________________ पारंचिय 560 - अभिधानराजेन्द्रः - भाग 5 पारंचिय स्तु शिष्याऽऽचार्यायोस्तीव्रक्रोधपरिणतयो:समकालं मरणम् / तृतीयदृष्टान्तप्रसिद्धस्य साधोलोचनढोकनम् / चतुर्थदृष्टान्तोकस्य दन्तकोगिरणम। ईदृशाः स्वपक्षकपायदुष्टा लिङ्गपाराशिकाः कर्तव्याः। गतः प्रथमो भङ्गः। अथ द्वितीयमाहरायवहाऽऽदिपरिणतो, अहवा वि हवेज रायवहओ तु। सो लिंगतों पारंची, जो वि य परिककृती तं तु // 116|| राज्ञो राजामात्यस्य वा परस्य वा प्राकृतगृहस्थस्य वधाय परिणतः। | अथवा-राजदधक एव स भवेत्, विहितराजवध इत्यर्थः। एवमनेकविधपरपक्षदुष्टः, एष सर्वोऽपि लिङ्गपाराश्चिकः कर्तव्यः। योऽपि वाऽऽचार्याऽऽदिकस्तं राजवधकं परिकर्षति वोत्तापयति सोऽपि लिङ्गपाराचिको विधेयः / अथ तृतीयभङ्ग उच्यते-परपक्षः स्वपक्षे दुष्टः स कथं भवति? उच्यते-पूर्वं गृहवासे वसन् वादे पराजित आसीत, स्कन्दकाऽऽवार्येण पालकवत्, वैरिको वा स तस्याऽसीत्। स पुनः कीदृशो भवेत्?, इत्याहसन्नी व असन्नी वा, जो दुट्ठो होति तू सपक्खम्मि / तस्स निसिद्धं लिंगं, अतिसेसी वा वि दिजाहि।।११७|| स च संज्ञी वा असंज्ञी वा यःस्वपक्षदुष्टो भवति तस्य लिङ्गं निषिद्ध, प्रव्रज्या न दातव्येति भावः। अतिशयज्ञानी वा उपशान्तोऽयमिति मत्वा तस्याऽपि लिङ्गं दद्यात्। अथ चतुर्थभङ्गे परपक्षः परपक्षे दुष्ट इति भाध्यतेरन्नो जुवरन्नो वा, बाघातो अहवा वि इस्सरादीणं / सो उ सदेसें ण कप्पति, कप्पति अण्णम्मि अण्णाओ११५ यो राज्ञो वा युवराजस्य वा वधकः स तु पुनः स्वदेशे दीक्षितुंन कल्पते, किं तु कल्पते अन्यस्मिन् देशे अज्ञातो दीक्षितुम्। इत्थ पुण अधीकारो, पढमिल्लुगवितियभंगदुट्टे हिं। तेसिं लिंगविवेगो,दुचरिमे वा लिंगदाणं तु / / 116 / / अत्र पुनः प्रथमद्वितीयभङ्ग : दुष्टे रधिकारः स्वपक्षपरपक्षदुष्टा इत्याद्यभङ्ग द्वयवर्तिभिरिति भावः / एतेषां लिङ्ग विवेकरूप पाराश्चिकं दातव्यम् / अतिशयज्ञानी वा यदि जानाति, न पुनरीदृशं करिष्यति, ततःसम्यगावृतस्य लिङ्ग विवेकं न करोति। (दुचरिमे त्ति) तृतीयचतुर्थलक्षणे यो चरमभङ्गो तथो विकल्पेन लिङ्गदानं कर्तव्यम् / किमुक्त भवति? - परपक्षः रवपक्षे दुष्टः परपक्षः परपक्षे दुष्ट इति भङ्गद्वये वर्तमाना यधुपशान्ता इति सम्यग् ज्ञायन्ते. ततो लिङ्गदानं कर्त्तव्यम् / अथ नोपशान्तास्तता न प्रवज्यन्ते, अपितु तानि स्थानानि परिहार्यन्ते / एष वाशब्दसूचितोऽर्थः। अथ सर्पपनालाऽऽदिदृष्टान्तप्रसिद्धोदालोमा भूदिति हेतोराचार्येण यथा सामाचारीस्थापना कर्तव्याः तथा प्रतिपादयन्नाहसव्वेहि वि घेत्तव्वं, गहणे य निमंतणे य जो तु विही। भुंजती जतणाए, अजतणदोसा इमे हुंति // 120|| सर्वरपि साधुभिराचार्यप्रायोग्य स्वरवमात्रकेषु ग्रहीतव्यम्, तथा ग्रहणे निमन्त्रणे