SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पंडियवीरिय 60- अभिधानराजेन्द्रः - भाग 5 पंडियवीरिय - तथा किञ्चान्यत् कडं च कञ्जमाणं च, आगामिस्सं च पावगं / सव्वं तं गाणुजाणंति, आयगुत्ता जिइंदिया।।२१।। (वड चेत्यादि) साधूद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्ग, तथा- वर्त्तमाने च काले क्रियमाणम्, तथा- आगामिनि च काले यत्करिष्यते, तत्सर्वं मनोवाकायकर्मभिर्नानुजानन्ति नाऽनुमोदन्ति, तदुपभोगपरिहोरणेति भावः। यद्यप्यात्मार्थं पापक कर्म परेः कृतं, क्रियते, करिष्यते च / तद्यथा- शत्रोः शिरश्छिन्नं, छिद्यते, छेत्स्यते वा / तथाचौरी, हतो हन्यते हनिष्यते वा इत्यादिक परानुष्ठानं नाऽनुजानन्ति, न च वह मन्वन्ते। तथाहि-यदि परः कश्चिदशुद्धेनाऽऽहारेणोपनिमन्त्रयेत्तमपि नानुमन्यन्त इति / क एवम्भूता भवन्तीति दर्शयति-आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा / जितानि वशीकृतानि इन्द्रियाणि श्रोत्राऽऽदीनि येस्तेतथा, एवम्भूताः पापकर्म नाऽनुजानन्तीति स्थितम् // 21 // अन्यच्चजे अबुद्धा महाभागा, वीरा असमत्तदंसिणो। असुद्धं तेसि परकंतं, सफलं होइ सव्वसो।।२२।। (जे अबुद्धा इत्यादि) ये केचनाऽबुद्धा धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्काऽऽदिपरिज्ञानेन जालाऽवलेपाः पण्डितमानिनाऽपि परमार्थवस्तुतत्वाऽनवबोधादबुद्धा इत्युक्तम्। न च व्याकरणपरिज्ञानमात्रेण सम्यक्त्वव्यतिरेकेण वस्तुतत्त्वावबोधो भवतीति। तथा चोक्तम - "शास्त्रावगाहपरिधट्टनतत्परोऽपि, नैवाऽबुधः समभिगच्छति वस्तुतत्त्वम् / नानाप्रकाररसभावगताऽपि दर्वी, स्वाद रसस्य सुचिरादपि नैव वेत्ति / / 6 / / '' यदि वा-अबुद्धा इव बालवीर्यवन्तः / तथा महान्तश्च ते भागाश्च महाभागाः। भागशब्दः पूजावचनः / ततश्च महापूज्या इत्यर्थः, लोकविश्रुता इति। तथा-वीराः परानीकर्भदिनः सुभटा इति / इदमुक्तं भवति-पण्डिता अपि त्यागाऽऽदिभिर्गुणैर्लोकपूज्याः / अपि च / तथासुभटवादं वहन्तोऽपि सम्यक्तत्त्वपरिज्ञानविकलाः केचन भवन्तीति दर्शयति-न सम्यगसम्यक् तद्भावोऽसम्यक्त्वं, तद्रष्टु शील येषां ते तथा, मिथ्यादृष्ट्य इत्यर्थः / तेषां च बालानां यत्किमपि तपोदानाध्ययनयमनियमाऽऽदिषु पराक्रान्तमुद्यमकृतस्तदशुद्धमविशुद्धकारि, प्रत्युत कर्मबन्धाय भावोपहतत्वात् सनिदात्वाद्वेति कुवैद्यचिकित्सावद्विपरीताःनुवन्धीति, तच तेषां पराक्रान्त, सह फलेन कर्मबन्धेन वर्तत इति सफलम्। सर्वश इति। सर्वाऽपितत्क्रिया तपोनुष्ठानाऽऽदिका कर्मबन्धायैवेति / / 22 // साम्प्रत पण्डितवीर्येणाधिकृत्याऽऽहजे य बुद्धा मद्दाभागा, वीरा सम्मत्तदंसिणो। सुद्धं तेसिं परक्वंतं, अफलं होइ सध्वसो।।