________________ पारंचिय 861 - अभिधानराजेन्द्रः - भाग 5 पारंचिय योनं विधि न कुर्वन्ति ततस्तस्मिन् विधौ इमे दोषा भवेयु:तिव्यकसायपरिणतो, तिव्वतराया. पावइ भयाई। मयगस्स दंतभंजण, सममरणं ढोकुणुग्गिरणा / / 127 / / व्याख्यातार्था। उक्तः कषायदुष्टः / अथ विषयदुष्टमाहसंजति कप्पट्ठीए, सिज्जायरि अण्णउत्थिणीए य / एसो उ विसयदुट्ठो, सपक्खपरपक्खचउभंगो।।१२।। इहापि स्वपक्षपरपक्षपदाभ्यां चतुर्भङ्गी। तद्यथा-स्वपक्षः स्वपक्षे दुष्टः, स्वपक्षः परपक्षे दुष्टः, परपक्षः स्वपक्षे दुष्टः,परपक्षः परपक्षे दुष्टः 4 / तत्र कल्पस्थिकायां तरुण्यां संयत्यां संयतोऽध्युपपन्न इति प्रथमो भगः / संयत एव शय्यातरभूणिकायामन्यतीर्थिक्यां वा अध्युपपन्न इति द्वितीयः / गृहस्थयती कल्पस्थिकायामध्युपपन्नाविति तृतीयः / गृहस्थो / गृहस्थायामिति चतुर्थः / एष च विषयदुष्टश्चतुर्विधो मन्तव्यः। पढमे भंगे चरिमं, अणुवरए वा वि बितियभंगम्मि / सेसेण इहं पगतं, वा चरिमे लिंगदाणं तु // 126 / / प्रथमे भङ्गे चरमं पाराशिकम्। अनुपरतस्याऽनिवृत्तस्य द्वितीयेऽपि भङ्गे पाराश्चिकम। शेषेण तृतीयचरमभङ्ग द्वयेन इह प्रकृतम्। अत्र पाराशिकस्य प्रस्तुतत्वात्तस्य च परपक्षे अघटमानत्वात्। अथवा (वा चरिमे लिंगदाणं तु त्ति) वा विकल्पेन भजनया चरमभङ्गद्वये लिङ्ग दानं कर्त्तव्यम्, यधुपशान्तस्तदा अन्यस्मिन् स्थाने लिङ्ग दातव्यम्, अन्यथा तु नेति भावः। अथ प्रथमभङ्गे दोषं दर्शयन्नाहलिंगेण लिंगिणीए, संपत्ति जइ णियच्छती पावो। सव्वजिणाणऽजाओ,संघो आसातिओ तेणं / / 130|| लिनेन रजोहरणाऽऽदिना युक्तो लिङ्गिन्याः सयत्याः संपत्तिं यदि अधमतया कथमपि कश्चित्पापो नियच्छति प्राप्नोति तर्हि तेन पापेन सर्वजिनानाम् आर्याः संयत्यः सङ्घ श्च भगवानाशातितो मन्तव्यः / पावाणं पावयरो, दिट्टिब्भासेऽवि सो ण वट्टति हु। जो जिणपुंगवमुई, नमिऊण तमेव धरिसेति // 131 / / पापानां सर्वेषामपि स पापतरः, अत एव दृष्टर्लोचनस्याभ्यासेऽपि समीपेऽपि कर्तुस न वर्त्तते न कल्पते, यो जिनपुङ्गगव मुद्रां श्रमणीं नत्वा तामेव धर्षयति। संसारमणवयग्गं, जातिजरामरणवेदणापउरं। पावमलपडलन्ना, भमंति मुद्दाधरिससेणं / / 132|| संसारमनवदग्रमपर्यन्तं जातिजरामरणवेदनाप्रचुरं पापमलपटल- | च्छन्ना मुद्राधर्षणन परिभ्रमन्ति। ततःजत्थुप्पजति दोसो, कीरति पारंचितो स तम्हातु। सो पुण सेवि मसेवी, गीतमगीतो व एमेव / / 133 / / यत्र क्षेत्रे यस्य संयतीधर्षणाऽऽदिको दोष उत्पद्यते, उत्पत्स्यते वा स ] तस्मात् क्षत्रारपाराशिकः क्रियते, स पुनः सेवी वा स्यादसेवी वा, तेन तत्कार्य कृतं वा भवेदकृतं वेति भावः / एवमेव