वा यावद्वक्ष्यमाणो विधिः स सर्वोऽपि कर्त्तव्यः। एवं यतनया सूरयो भुञ्जते. अयतनया तु भुजानानामिमे वक्ष्य माणा दोषा भवन्ति / एनामेव नियुक्तिगाथां भावयतिसव्वेहि वि गहियम्मी, थोवं थोवं तु केइ इच्छंति / सव्वेसिं न वि मुंजति, गहित पि वितिय आदेसो / / 121 / / सर्वरप्याचार्यप्रायोग्ये गृहीते केचिदाचार्या इदमिच्छन्तियथा तत एकैकस्य हस्तात् स्तोकं स्तोक गृहीत्वा गुरुणा भोक्तव्यम / एष प्रथम आदेशः / अपरे बुवते-एकेनैव गुरुयोग्यं ग्रहीतव्यम् अथान्यैरपि गृहीते ततस्तद्गृहीतमपि तेषां सर्वेषां हस्तात् स्तोकं स्तोकं न भोक्तव्यं, किंतु तर्निमन्त्रितेन वक्तव्यम्-पर्याप्तम्, इत ऊर्द्ध न गच्छति। एष द्वितीय आदेशः। अममेव व्याचष्टगुरुभत्तिमं जो हिययाणुकूलो, सो गिण्हती णिस्समणिस्सतो वा। तस्सेव सो गिण्हति णेयरेसिं, अलब्भमाणम्मिय थोव थोवं / / 12 / / गुरुभक्तिमान् यश्च गुरूणां हृदयानुकूल छन्दोऽनुवर्ती स गुरुप्रायोग्य निश्रगृहेभ्यो अनिश्रागृहेभ्यो वा गृह्णाति तस्यैव च संबन्धि आचार्यो भक्तपानं गृह्णाति, नेतरेषामपरसाधूनाम् / अथैकः पर्याप्तं न लभते, ततो लभ्यमाने स्तोक स्तोक सर्वेषामपि गृह्णाति। एष ग्रहणविधिरुक्तः / संप्रति निमन्त्रणे विधिमाहसतिलं भम्मि वि गिण्हति, इयरेसिं जाणिऊण निब्वंधी मुंचति य सावसेसं, जाणति उवयारभणियं च // 123|| सति विद्यमानेऽपि प्राचुर्येण लाभे यदीतरे साधयो निमन्त्रयमाणा गाद निर्बन्धं कुर्वते, ततस्तं ज्ञात्वा तेषामपि गृह्णाति, तच तदीयं भुजानः सावशेषं मुञ्चति, मा सर्वस्मिन् भुक्ते प्रद्वेषं स गच्छेत्, उपचारभणितं च जानाति-अयमुपचारेणायं पुनः सद्भावेन निमन्त्रयते, इत्येवं बहिश्चिकरुपलक्षयतीत्यर्थः। गुरुणो भुत्तुव्वरियं, बालादसती य मंडलिं वावि। जं पुण सेसगगहितं, गिलाणमादीण तं दिति॥१२॥ गुरूणा यद् भुक्तोद्वरित तद् बालाऽऽदीनां दीयते, तेषामभावे मण्डलीयानि मण्डलीप्रतिगृहे क्षिप्यते,यत्पुनः शेषैर्गुरुभक्तिमद्व्यतिरिक्तैः साधुभिर्मात्रके गृहीतं तद् ग्लानाऽऽदीनां प्रयच्छन्ति। सेसाणं संसहूं, न छुब्मती मंडलिपडिग्गहिए। पत्तेगगहित छुडभति, ओभासणलंभ मोत्तूणं / / 125 / / शेषाणां गुराव्यतिरिक्तानां संसृष्ट मण्डलीप्रतिग्रहे न क्षिप्यते / यत्तु ग्लानाऽऽदीनामर्थाय प्रत्येक पृथक् पृथक् मात्रकेषु गृहीतं, तत्तेषामुद्वरित मण्डल्या प्रक्षिप्यते, परमवभाषितलाभ मुक्त्वा प्रक्षिप्यते इति भावः / पाहुणगट्ठा व तगं, धरेत्तु अतिवाहडा विगिचंति! इइ गहणभुंजणविही, अविवीऍ इमे भवे दोसा / / 126 / / प्राघुणकार्थ वा तकं लानार्थमानीतप्रायोग्यं धृत्वा स्थापयित्वा यदि 'अतिवाहड़ा' अतीव घ्राताः प्राघूर्णकाच नायातास्तदा विवेचयन्ति परित्यजन्ति एवमिह ग्रहणभोजनविधिर्भवति।