानां सुविहितानां कर्तुं न कल्पते। ये पुनः कुर्वन्ति ते यदि ज्ञातारस्तदा तेषां विवेचना परिष्ठापना भणिता। इदमेव व्याचष्टेआसगपोसगसेवी, केई पुरिसा दुवेयगा होति। तेसिं लिंगविवेगो, वितियपदं रायपव्वइए।१४६॥ आस्यं मुखम्, आस्यमेवाऽऽस्यकं, पोषकः पायुः, आस्यकपोषकाभ्यां सेवितुंशीलमेषामित्यास्यकपोषकसेविनः केचित्पुरुषाः साधवो द्विवेदकाः स्त्रीपुरुषवेदयुक्ता भवन्ति, न पुंसकवेदिन इत्यर्थः / तेषां लिङ्ग विवेकः कर्त्तव्यः। द्वितीयपदमत्र भवति-यो राजा प्रव्रजितस्तस्याsऽस्यकषोपकसेविनोऽपि लिङ्गं नापहियते, परं यतनया परित्यज्यते। गतोऽन्योन्यं कुर्वाणः पाराश्चिकः। संप्रति यो दुष्टाऽऽदिर्यतः पाराञ्चिकः क्रियते तदेतदर्शयतिबिइओ उवस्सयाई, कीरति पारंचिओ न लिंगातो। अणुवरमं पुण कीरति, सेसा नियमा तु लिंगाओ / / 150 / / द्वितीयो विषयदुष्ट उपाश्रयाऽऽदेः पाराश्चिकः क्रियते, क्षेत्रत इत्यर्थः। न लिङ्गात्, लिङ्गपाराञ्चिको न विधीयते। अथ ततो दोषान्नोपरमते तदा अनुपरमन् लिङ्गतोऽपि पाराश्चिकः क्रियते / शेषा कषायदुष्टप्रमत्तान्योऽन्यसेवाकारिणो नियमाल्लिङ्गपाराशिकाः क्रियन्ते / किमेत एव पाराञ्चिका उतान्योऽप्यस्ति? अस्तीति ब्रूमः / कीदृशः सः? इति चेदुच्यतेइंदियपमाददोसा, जो पुण अवराधमुत्तमं पत्तो। सब्भावसमाउट्टो, जति य गुणा से इमे होति / / 151 / / इन्द्रियदोषात्, प्रमाददोषावा पाराञ्चिकाऽऽपत्तियोग्याद्यः पुनः साधुरुत्तममुकृष्टमपराधपदं प्राप्तः स यदि सद्भावसमावृत्तोनिश्चयेन भूयोऽहमेव न करिष्यामि, इति व्यवसितस्तदा स तपःपाराञ्चिकः क्रियते; यदि च 'से' तस्य इमे गुणा भवन्ति। के पुनस्ते इत्याहसंघयणविरियआगम-सुत्तत्थविहीऍ जो समग्गो उ। तवसी निग्गहजुत्तो,पवयणसारे अभिगतत्थो।।१५२।। संहननं वज्रऋषभनाराचं, वीर्यधृत्या वजकुड्यसमानता,आगमा जघन्येन नवमपूर्वान्तर्गतमाचाराऽऽख्यं तृतीयं वस्तु, उत्कर्षतो दशमपूर्व संपूर्णः तच्च सूत्रतोऽर्थतश्च यदि परिचितं भवति। एतैः संहननाऽऽदिभिः, विधिना च तदुचितसमाचारेण यः समग्रः संपूर्णः तपस्वी नाम सिंहबिक्रीडिताऽऽदितपःकर्मभावितः, निग्रहयुक्त इन्द्रियकषायाणां निग्रहसमर्थः, प्रवचनसारे अभिगतार्थः परिणामितप्रवचनरहस्यार्थ इति। किंचतिलतुसतिभागमेत्तो, वि जस्स असुभो ण विज्जती भावो। णिज्जूहणारिहो सो, सेसे णिज्जूहणा णत्थि / / 153 / / यस्य गच्छान्नि!ढस्य तिलतुपत्रिभागमात्रोऽपि नि!ढोऽहमित्यशुभो भावो न विद्यते स नियूहणाया अर्हो योग्यः, शेषस्य एतद्गुणविकलस्य नि!हणा नास्ति न कर्तव्या! इदमेव व्याचष्टएयगुणसंपउत्तो, पावति पारंचियारिहं ठाणं। एयगुणविप्पमुक्को, तारिसगम्मी भवे मूलं / / 154|| एतैः संहननाऽऽदिभिर्गुणैः संप्रयुक्तः पाराधिकार्ह स्थान प्राप्नोति। यः पुनरेतद्गुणविप्रमुक्तस्तादृशे पाराञ्चिकाऽऽपत्तिप्राप्तेऽपि मूलमेव प्रायश्चित्तं भवति। / अथ पाराञ्चिकमेव कालतो निरूपयतिआसायणा जहण्णे, छम्मासुक्कोस वारसउ मासे। वासं वारस वासे, पडिसेवउ कारणा भइओ // 155|| आशातनापाराञ्चिको जघन्येन षण्मासान, उत्कर्षतश्च द्वादश मासान् भवति, एतावन्तं कालं गच्छान्नियूँढस्तिष्ठतीत्यर्थः / प्रतिसेवनापाराशिको जघन्येन संवत्सरमुत्कर्षतो द्वादश वर्षाणि नियूँढ आस्ते। (पडिसेवउ कारणे भइओ त्ति) यः प्रतिषेवकपाराश्चिकः, स कारणे कुलगणाऽऽदिकार्ये भक्तो विकल्पितो, यथोक्तकालादगिपि गच्छ प्रविशतीति भावः।