गीतार्थोऽगीतार्थो धा स सर्वोऽपि पाराञ्चिकः कर्त्तव्यः। कथमित्याहउवसयकुले निवेसणपाउगसाहि गाम देस रजे वा। कुलगणसंघे निज्जूहणाए पारंचितो होति // 134|| यस्य यस्मिन्नुपाश्रये दोष उत्पन्न उत्पत्स्यते वा स तत उपाश्रयात्पाराश्चिकः क्रियते / एवं यरिमन् गृहस्थकुले दोष उत्पन्नः, तथा निवेशनमेकनिर्गमप्रवेशद्वारो द्वयोमियोरपान्तराले व्यादिगृहाणां संनिवेशः, एवंविधस्वरूप एव ग्रामान्तर्गतः पावकः, साही शाखारूपेण श्रेणिक्रमेण स्थिता ग्रामगृहाणामतः परिपाटिः, ग्रामः प्रतीतो, देशो जनपदो, राज्यं नाम यावत्सु देशेषु एको भूपतिः राजा तावद्देशप्रमाणम्। एतेषु यत्र यस्य दोष उत्पन्नः, उत्पत्स्यतेवा, सततः पाराश्चिकः क्रियते। तथा कुलेन यो नियूंढो बाह्यः कृतः स कुलपाराञ्चिकः। गणाद् बाह्यः कृतो गणपाराश्चिकः, सङ्घाद्यस्य निर्वृहणा कृता स ससपाराशिकः। किमर्थमुपाश्रयाऽऽदिपाराश्चिकः क्रियते इत्याहउवसंतो वि समाणो, वारिजति तेसु तेसु ठाणेसु। हंदि हु पुणो वि दोसं, तट्ठाणाऽऽसेवणा कुणति / / 135 / / उपशान्तोऽपि स्वलिङ्गनीप्रतिसेवनात्प्रतिनिवृत्तोऽपि सन् तेषु तेषु स्थानेषु प्रतिश्रयकुलनिवेशनाऽऽदिषु विहरन् वार्यते। कुत इत्याह- 'हंदि' निष्कारणोपप्रदर्शने, हुरिति निश्चये, पुनरप्यसो तस्य स्थानस्याऽऽसेवनात्तमेव दोषं करोति। इदमेव स्पष्टरमाहजेसु विहरंति ताओ, वारिजति तेसु तेसु ठाणेसु / पढमे भंगे एवं, सेसेसु अताई ठाणाइं॥१३६।। येषु ग्रामाऽऽदिषु ताः संयत्यो विहरन्ति तेषु तेषु स्थानेषु स विहरन् वार्यते, ततः पाराश्चिकः क्रियत इत्यर्थः / एवं प्रथमभङ्गे स्वपक्षः स्वपक्षे दुष्ट इति लक्षणे विधिरुक्तः / शेषेष्वपि द्वितीयाऽऽदिषु भङ्गेषु तानि स्थानानि विसर्जनीयानि / किमुक्तं भवति? द्वितीयभङ्गे यस्यां नगर्यामध्युपपन्नस्तदीये कुलनिवेशनाऽऽदौ प्रविशन् वारणीयस्तृतीयचतुर्थभङ्गयोः परपक्षः स्वपक्षे, परपक्षः परपक्षे वा दुष्ट इति लक्षणयोरुपशान्तस्यापि तेषु स्थानेषु लिङ्गं न दातव्यम्। एत्थं पुण अहिगारो, पढमगभंगेण दुविहदुढे वि। उच्चारियसरिसाइं, सेसाइँ विकोवणवाए।।१३७।। अत्र पुनर्द्विविधेऽपि कषायतो विषयतश्च दुष्ट प्रथमभने नाधिकारः, शेषाणि पुनर्द्वितीयभङ्गाऽऽदीनि पदानि उच्चारितसदृशानि विनेयमतिविकोपनार्थमभिहितानि / गतो विषयदुष्टः पाराश्चिकः / संप्रति प्रमत्तपाराञ्चिकं प्राहकसाए विकह विगडे, इंदिय निद्दा पमाद पंचविधो। अहिगारो सुत्तम्मी, तहिं नव इमे उदाहरणा।।१३८|| कषायाः क्रोधाऽऽदयः, विकथाः स्वीकथाऽऽदिका, विकट मद्यम्, इन्द्रियाणि श्रोत्राऽऽदीनि,निद्रा वक्ष्यमाणा, एष पाविधः प्रमादो भवति / अयं च निशीथपीठिकायां यथा सविस्तर