________________ पाणबह 537 -- अभिधानराजेन्द्रः -- भाग 5 पाणबह या वोन्दी शरीर सब रूपं स्वभावो येषां ते तथा तान, अचाक्षुषान् चक्षुषाऽदृश्याश्चाक्षुषा व चक्षुगाह्यान् / कानेवंविधानित्याह-सकायस्वसनामकादयवर्तिजीवराशिः,तत्र भवास्त्रसकायिकाः तान कियन्त इत्याह असंख्यान तथा स्थावरकायांश्च सूक्ष्माश्च बादराव तन्नामकम्मोदयवर्तिनः प्रत्येकशरीरमिति नामकर्म विशेषा येषां ते प्रत्यक्रशरीरनामानः, तेच साधारणाश्च साधारणशरीरनामकम्भोदयवर्तिन इति द्वन्द्रीतस्तान। कियन्तः? अनन्तान् साधारणानेव शेषस्थावराणामसंख्येयत्वात् / जीवानिति योगः। किमित्याह-घ्रन्ति / किंभूतान? अविजानतश्च रववधपरिजानतश्च सुखदुःखे अनुभवतः / एकेन्द्रियान् अथवा स्वबघमजानत एकेन्द्रियान तमेव परिजानतस्त्र.. सानिति जीवानज-तून एभिर्विविधैः कारणैः प्रयोजनैः (किं ते त्ति) किं तत. तद्यथेति वा : कनकषिः, पुष्करिणीः पुष्करवती चतुःकोणा वा वाचीत पुष्करात त का / (वधिमण त्ति) केदाराः, कूपरसरस्तडागाः प्रतीताः। चितिभित्यादेबयन, मृतकदहनार्थ दारुविन्यासो वा, बदिवितर्दिका, खातिका परिरखा, आसमो वाटिका, विहारो बौद्धाऽऽद्याश्रयः, स्तूपः चितिविशेषः प्राकारः शालद्वारं प्रतीतं, गोपुरं प्रतोलीकपाट इत्यन्य। उहालकः प्राकारोपरिवाश्रयविशेषः, चरिका नगर--- प्राकारयोरन्तरषु अष्टहस्तप्रमाणा मार्गः, सेतुर्मागविशेषः, पालि-र्वा / संक्रमो विषमोत्तर मार्गः, प्रासादो नरेन्द्राऽऽश्रयः, विकल्पास्तभेदाः / भवनानि चतुःशालाऽऽदीनि, गृहाणि सामान्यानि, शरणानि तृणमथानि, लयनानि पार्वताने कुट्टितगृहाणि, आपणा हट्टाः, चैत्यानि प्रतिमाः, देवकुलानि सशिखरदेवप्रासादाः, चित्रसभाः चित्रकर्मवन्मण्डपः, प्रपा जलदानस्थानम्, आयतनं देवाऽऽयतनम्, आवसथः परिव्राजकाऽऽश्रयः, भूमिगृह प्रतीत, भण्डपश्छायाऽऽद्यर्थः पटाऽऽदिमय आश्रयविशेषः, एतेषां दन्द्रः / तत एतेषां कृते निमित्ते पृथिवीं हिंसन्ति इति संबन्धः भाजनान्यमत्राणि सौवर्णाऽऽदीनि, भाण्डानि तान्येव मृणमयानि, क्रयाणकानि लवणाऽऽदीन्युपकरणान्युदूखलाऽऽदीनि / एषां समाहारद्वन्द्वः। ततस्तस्य विविधस्य चार्थाय हेतवे पृथिवीं पृथिवीकायिकान हिंसन्ति मन्दबुद्धिकाः / तथा जल चाप्कायिकांश्च,हिंसन्ति इति वर्तत। मजनक स्नान, पान भोजनं च प्रतीतम्। वस्त्रधाधनं वासःक्षालनं, शौचमाचमनमेत दादिभिः कारणैः इति प्रक्रमः / तथा पचनं पाचन-- मोदनाऽऽदे: (जलावणं ते) स्वतः परतो वाऽग्नेरुद्दीपनं, विदर्शन-. मन्धकारस्थवस्तुप्रकाशनमतः कारणैः / चः समुच्चये। अग्नि हिंसन्ति। तथा सूर्य प्रतीतं. व्यजन वायूदीरकम् तालवृन्तं. तदेव द्विपुटाऽऽदिः। (पहुणं ति) मयूर, मुखमास्यं, करतलं हस्तः , सागपत्रं वृक्षविशेषपत्र, वस्त्र प्रतीतमेतदादिभिः वातोदोषणवस्तुभिः अनिलं वायु हिंसन्ति इति / तथा आगारं गेह (परियारो त्ति) परिवारो वृत्तिः, खड्गाऽऽदिकोशो वा। भयाणि मोदकाऽऽदीनि / "खरविशदमभ्यवहार्य भक्ष्यम्' इति पवनात / भोजनान्योयनाऽऽदीनि, शयनानि शय्याः, आसनानि विष्टराणि, फलकान्यवष्टम्भनद्यूताऽऽदिनिमित्तानि, मुशलान्युदूखलाश्च प्रसिद्धाः। ततानि वीणाऽऽदीनि, विततानि पटहाऽऽदीनि, आतोद्यानि वाद्यानि, वहनानि यानपात्राणि, वाहनानि शकटादीऽऽनि, मण्डापाः प्रतीताः / विविधभवनानि चतुःशालाऽऽदीनि, तोरणानि प्रतीतानि / विटङ्कः कपातपाली, देवकुल प्रतीत जालकं छिद्रान्वितो गृहावयवविशेषः अर्द्धचन्द्रः सौधविशेषः, नि!