________________ पाणबह 842 - अमिधानराजेन्द्रः - भाग 5 पाणबह लकुट, मिण्डिमालः प्रहरणविशेषः। सद्धलो भलः, पट्टिसः प्रहरणविशेषः (चम्मेट्टति) चर्मवष्टितं पाषाणविशेषो, दूषणो मुद्गरविशेषः, मौष्टिको मुष्टिप्रमाणपाषाण एव, असिखेटकम् असिना सह फलक, खडगः केवल एव, चाप धनुः, नाराच आयसो वाणः, कणको वाणविशेषः / कल्पनी कर्तिकाविशेषः, वासी काष्ठतक्षकोपकरणविशेषः / परशु कुठारविशेषः। तत एतेषांद्वन्द्वस्ततस्तेच ते टड्डा इव तीक्ष्णा निर्मलाश्चेति कर्मधारयः, ततस्तैरितिव्याख्येयम्, तृतीयाबहुवचनलोपदर्शनादिति! अन्य श्वेवमादिभिः अशुभैर्व क्रियैःप्रहरणशतैरभिघ्नन्तः अनुबद्धतीनवैरा अविच्छिन्नोत्कटवैरभावाः परस्परमन्योऽन्यं वेदनामुदीरयन्ति नारका ) एव तिसृभ्यः नरकपृथिवीभ्यः, परतो नरकपालानागमनाभावात्। (तत्य यति) तत्र च परस्परामिहननेन वेदनोदीरणेन मुद्गप्रहारचूर्णितो भुसु - ण्डिभिः संभग्ना मथितिश्च विलोडितो देहो येषां ते तथा, यन्त्रोपपीउनेन स्फुरन्तश्च कल्पिताश्च छिन्नाः यन्त्रोपपीडनस्फुरत्कल्पिता: (केइत्थ ति) कचिदत्र नरके सवर्मकाश्वम॑णा सह विकृताः, उत्कृत्ताः पृथक्कृतचणि इत्यर्थः / तथा निर्मूलोल्लूनकर्णोष्ठनासिकाः च्छिन्नहस्तपादा असिक्रकचतीक्ष्णकुन्तपरशूना प्रहारैः स्फाटिता विदारिता येते तथा, वारया संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा / ततः पदव्यग्य कर्मधारयः। तथा (कल त्ति) कलकलायमानक्षारेण यत्पारेषिक्तं तेन गाढमत्यर्थ (उज्झंत त्ति) दामानं गात्रं येषां ते तथा, कुन्ताग्रभिन्नो जर्जरितश्च सर्वो देहा येषां ते, ततः कर्मधारयः। (विलालिं ति) विलुलन्ति / लुण्ठन्तीत्यर्थः / महीतले भूतले (विसुणियंगमंग त्ति) जातवेपथुकाङ्गोपाङ्गाः / वाचनान्तरे तु निर्गताग्रजिड़ाः (तत्थ य त्ति) तत्र च महीतलविलोनन बृकाऽऽदिभिः विक्षिप्यन्ते इतियोगः / तत्र वृका ईहामृगाः / (सुणग त्ति) कोलेयकाः, शृगालाः, गोमायवः, काकाः वायसाः, मार्जाराः विडालाः, सरभाः परसराः, द्वीपिका चित्रकाः / (वियग्ध ति) वैयाघ्राः व्याघापत्यानि, शार्दूला व्याघ्राः, सिंहा प्रतीताः। एते च ते दर्पिताश्च दृप्ताः क्षुदभिभूता बुभुक्षिता इति ते तथा तै: नित्यकालमनसितैः निर्भोजन?रा दारुणक्रियाकारिणः आरसन्तः शब्दायमानाः भीमरूयाश्च येते तथा तैः, आक्रम्य दृढं दंष्टाभिर्गाढमत्यर्थ (डमति) दष्टाः (कड्डिय त्ति) कृष्टाश्च आकर्षिता येते तथा. सुतीक्ष्णनखैः स्फाटित उर्दो देहो येषां तेतथा।ततः पदद्यस्य कर्मधारयः। विक्षिप्यन्ते विकीर्यन्ते, समंततः, किंभूतास्ते? विमुक्तसंधिबन्धनाः 'लथीकृताइसंधानाः, तथा व्यङ्गितानि विकलीकृतान्यङ्गानि येषां ते तथा, तथा कङ्काः पक्षिविशेषः, कुररा उत्क्रोशाः, गृद्धा शकुनिविशेषाः, घोरकष्टा अतिकष्टाश्वये वायसास्तेषां ये गणास्तैश्च (पुणो त्ति) समुचयार्थः, खराः कर्कशाः, स्थिरा निश्चलाः, दृढाः अभड्गुरा नखा येषां ते तथा, तथैव तुण्ड येषां ते तथा, ततः कर्मधारयस्तैरवपत्य उपनिपत्य पक्षेराहताः पक्षाऽऽहता तीक्ष्णनखैः विक्षिप्ताः आकृष्टा जिह्वाः आच्छिते चाऽऽकृष्ट नयन लोचने, निर्दय च निष्कृपं यथाभत्येव तथा (ओरुगं ति) अवरुग्गं भग्नं विकृतं च वदनं येषा, पाठान्तरे "ओलुग्गं ति" अवलुप्तानि छिन्नानि विकृतानि गात्राणि येषां ते, तथा उत्क्रोशन्तश्च क्रन्दन्तश्च उत्पतन्तो निपन्ततो भ्रमन्तः पूर्वकर्मोदयोपगता इति च पदचतुष्टयं व्यक्तम्। पश्चादनुशयेन पश्चात्तापेन दह्यमानाः निन्दन्तो जुगुप्समानाः (पुरे कडानि पूर्वभवकृतानि कर्माणि क्रियाः पापकानि प्राणातिपाता ऽदीनि ततः (तहिं 2) ते तस्यां रत्नप्रभाऽऽदिकायां पृथिव्याम्.