________________ पाणग 826 - अभिधानराजेन्द्रः - भाग 5 पाणग जं जीवजुयं भरणं, तदफासुय फासुयं तु तदभावा। तं पि य हु होइ कम्म, न केवलं जीवघाएण ||650|| यजीवयुतं राजिकाऽऽदिबीजसहितं भरणं तदप्राशुकं, तदभावाद्राजिकाऽऽदिबीजाभावाद्यदरण तत्प्राशुकं,तदपि च निर्जीवं भरणं संयतार्थ क्रियमाणमाधाकर्म भवति,न केवलं जीवघातेन राजिकाऽऽदिबीजजन्तूपघातेन निष्पन्नमिति। अथोत्सिक्तपदं भावयतिसमणे घरें पासंडे, जावं ति य अत्तणो य मुत्तूणं / छट्ठो नत्थि विकप्पो, उस्सिंचणमो जयट्ठाए ||651 / / काजिकस्य सौवीरिणीतो यन्निष्काशनं तदुत्सिक्तम् / तच पञ्चधाश्रमणार्थ साधूनामयित्यर्थः१, स्वगृहयतिमिश्र 2, पाखण्डमिश्रं 3, यावदर्थिकमिश्वम् 4, आत्मार्थकृतम् 5, एतान् पञ्चभेदान् मुक्त्या अपरः षष्ठो विकल्पो नास्ति यदर्थमुत्सेचनं भवेत् / अत्र चाऽऽत्मार्थं यद् गृहिभिरुत्सितं तदेव गृहीतुंकल्यते, न शेषाणीति। उक्त आहारविषयो विधिः। अथोपधिविषयं तमेवाऽऽहतत पाइय बिततं पि य, वत्थं एकेक्कगस्स अट्ठाए। पाथं भिन्नं निकोरियं च जं जत्थ वा कमइ ||652 / / वस्त्रमेकैकस्यार्थाय ततं पाथितं विततं वक्तव्यम् / तद्यथा-संयतार्थ ततं, संयतार्थ पाथित, संयतार्थमेव च विततम् 1 / संयतार्थतत, संयतार्थ पायितम्, आत्मार्थ विततम् / संयतार्थ ततम् स आत्मार्थ पायितं, संयतार्थ विततम् 3 संयतार्थ ततम्, आत्मार्थ पायितम्, आत्मार्थमेव विततम् 4 / एवमात्मार्थ ततेनापि चत्वारो भङ्गा लभ्यन्ते, जाता अष्टौ भङ्गाः / अत्र चाष्टमो भङ्गः शुद्धः, त्रयाणामप्यात्मार्थ कृतत्वात् / एवं स्वगृहमिश्रपाखण्डमिश्रयावदर्थिकनिश्रेष्वपि द्रष्टव्यं, सर्वत्रापि चाष्टमो भङ्गः शुद्धःशेषास्तु सर्वेऽप्यशुद्धा इति। पात्रमप्युदिन्नं निष्कीर्ण चैवमेव वक्तव्यम्। तद्यथा-संयतार्थमुद्भिनं, संयतार्थ चोत्कीर्ण?, संयतार्थमुदिन्नम् आत्मार्थमुत्कीर्णम् 2, आत्मार्थमुदिन्नं संयतार्थमुत्कीर्णम् 3, आत्मार्थमुदिन्नम्, आत्मार्थमेव चोत्कीर्णम् 4aa अत्र चतुर्थो भङ्गः शुद्धः, शेषास्त्रयोऽप्यशुद्धाः। यद्वा-क्रीतकृतस्थापिताऽऽदिकं यत्र वस्त्रे पात्रे वा क्रमते अवतरति तं तत्र सम्यगुपयुज्य योजनीयम् अत्र च तननं वा विशोधिकोटिः,पायनं विशोधिकोटिरित्याचार्यस्य मतम्। परस्तुब्रवीतिपायनमशोधिकोटिः,कन्दाऽऽदिजीवोपघातनिष्पन्नत्वात्। तननं वितननं च विशोधिकाटिः जीवोपघातस्याऽदृश्य मानत्वादिति। अत्र सूरिराहनास्माकं जीवोपघातेनैवाऽऽधाकर्म, किं तु श्रमणार्थ वस्वाऽऽदेर्यत्पर्यायान्तरनयनं तदप्याधाकर्म मन्तव्यम्। अपिचअत्तट्ठियतंतूहिं, समणट्ठ ततो अ पाइय वुतो य। किं सो ण होइ कम्म, फासूण विवजिओ जो उ / / 953 / / जइ पज्जणं तु कम्म, इतरं न स कप्पऊ धोओ। अह धोओ विन कप्पइ,तणणं