________________ पामिच्च 854 - अभिधानराजेन्द्रः - भाग 5 पामिच तदने स्वयमेव वक्ष्यति। लोकोत्तरं प्रामित्यं 'वस्त्राऽऽदिषु वस्वाऽऽदिविषयं साधूनामेव परस्परमवसेयम् / इह लौकिक भगिन्यादावित्युक्तम्। तत्र भगिन्युदाहरणमेव गाथात्रयेण प्रकटयतिसुयअहिगमनायविही, बहि पुच्छा एग जीवइ ससा ते। पविसण पाग निवारण, उच्छिंदण तेल्ल जइदाणं / / 317 / / अपरिमियनेहवुड्डी, दासत्तं सो य आगओ पुच्छा। दासत्तकहण मारुय, अचिरा मोएमि एत्ताहे // 318|| भिक्खदगसमारंभे, कहणाउट्टो कहिं ति वसहि त्ति। संवेया आहरणं, विसज्जु कहणा कइवया उ॥३१६।। कोशलाविषये कोऽपि ग्रामः, तत्र देवराजो नाम कुटुम्बी, सारिकाऽभिधा तस्य भार्या, तस्याश्च सम्मतप्रमुखा बहवः सुताः, सम्मतिप्रभृतयश्च प्रभूता दारिकाः, तच्च सकलमपि कुटुम्ब परमश्रावकं, तथा तस्मिन्नेव ग्रामे शिवदेवो नामश्रेष्ठी, तस्य भार्या शिवा, अन्यदा च समुद्रघोषाभिधाः सूरयः समागच्छन्, तेषां समीपे जिनप्रणीत धर्ममाकर्ण्य जातसंवेगः सम्मतो दीक्षां गृहीतवान्, कालक्रमेण च गुरुचरणप्रसादतोऽतीव गीतार्थः समजनि। स चान्यदा चिन्तयामासयदि मदीयः कोऽपि प्रव्रज्यां गृह्णाति, ततः शोभनं भवति, इदमेव हि तात्त्विकमुपकारकरणं यत्संसारार्णवादुत्तारणमिति / तत एवं चिन्तयित्वा गुरूनापृच्छ्य निजबन्धुग्रामे समागमत्, तत्र च बहिः प्रदेशे कमपि परिणतवयस पृष्टवान पुरुषंयथाऽत्र देवराजाभिधस्य कुटुम्बिनः सत्कः कोऽपि विद्यते? इति / स प्राहमृतं सर्वमपि तस्य कुटुम्ब, केवलमेका सम्मत्यभिधा विधवा पुत्रिका जीवतीति / ततः स तस्या गृहे जगाम। सा च भ्रातरमायान्तं दृष्टा मनसि बहुमानमुद्वहन्ती वन्दित्वा कश्चित्कालं पर्युपास्य च तन्निमित्तमाहारं पक्तुमुपतस्थे। साधुश्च तां निवारितवान्-यथा न कल्पतेऽस्माकमरमनिमित्तं किमपि कृतमिति, ततो भिक्षावेलायां सा दुर्गतत्वेनान्यत्र क्वचिदपि तैलमात्रमप्यलभमाना कथमपि शिवदेवाभिधस्य वाणजो विपणेस्तैलपलिकाद्वयं दिने दिने द्विगुणवृद्धिरूपेण कलान्तरेण समानीय भ्रात्रे दत्तवती / भ्रात्रा च तं वृत्तान्तमजानता शुद्धमिति ज्ञात्वा प्रतिजगृहे / सा च तदिनं भ्रातुः सकाशे धर्म श्रुतवती, तेन न पानीयाऽऽनयनाऽऽदिना तत् तैलपलिकाद्वयं प्रवेशयितुं प्रपारितवती। च द्वितीये दिने भ्राता यथाविहारक्रमं गतः / ततस्तस्मिन्नपि दिने तद्वियोगशोकाऽऽकीर्णमानसतया तत्तैलपलिकाद्वयं द्विगुणीभूतं प्रवेशयितुमशक्नुवती, तृतीये च दिने कर्षद्वयमृणे जातं, तच्चातिप्रभूतत्वान्न प्रवेशयितुं शक्तम्, अपि च-भोजनमपि पानीयोऽऽनयनाऽऽदिना कर्त्तव्यं, ततो भोजनायैव यत्नविधौ सकलमपि दिनं जगामेति न ऋणं प्रवेशयितुं शक्नोति, दिने दिने द्विगुणवृद्ध्या प्रवर्द्धमानमृणमपरिमितघटप्रमाणं जातं, ततः श्रेष्टिना सा बभणे-यथा मम तैलं देहि, यद्वा में दासी भव / ततः सा तैलं दातुमशक्नुवती दासत्वं प्रतिपदे, कियत्सु च वर्षेष्वतिक्रान्तेषु भूयोऽपि सम्मताभिधः साधुस्तस्मिन्नेव ग्रामे यथाविहारक्रममागमत् / सा च भगिनी स्वगृहे न दृष्टा,तत आगता