हक द्वारोपरितनपार्श्वविनिर्गतदारु, चन्द्रशालिका प्रासादोपरितनशाला, वेदिका वितईिका, निःश्रेणिरवतरणी, द्राणी नौः, चङ्गेरी महती काष्ठपात्री, गृहत्पटलिका वा / कीला: शङ्कवः, मटका मुण्डका, सभा आस्थानिका, प्रपा जलदानभण्डपः, आवरायः परिव्राजकाऽऽश्रयः, गन्धाः चूर्णविषाः, माल्यं कुसुममनुलेपन विलेपनमभ्वराणि वरवाणि, यूपा युग, लाङ्गलं सरी, (मत्तिय त्ति) मत्तिकं, येन कृष्ट्वा क्षेत्र मृज्यते, कुशिकं हलप्रकारः, स्यन्दनो रथविशेषो, यतो द्विविधो रथः-सांग्रामिको, देवयानरथश्च / तत्र संग्रामिकस्य कटीप्रमाणा वेदिका भवति, शिविका पुरुषसहस्रवहनीयकूटाऽऽकारशिखराऽऽच्छादितो जम्पानविशेषः, रथः प्रसिद्धः, शकटं गन्त्री, यानं तद्विशेषः, युग्य गोनदेशप्रसिद्धो द्विहस्तप्रमाणावेदिकोपशोभितो जम्पानविशेष एव, अदालकः प्राकारोपरिवर्ती आश्रयविशेषः / चरिका नगरप्राकारान्तराले अष्टहस्तप्रमाणो मार्गः, द्वारं प्रतीत, गोपुरं पुनद्वारः, परिघा अर्गला, यन्त्राणि अरघट्टाऽऽदियवाणि, शूलिका वध्यप्रोतनकाष्ठं, पाठान्तरे शूलकः कीलकविशेषः। (लउड त्ति) लकुटः मुसुण्डिः प्रहरणविशेषः, श तघी महती यष्टिः, बहूनि च प्रहरणानि करवालाऽऽदीनि, आवरणानि स्फरवाऽऽदीनि (?) उपस्करश्च गृहोपकरण मञ्चकाऽऽदि / तत एतेषा द्वन्द्वः। ततश्च एतेषा कृते अर्थाय अन्यैश्च एवमादिभिः बहुभिःकारणशतैः हिंसन्ति तरुगणान् / तथा भणिताभणितांश्चैवमादिकान् एवंप्राकारान् सत्त्वान सत्वपरिवर्जितान् उपनन्तिदृढाश्च मूढाश्च दारुणमतयश्चेति प्रतीतम्। तथाविधक्रोधात् मानात्मायालोभात् हास्यरत्यरतिशोकात्। इह पञ्चमीलोपो दृश्यः / वेदोर्थाश्च वेदार्थमनुष्ठानं, जीविका जीवन, धर्मश्वार्थश्व कामश्चेत्येतेषा हेतोः कारणात्, स्ववशाः स्वतन्त्राः, अवशास्तदितरे अर्थाय च अनर्थाय च त्रसप्राणान् स्थावरांश्च हिंसन्ति मन्दबुद्धयः / एतदेव प्रपञ्चयन्नाह-स्ववशा घ्रन्ति, अवशा घन्ति, स्ववशा अवशाश्व इत्येवं (दुहउत्ति) द्विविधा घन्ति, एवमर्थाय इत्यादालापकत्रयम् / एवं हास्यवैररतिभिरालापकचतुष्टयमेवं कुद्धलुब्धमुग्धैः अर्थध-- मकामै श्चेति / तदेवं यथा च कृत इति प्रतिपादितम् / अधुना फल-- प्रधानाः क्रियाः' इति न्यायात्। फलद्वारं द्वारगाथायां कर्तृद्वारान् प्रागुपन्यस्तमप्युल्लड्घ्य "कधीना क्रिया' इति न्यायेन कर्तुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि कुर्वन्ति पापाः प्राणबधमित्येतदाह(कयरेत्यादि) तत्र कतरे कृष्यादिकारणैः प्राणिनो नन्तीति प्रश्रः / उत्तरमाह-(जे ते सोयरिए इत्यादि) तत्र शूकरैः मृगयां कुर्वन्ति ये ते शौकरिकाः, मत्स्यवन्धाः प्रतीताः / शकुनीन् धन्तीति शाकुनिकाः, व्याधाः लुब्धकविशेषाः क्रूरकर्माण इत्येतेषामेव स्वरूपाभिधायक विशेषणम्। (वागुरियत्ति) क्वचित्पाठः। तत्र वागुरिकया मृगबन्धनविशेषण चरन्तीति वागुरिका इति / तथा द्वीपिकश्चित्रको मृगमारणाय बन्धनप्रयोगश्च बन्धोपायः तहनश्च (?) तरकाण्ड विशेषो मत्स्यग्रहणार्थ जलावतरणाय, गलं च वडिशं जालंच मत्स्यबन्धनं चिरलकश्च श्येनाभिधानः, शाकुनि, शकुनिविनाशाय, आयसी लोहमयी दर्भमयी च या वागुरा मृगबन्धनविशेषः सा च कूटेन या स्थाप्यते चित्रकाऽऽदिग्रहणार्थ , छेलिका अजा सा कूटछेलिका सा च, अथवा कूट च मृगाऽऽदिग्रहणयन्त्र छेलिका चेति द्वन्द्वः / ता हस्ते येषां ते तया /