उत्कृष्टाःऽदि स्थितिके नरके तादृशानि जन्मान्तर उपार्जितानि परमाधार्मिकोदीरितपरस्परोदीरितक्षेत्रप्रत्ययरूपाणि (उस्सण्णचिक्कणाई ति) उसन्न प्राचुर्येण (चिकणाई) दुर्विमोचानि दुःखानि अनुभूय ततश्च निरयादायुः क्षयेणाद्वृत्ताः सन्तो बहवो गच्छन्ति तिर्यग्वसतिं तिर्यग्यो नि यतोऽल्पा एव मनुष्येषूत्पद्यन्ते दुःखोत्तराम् अनन्तोत्सर्पिण्यवसर्पिणीकायस्थितिकत्वात्, तरयां सुदारुण्यां दुःखाऽऽश्रयत्वात् जन्ममरणजराव्याधीन या परिवर्तना पुन पुनर्भवनानि ताभिररघदो या सा तथा तः तिर्सग्दसति जलस्थलखवराणां परस्परेण विहिंसनस्य विविधव्यापादनस्य प्रपञ्चो विस्तारो यस्या सा तथा, तस्यां तस्यां च इदं वक्ष्यमाणप्रत्यक्ष जगत्प्रकटं, न केवलमागमगम्यं, किं तु जङ्गमजन्तूनां प्रत्यक्षप्रमाणसिद्धतया प्रकटमेवेति, वराकास्तपस्विनः, प्राणदधकारिण इति प्रक्रमः / दुख प्राप्नुवन्ति दीर्घकाल, या च (किंत ति) तद्यथा-शीतोष्णतृष्णाक्षुद्भिर्वेदना तथा अप्रतीकारं सूतिकर्माऽऽदिरहितम् अटवीनन्म कान्तारजन्म नित्यं भवेनोद्विग्नानां मृगाऽऽदीनां वासोऽवस्थानं जागरण च अनिद्रागमनं बधो मारणं बन्धनं संयमनं ताडनं कुट्टनम्, अङ्कन तप्तायःशलाकाऽऽदिना चिन्हकरणं, निपातनं गतोऽऽदिप्रक्षेपणमस्थिभञ्जनं कोकसामर्दन, नासाभेदो नासिकाविवरकरणं प्रहारैः (दम ति) दमनमुपताप, छविच्छेदनमवयवकर्तनम्, अभियोगप्रापणं हठाव्यापार प्रवर्तन, कसश्व चर्मयष्टिका, अकुशं सृषिः, आरा च प्रवपराणी (?) या दण्डान्तर्वर्तिनी लोहशलाका तासां निपातः शरीरे निवेशनंदमनं शिक्षाग्रहणं ततो द्वन्द्वः। ततःएतानि प्राप्नुवन्तीति प्रक्रमः / वाहनानि च भारस्येति गम्यम्। मातापितृविप्रयोगः श्रोतसा नासामुखाऽऽदिरन्ध्राणां च परिपीडनानि रज्वादिदृढबन्धनेन बाधनानि यानि तानि, तथा शोकपरिपीडितानि वा, ततो द्वन्द्वः। ततस्तानि च शस्त्रं चाऽग्निश्च विषं च प्रसिद्धानि, तैरभिघातश्चाभिहननं गलस्य कण्ठस्य गवलस्यं शृङ्गस्याऽऽवलन चमोटनमथवा गलस्य बलादाबलनं मारा चेति तानि च गलेन वडिशेन, जालेन वाऽऽनायेन (उच्छिपणाणि त्ति) जलमध्यान्मस्याऽऽदीनामुत्क्षेपणान्याकर्षणानि वानि तानि, तथा (पसलन) पचनं विकल्पनं छेदन ते च यावजीविकबन्धनानि पञ्जरनिरोधनानि चेति पदद्वयं व्यक्तम् / स्वयूथान्निर्घाटनानि वा स्वकीयनिकायनिष्कालनानीत्यर्थः / धमनानि महिष्यादीनां वायुपूरणानि, दोहनानि च प्रतीतानि, कुदण्डेन बन्धनविशेषेण, गले कण्टे यानि बन्धनानि तानि तथा, वाटेन वाटकेन वृत्त्येत्या परिवारणानि निराकरणानि यानितानि तथा तानि पङ्कजलनिमजनानि कर्दमप्रायजले बोलनानि, वारिप्रवेशनानिचजले क्षेपः, तथा-(ओवाय त्ति) अवपातेषु गर्तविशेषेषु उडङ्क इत्येवरूढेषु पतनेन निभड़ो भजन गात्राणामवपातनिभङ्गः।स च विषमात्पर्वतशृङ्गाऽऽदेः निपतनं विषमनिपतनं, तच्च दवाग्रिभिज्ालाभिर्दहन चेति तानि आदिर्येषां तानि तथा कर्माणि प्राप्नुवन्तीति योगः / एवमुक्तन्यायेन ते प्राणघातिनः दुःखशतसंप्रदीपः नरका