सती पप्रच्छे, तया च प्राचीनः सर्वोऽपि ध्यतिकरस्तस्मै न्यवेदि, यावद्दासत्वं शिवदेवगृहे जातमिति, निवेद्य च स्वदुःखं रोदितु प्रवृत्ता / ततः साधुरवोचत्-मा रोदीरचिरादहं त्वां मोचयिष्यामि। ततस्तस्या मोचनोपायं चिन्तयन् प्रथमतः शिवदेवस्यैव गृहे प्रविवेश / शिवा च तस्य भिक्षादानार्थं जलेन हस्तौ प्रक्षालयितुं लग्ना, तां च साधुर्निवारयामास, यथैवमस्माकं न कल्पते भिक्षेति। ततः समीपदेशवर्ती श्रेष्ठी प्रोवाच-कोऽत्र दोषः? ततः साधुः कायविराधनाऽऽदीन् दोषान् यथागम सविस्तरमचकिथत् / ततः स आट्टतो भणति-यथा भगवन् ! कुत्र युष्माकं वसति? येन तत्राऽऽगता वयं धर्म श्रृणुमः / ततः साधुरवादीत्-नास्ति मेऽद्यापि प्रतिश्रयः। ततस्तेन निजगृहैकदेशे वसतिरदायि, प्रतिदिनं च धर्म शृणोति, सम्यक्त्वमणुव्रतानि च प्रतिपन्नानि। साधुश्च कदाचनापि वासुदेवाऽऽदिपूर्वपुरुषाऽऽचीर्णाननेकानभिग्रहान्व्यावर्णयामास, यथा वासुदेवेनायमभिग्रहो जगृहेयदि मदीयः पुत्रोऽपि प्रव्रज्यां जिघृक्षति ततोऽहं न निवारयामीत्यादि। एवं च श्रुत्वा शिदेवोऽप्यभिग्रहं गृहीतवान्-यदि भगवन् ! मदीयोऽपि कोऽपि प्रव्रज्या प्रतिपद्यते ततोऽहं न निवारयामीति / अत्रान्तरे च शिवदेवस्य तनयोज्येष्ठः,सा च साधुभगिनी सम्मतिः प्रव्रज्यां ग्रहीतुमुपतस्थे। श्रेष्टिना च तौ द्वावपि विसर्जितो, ततः प्रव्रज्यां प्रतिपन्नाविति / सूत्रं सुगमम्। केवलं 'श्रुताधिगमज्ञातविधिः' श्रुताधिगमात् ज्ञातो विधिः क्रियाविधिर्येन सतथा। अत्राऽऽह-नन्वेतत्प्रामित्य साधुना विशेषतो ग्रहीतव्यं, परम्परया प्रव्रज्याकारणत्वात्, अत आह-"कइवया उ'' एवंविधा गीतार्था विशिष्ट श्रुतविदो देशनाविधिनिपुणाः कतिपया एव भवन्ति, न भूयांसः, कतिपयानामेव च प्रव्रज्यापरिणामः, ततः प्रामित्यं दोषायैद। तदेव तैलविषये प्रामित्ये दोष उक्तः। सम्प्रत्यतिदेशेन वस्त्राऽऽदिविषये दोषानभिधित्सुराहएए चेव य दोसा, सविसेसयरा उ वत्थपाएसुं। लोइयपामिचेसुं, लोगुत्तरिया इमे अन्ने / / 320 / / एते चैव दासत्वाऽऽदयो दोषा वस्त्रपात्रविषयेषु लौकिकेषु प्रामित्येषु सविशेषतरा निगडाऽऽदिनियन्त्रणपुरस्सरा द्रष्टव्याः, लोकोत्तरिकाः लोकोत्तरप्रामित्यविषयाः पुनरिमेऽन्ये दोषाः / तानेवाऽऽहमइलिएँ फालिएँ खोसिएँ, हिऐं नढे वावि अन्न मग्गंते। अवि सुंदरे वि दिण्णे, दुक्कररोई कलहमाई // 321 // इह द्विधा लोकोत्तरं प्रामित्यं-कोऽपि कस्याऽपि सत्कमेवं वस्त्राऽऽदि गृह्णाति, यथा कियदिनानि परिभुज्य पुनरपि ते समर्पयिष्यामि, कोऽपि पुनरेवम्-एतावदिनानामुपरि तवैतत् सदृशमपरं वस्त्राऽऽदि दास्यामि, तत्र प्रथमे प्रकारे मलिनिते शरीराऽऽदिमलेन क्लेदिति। यदि वा-पाटितेऽथवा- 'खोसिते' जीर्णप्राये कृते / यदि वाचौराऽऽदिना हते,यद्वाक्वापि मार्गपतिते कलहाऽऽदयो दोषाः। द्वितीये च प्रकारे ऽन्यद्वस्त्राऽऽदिकं याचमानो याचमानस्य, 'अपिः' सम्भावनाया, 'सुन्दरेऽपि' पूर्वभुक्ताद्वस्त्राऽऽदेविशिष्टतरेऽपि दत्त कोऽपि दुष्कररुचिर्भवति, महता कष्टेन तस्य रुचिरापादयितुं श