विणणं तओ कम्म 954 आत्मार्थिताः स्वार्थ निष्पादिता ये तन्तवस्तैः श्रमणार्थ यः पटः ततः पायितो ऊतश्च, स प्राशुकेनाऽपि स्वार्थमचित्तीकृतेन खलिकाद्रव्यसंभारेण पायितः सन् किम् आधाकर्म न भवति ? त्वदुक्तनीत्या न भवतीति भावः / ततो याद जीवोपघातनिष्पन्नत्वा-त्पायनमाधाकर्म, इतरतु तननं वितननं वा कर्म न आधाकर्मति तर्हि स पटो धौतः सन् कल्पता, भवतोपनीतपायनिकालेपत्वात्। अथ व्रवीथाः-धौतोऽप्यसौ न कल्पते ततस्तननं वितननं चार्थादाधाकर्म संवृत्तमिति सिद्धू नः समीहितम्। बृ०१ उ०२प्रक० अपरिणतं पानकं न गृह्णातिसे भिक्खू वा भिक्खूणी वा०जाव पविढे समाणे से जं पुण पाणगजायं जाणेज्जा / तं जहा-उस्सेइमं वा संसेइमं वा चाउलोदगं वा अण्णयरं वा तहप्पगारं पाणगजायं अहुणा धोतंणविलं अव्वोकं तं अपरिणतं अविद्धत्थं अफासुयं अणेसणिजं लाभे संते णो पडिगाहेज्जा / अहपुण एवं जाणेज्जाचिरा धोयं अंबिलं वुक्कतं परिणतं विद्धत्थं फासुयं पडिगाहेजा / से भिक्खू वा०जाव पविढे समाणे से जं पुण पाणगजायं जाणेजा। तं जहा-तिलोदगं वा, तुसोदगं वा, जवोदगं वा, आयामं वा, सोवीरं वा, सुद्धवियडं वा अण्णतरं वा तहप्पगारं पाणगजातं पुव्वामेव आलोएज्जा, आउसो त्तिवा भगिणि त्ति वा दाहिसि मे एतो अण्णतरं पाणगजायं? से सेवं वदंतस्स परो वएजाआउसंतो समणा ! तुमं चेवेदं पाणगजातं पडिग्गहेण वा उस्सिंचियाणं उयत्तियाणं गिण्हाहि, तहप्पगारंपाणगजायं सयंवा गिण्हिज्जा, परोया से दिज्जा, फासुयं लाभे संते पडिगाहिज्जा / (41) / स भिक्षुर्गृहपतिकुल पानकार्थ प्रविष्टः सन् पत्पुनरेवं जानीयात् / तद्यथा-(उस्सेइमं वेति) पिष्टोत्स्वेदनार्थमुदकम् (संसेइमं वेति) तिलधावनोदकम् / यदि वा-अरणिकाऽऽदिसंस्विन्नधावनोदकम्। तत्र प्रथमद्वितीयोदके प्रासुके एव तृतीयचतुर्थे तु मिश्रे कालान्तरेण परिणते भवतः / (चाउलोदयं ति) तन्दुलधावनोदकम् / अत्र च त्रयोऽनादेशाः / तद्यथा-बुबुदविगमो वा, भाजनलग्नविन्दुशोषो वा, तन्दुलपाको वा। आदेशस्त्वयम्-उदकरवच्छीभावः,तदेवमाधुदकम् अनाम्लं स्वस्वादादेचलितम् अव्युतक्रान्तमपरिणतमविध्वस्तमप्रासुकंयावन्न प्रतिगृहीयादिति। एतद्विषरीत तु गाह्यमित्याह - अहे त्यादि सुगमम् / पुनः पानकाधिकार एव विशेषार्थमाह- स भिक्षुर्गहपतिकुलं प्रविष्टो यत्पुनः पानकजातमेवं जानीयात् / तद्यथा- 'तिलोदक' तिलैः केनवित्प्रकारेण प्रासुकीकृतमुदकम् 4 एवं तुर्षर्यवैर्वा 5-6 / तथा-आचाम्लम् अवश्यानं 7 'सौवीरम्' आरनालं 8, 'शुद्धविकट' प्रासुकमुदकम् 6, अन्यद्वा तथाप्रकार द्राक्षापानकाऽऽदि 'पानकजातं' पानीयसामान्यम्, पूर्वमेव अवलोकयेत्' पश्येत् / तच दृष्ट्वा तं गृहस्थम् अमुक ! इति वा भगिनि ! इति वेत्यामन्त्र्यैवं ब्रूयात्-यथा दास्यासे