२३।। (जे य युद्धा इत्यादि) ये केचन स्वयंबुद्धास्तीर्थकराऽऽद्यास्तच्छिष्या | दा बुद्धबोधिता गणधराऽऽदयो महाभागा महापूजाभाजो वीराः कर्मविदारणसिहष्णवो ज्ञानाऽऽदिभिर्वा गुणैर्विराजन्त इति वीराः। तथा सम्यक्त्वादर्शिनः परमार्थतत्ववेदिनः / तेषां भगवतां यत्पराक्रान्त तपोऽध्ययनयमनियमाऽऽदावनुष्ठितं तच्छुद्धमवदात निरुपरोध सातगौरवशल्यकषायाऽऽदिदोषाऽकलङ्कित कर्मप्रतिबन्धमफलं भवति, तन्निरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः / तथाहि- सम्यगदृष्टीनां सर्वमपि संयमतपः प्रधानमनुष्टानं भवति, संयमस्य चानाश्रयरूपत्वात् तपसञ्च निजराफलत्वादिति। तथा च पठ्यते-"संयमेणण्यफले तवे योदाणफ ले" इति // 23 // किञ्चान्यत् - तेसिं पि तवो असुद्धो, निक्खंता जे महाकुला। जन्नेवऽन्ने वियाणंति, न सिलोगं पवेजए॥२४|| (तेसिं पीत्यादि) महत्कुलमिक्ष्वाक्वादिकं येषां ते महाकुला लोकधिश्रुताः शौर्याऽऽदिभिर्गुणौविस्तीर्णयशसस्तेपामपि पूजासत्काराऽऽहार्थमुत्कीर्तननवायत्तपस्तदशुद्ध भवति। यच क्रियमाणमपि तपो नैवाऽन्ये दानश्राद्धाऽऽदयो जानन्ति तत्तथाभूतमात्मार्थिना विधेयम. अतो नेवाऽऽत्मश्लाघां प्रवेदयेत् प्रकाशयेत् / तद्यथा- अहमुत्तमकुलीन इभ्यो वा साम्प्रतं पुनस्तपोनिष्ट प्तदेह इति, एवं स्वयमाविष्करणेन न स्वकीयमनुष्टानं फल्गुतामापादयेदिति // 24 // अपि चअप्पपिंडासि पाणासि, अप्पंभासेज सुव्वए। खंतेऽभिनिव्वुडे दंते, वीतगिं -द्धी सदा जए॥२५॥ (अप्पपिंडा इत्यादि) अल्पं स्तोकं पिण्डमशितु शीलमस्थाऽसावल्ःपिण्डाशी, यत्किञ्चनाशीति भावः। तथा चाऽऽगमः - "हे जतव आसीय. जत्य व तत्थ व सुहोवगयनिहा। जेण व तेण व तुट्टा, वीर ! मुणिऊसि ते अप्पा / / 1 / / तथा- "अट्ठ-कुकुडिअंडगमत्तप्पमाणे कवले आहरेमाणे अप्पहारे. दुवालसकवलेहिं / अवड्ढोमोयरिया सोलसेहिं दुभागपते चउवीस गोमोदरियं संपमाणपत्ते, बत्तीस कवला संपुण्णहारे।'' अत एकैतकवलहान्यादिनानोदरता विधेया। एवं पाने उपकरणे। वचोनोदरता विदध्यादिति। तथा चोक्तम् - " थोवाहारो थोवभणिओ अ जो हाइ थोवनिदो अ। थोवोबहिउपकरणे, तरस हु देवा वि पणमंति / / 1 / / " सुव्रतः साधुरल्पंपरिमित हित च भाषेत, सदा विकथारहितो भवेदित्सर्थः। भावादौदर्यमधिकृत्याऽऽह-भावतः जोधाऽऽधुपशगा क्षान्तः क्षान्तिप्रधानः, तथाऽभिनिवृतो लोभाऽऽदिजयान्निरातुरः, तथा इन्द्रियनोइन्द्रियदमनाद्दान्तो जितेन्द्रियः। तथा चोक्तम्- "कषाया यस्य नच्छिन्नाः, यस्य नाऽऽत्मवशं मनः। इन्द्रियणि न गुप्तानि, प्रव्रज्या तस्य जीवनम्॥१॥"एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिराशसादोषरहितः, सदा सर्वकालं संयमानष्ठाने, यतेत यत्नं कुर्यादिति॥२५॥ अपि चझाणजोगं समाहट्ट, कायं विउसेज सव्वसो। तितिक्खं परमं णचा, आमोक्खाय परिव्वए / / 26|| (झाणजोगमित्यादि) ध्यानं चित्तरोधलक्षणं धर्मध्यानाऽऽदिकं, तत्र योगो विशिष्टभनोवाकायव्यापारः, तं ध्यानयोग समाहृत्य सम्यगुपादारः, कायं देहमकुशलयोगप्रवृत्तं, व्युत्सृजेत् परित्यजेत् / सर्वतः सर्वेणाऽधि प्रकारेण, हस्तपादाऽऽदिकमपि परपीडाकारिन व्यापारयेत्। लथा तितिक्षा क्षान्ति परीषहोपसर्गसहनरूपा, परमां प्रधानां, ज्ञात्या, आमोक्षायाऽशेष
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy